摩诃婆罗多 · 章 13.45
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.45.1
पितामह महेशाय नामान्याचक्ष्व शम्भवे ।
विदुषे विश्वमायाय महाभाग्यं च तत्वतः ॥ १३.४५.१ ॥
祖父啊,请讲述大自在天湿婆(Śambhu)的名号,那位智者,以宇宙为幻力,并如实讲述他的大福德。
13.45.2
सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि ।
शिवाय शिवरूपाय यन्माऽपृच्छद्युधिष्ठिरः ॥ १३.४५.२ ॥
诸天与阿修罗之师,天神毗湿奴啊,您理当讲述湿婆——形相吉祥的他——正如般度之子坚战向我所问。
13.45.3
नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मवादिना ।
निवेदितं ब्रह्मलोके ब्रह्मणो यत्पुराऽभवत् ॥ १३.४५.३ ॥
梵言者坦丁在梵天界向梵天宣说了神的千名,此事发生于往昔。
13.45.4
द्वैपायनप्रभृतयस्तथा चेमे तपोधनाः ।
ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव ॥ १३.४५.४ ॥
以苦行为财富的诸仙,以毗耶娑为首,持善誓、调伏诸根,请聆听您所说的。
13.45.5
ध्रुवाय नन्दिने होत्रे गोप्त्रे विश्वसृजेऽग्नये ।
महाभाग्यं विभोर्ब्रूहि मुण्डिनेऽथ कपर्दिने ॥ १३.४५.५ ॥
请讲述遍在者的大福德:不动者、难提(Nandin)、祭主、护持者、创造世界者、火神、剃发者与束发者。
13.45.6
न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः ।
हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः ॥ १३.४५.६ ॥
主的行业之道,无法如实了知;即便以金胎为首的诸天,与因陀罗同在的大仙也不能。
13.45.7
न विदुर्यस्य निधनमादिं वा सूक्ष्मदर्शिनः ।
स कथं नाममात्रेण शक्यो ज्ञातुं सतां गतिः ॥ १३.४५.७ ॥
连洞察细微的智者也不知其终结或开端。仅凭名号,怎能认识这作为善人归宿的他?
13.45.8
तस्याहमसुरघ्नस्य कांश्चिद्भगवतो गुणान् ।
भवतां कीर्तयिष्यामि व्रतेशाय यथातथम् ॥ १३.४५.८ ॥
我将如实地为你们讲述那位主宰、灭除阿修罗、持戒之主的一些德性。
13.45.9
एवमुक्त्वा तु भगवान्गुणांस्तस्य महात्मनः ।
उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः ॥ १३.४५.९ ॥
如此说罢,世尊以水漱净,身心清净,便讲述那位大德智者的种种德性。
13.45.10
शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर ।
त्वं चापगेय नामानि निशामय जगत्पतेः ॥ १३.४५.१० ॥
诸位婆罗门之长,请听;亲爱的坚战,你也听;阿波耶,请听世界之主的名号。
13.45.11
यदवाप्तं च मे पूर्वं साम्बहेतोः सुदुष्करम् ।
यथावद्भगवान्दृष्टो मया पूर्वं समाधिना ॥ १३.४५.११ ॥
我将讲述从前为了桑波所获得的极难之事,以及从前我借助三摩地如实见到世尊的经过。
13.45.12
शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता ।
अतीते द्वादशे वर्षे जाम्बवत्यब्रवीद्धि माम् ॥ १३.४५.१२ ॥
从前智慧的鲁克米尼之子杀死尸婆罗之后,过了十二年,阇婆跋提对我说。
13.45.13
प्रद्युम्नचारुदेष्णादीन्रुक्मिण्या वीक्ष्य पुत्रकान् ।
पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिर ॥ १३.४५.१३ ॥
鲁格米尼看见她的儿子们普罗德尤姆那、遮卢德舍那等人,渴望另一个儿子,便走到我面前说了这些话,般度之子坚战啊。
13.45.14
शूरं बलवतां श्रेष्ठं कान्तरूपमकल्मषम् ।
आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम् ॥ १३.४५.१४ ॥
阿周那啊,请快快给我我的儿子——英勇的、强者中最优秀的、容貌俊美的、无瑕的、与我相同的儿子。
13.45.15
न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किञ्चन ।
लोकान्सृजेस्त्वमपरानिच्छन्यदुकुलोद्वह ॥ १३.४५.१५ ॥
在这三界之中,对你来说没有任何东西是得不到的。啊,承担耶杜族重任者,你若愿意,甚至可以创造其他的世界。
13.45.16
त्वया द्वादशवर्षाणि व्रतीभूतेन शुष्यता ।
आराध्य पशुभर्तारं रुक्मिण्यां जनिताः सुताः ॥ १३.४५.१६ ॥
你持守誓戒十二年,身心枯槁,供奉了牲畜之主,因此鲁格米尼生下了这些儿子。
13.45.17
चारुदेष्णः सुचारुश्च चारुवेशो यशोधरः ।
चारुश्रवाश्चारुयशाः प्रद्युम्नः सम्भुरेव च ॥ १३.४५.१७ ॥
遮卢德舍那、苏遮卢、遮卢吠舍、耶舍陀罗、遮卢室罗婆、遮卢耶舍、普罗德尤姆那,还有三步。
13.45.18
यथा ते जनिताः पुत्रा रुक्मिण्यां चारुविक्रमाः ।
तथा ममापि तनयं प्रयच्छ मधुसूदन ॥ १३.४५.१८ ॥
正如你在鲁格米尼那里生下了这些英勇俊美的儿子,也请给我我的儿子吧,杀死摩图的啊。
13.45.19
इत्येवं चोदितो देव्या तामवोचं सुमध्यमाम् ।
अनुजानीहि मां राज्ञि करिष्ये वचनं तव ॥ १३.४५.१९ ॥
受女神如此激励,我对那位纤腰女子说:王后啊,请允许我离去,我将遵从你的吩咐。
13.45.20
सा च मामब्रवीद्गच्छ शिवाय विजयाय च ।
ब्रह्मा शिवः काश्यपश्च नद्यो देवा मनोऽनुगाः। ॥ १३.४५.२० ॥
她对我说:去吧,为了吉祥与胜利;愿梵天、湿婆、迦叶波、诸河与随心而行的诸神与你同在。
13.45.21
क्षेत्रौषध्यो यज्ञवाहाश्छन्दास्यृषिगणाध्वराः ।
समुद्रा दक्षिणा स्तोभा ऋक्षाणि पितरो ग्रहाः ॥ १३.४५.२१ ॥
田地与草木,祭祀的承载者,吠陀格律,诸仙众的祭祀,大海,祭礼的酬金,咏唱,星宿,祖先与行星。
13.45.22
देवपत्न्यो देवकन्या देवमातर एव च ।
मन्वन्तराणि गावश्च चन्द्रमाः सविता हरिः ॥ १३.४५.२२ ॥
诸神的妻子,诸神的女儿,诸神的母亲,诸摩奴时代,牛群,月亮,太阳萨维特利与哈利。
13.45.23
सावित्री ब्रह्मविद्या च ऋतवो वत्सरास्तथा ।
क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः ॥ १३.४५.२३ ॥
萨维德丽与梵智,四季与年岁,以及刹那、臾、牟呼栗多、瞬息与劫运之转。
13.45.24
रक्षन्तु सर्वत्र गतं त्वां यादव सुखाय च ।
अरिष्टं गच्छ पन्थानमप्रमत्तो भवानघ ॥ १३.४५.२४ ॥
啊,耶达瓦,无论你去向何方,愿他们为了你的安乐而护佑你。啊,无垢者,谨慎地走上平安之路吧。
13.45.25
एवं कृतस्वस्त्ययनस्तयाऽहं ।
ततोऽभ्यनुज्ञाय नरेन्द्रपुत्रीम्।
पितुः समीपं नरसत्तमस्य ।
मातुश्च राज्ञश्च तथाऽऽहुकस्य ॥ १३.४५.२५ ॥
如此,我在她那里得到吉祥祝福之后,便向国王之女告别,前往最优秀之人(我的)父亲、母亲、国王与阿胡迦身边。
13.45.27
ततःसमृद्धिर्भवतोऽस्त्वविघ्नम् ।
प्राप्यानुज्ञां गुरुजनादहं तार्क्ष्यमचिन्तयम्।
सोवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम् ॥ १३.४५.२७ ॥
愿你的繁荣无所阻碍。我从尊长那里得到许可后,便想起了塔尔克希耶(迦鲁达);他把我载到喜马拉雅,到达后我便放他离去。
13.45.28
तत्राहमद्बुतान्भावानपश्यं गिरिसत्तमे ।
क्षेत्रं च तपसां श्रेष्ठं पश्याम्यद्भुतमुत्तमम् ॥ १३.४५.२८ ॥
在那里,在最殊胜的山上,我看见了奇妙的景象。我又看见一处圣地,是苦行中最殊胜、奇妙而至上的。
13.45.29
दिव्यं वैयाघ्रपद्यस्य उपमन्योर्महात्मनः ।
पूजितं देवगन्धर्वैर्ब्राह्मया लक्ष्म्या समावृतम् ॥ १३.४५.२९ ॥
大心者优婆曼尤(虎足之子)的神圣(净修林)受到诸天与乾闼婆的礼敬,被梵天之吉祥天女的光辉所环绕。
13.45.30
धवककुभकदम्बनारिकेलैः ।
कुरवककेतकजम्बुपाटलाभिः।
वटवरुणकवत्सनाभविल्वैः ।
सरलकपित्थप्रियालसालतालैः ॥ १३.४५.३० ॥
这里点缀着达婆树、库婆树、迦檀婆树、椰树、俱罗婆迦树、刺鳖树、阎浮树、波吒罗树、榕树、伐楼那树、伐茶那婆树、毕罗树、娑罗多树、羯毗陀树、钵利耶罗树、娑罗树与棕榈树。
13.45.31
बदरीकुन्दपुन्नागरैशोकाम्रातिमुक्तकैः ।
मधूकैः कोविदारैश्च चम्पकैः पनसैस्तथा ॥ १३.४५.३१ ॥
这里点缀着菩提树、俱陀树、补那伽树、无忧树、芒果树、阿地目多迦树、摩度迦树、俱毗陀罗树、瞻波树与菠萝蜜树,亦复如是。
13.45.32
वन्यैर्बहुविधैर्वृक्षैः फलपुष्पप्रदैर्युतम् ।
पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम् ॥ १३.४५.३२ ॥
遍布多种野生树木,结果开花;花丛藤蔓遍布,并以芭蕉林为装饰。
13.45.33
नानाशकुनिसम्भोज्यैः फलैर्वृक्षैरलङ्कृतम् ।
यथास्थानविनिक्षिप्तैर्भूषितं भस्मराशिभिः ॥ १३.४५.३३ ॥
以众多鸟类所食的果实和树木装饰,并以各处安置的灰堆点缀。
13.45.34
रुरुवानरशार्दूलसिंहद्वीपिसमाकुलम् ।
कुरङ्गबर्हिणाकीर्णं मार्जारभुजगावृतम्।
पूगैश्च मृगजातीनां महिषर्क्षनिषेवितम् ॥ १३.४५.३४ ॥
满是鲁如鹿、猴子、老虎、狮子和豹子,遍布黑羚羊和孔雀,被猫和蛇环绕,多种鹿群、水牛和熊时常出没。
13.45.35
सकृत्प्रभिन्नैश्च गजैर्विभूषितं ।
प्रहृष्टनानाविधपक्षिसेवितम्।
सुपुष्पितैरम्बुधरप्रकाशै-
र्महीरुहाणां च वनैर्विचित्रैः ॥ १३.४५.३५ ॥
装饰着发情的大象,许多欢快的鸟类在此栖息,盛开的树木如云般光耀,还有各色的林丛。
13.45.36
नानापुष्परजोमिश्रो गजदानाधइवासितः ।
दिव्यस्त्रीगीतबहुलो मारुतोऽभिमुखो ववौ ॥ १३.४५.३६ ॥
一阵风混杂着众多花粉,带着象群的香气,满是天女的歌声,迎面吹来。
13.45.37
धारानिनादैर्विहगप्राणादैः ।
शुभैस्तथा बृंहितैः कुञ्जराणाम्।
गीतैस्तथा किन्नराणामुदारैः ।
शुभैः स्वनैः सामगानां च वीर ॥ १३.४५.३७ ॥
伴着溪流的轰鸣、鸟儿吉祥的鸣叫、大象吉祥的吼声、紧那罗благородные歌唱,以及吟唱娑摩的吉祥之声,啊英雄。
13.45.38
अचिन्त्यं मनसाऽप्यन्यैः सरोभिः समलङ्कृतम् ।
विशालैश्चाग्निशरणैर्भूषितं कुसुमावृतैः ॥ १३.४५.३८ ॥
即使心也无法思议,为他人以湖泊妆点,有广阔的火所,装饰并覆盖着鲜花。
13.45.39
विभूषितं पुण्ययवित्रतोयया ।
सदा च जुष्टं नृप जह्नुकन्यया।
विभूषितं धर्मभृतां वरिष्ठै-
र्महात्मभिर्वह्निसमानकल्पैः ॥ १३.४५.३९ ॥
以圣洁清净之水装饰,国王啊,常有濡伽之女(恒河)流经,为最优秀的持法者、如火般的大德所庄严。
13.45.40
वाय्वाहारैरम्बुपैर्जप्यनित्यैः ।
सम्प्रक्षालैर्योगिभिर्ध्याननित्यैः।
धूमप्राशैरूष्मपैः क्षीरपैश्च ।
संजुष्टं च ब्राह्मणेन्द्रैः समन्तात् ॥ १३.४५.४० ॥
四面皆有最优秀的婆罗门来此:食气者、饮水者、常念诵持咒者、行净洗的瑜伽行者、常修禅定者、食烟者、饮热者和饮乳者。
13.45.41
गोचारिणोऽर्थाश्मकुट्टा दन्तोलूखलिकास्तथा ।
मरीचिपाः फेनपाश्च तथैव मृगचारिणः ॥ १३.४५.४१ ॥
如牛般游行者、以石捣谷者、以牙齿为臼者,同样饮日光者、饮泡沫者,以及如鹿般游行者。
13.45.42
अश्वत्थफलभक्षाश्च तथा ह्युदकशायिनः ।
चीचचर्माम्बरधरास्तथा वल्कलधारिणः ॥ १३.४५.४२ ॥
食菩提树果者,同样卧于水中者,着茜草皮与兽皮衣者,以及着树皮衣者。
13.45.43
सुदुःखान्नियमांस्तांस्तान्वहतः सुतपोधनान् ।
पश्यन्मुनीन्बहुविधानप्रवेष्टुमुपचक्रमे ॥ १३.४५.४३ ॥
他见到许多种修持那些极其艰苦戒律的仙人,以苦行为财富,于是开始进入。
13.45.44
सूपूजितं देवगणैर्महात्मभिः ।
शिवादिभिर्भारतपुण्यकर्मभिः।
रराज तच्चाश्रममण्डलं सदा ।
दिवीव राजञ्शशिमण्डलं यथा ॥ १३.४५.४४ ॥
那片修行林园受到众神及以湿婆等为首的大德们的隆重礼敬,并由婆罗多族的功德行者所供奉,常年光耀,大王啊,如同天空中的月轮。
13.45.45
क्रीडन्ति सर्पैर्नकुला मृगैर्व्याघ्राश्च मित्रवत् ।
प्रभावाद्दीप्ततपसां सन्निकर्षान्महात्मनाम् ॥ १३.४५.४५ ॥
凭借苦行炽烈的大德们的威力与亲近,猫鼬与蛇嬉戏,老虎与鹿如朋友般玩耍。
13.45.46
तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरम ।
सेविते द्विजशार्दूलैर्वेदवेदाङ्गपारगैः ॥ १३.४५.४६ ॥
在那处殊胜的修行道场,能悦众生之心,常有精通吠陀与吠陀支分的婆罗门虎中之雄来往。
13.45.47
नानानियमविख्यातैर्ऋषिभि सुमहान्मभिः ।
प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम् ॥ १३.४५.४७ ॥
进入以多种戒律闻名、大德无比的仙人之中时,我看见一位身着结发与树皮衣的主宰。
13.45.48
तेजसा तपसा चैव दीप्यमानं यथाऽनलम् ।
शिष्यैरनुगतं शान्तं युवानं ब्राह्मणर्वभम् ॥ १३.४५.४८ ॥
以光辉与苦行如火般炽盛,有弟子随从,安详而年轻,是婆罗门中的雄牛。
13.45.49
शिरसा वन्दमानं मामुपमन्युरभाषत ॥ १३.४५.४९ ॥
我低头向他行礼时,优婆曼尤对我说道。
13.45.50
स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः ।
यः पूज्यः पूजयसि मां द्रष्टव्यो द्रष्टुमिच्छसि ॥ १३.४५.५० ॥
欢迎你,莲花眼者;我们的苦行已有成果。你本当受人敬拜,却敬拜我;你本当被人得见,却想见我。
13.45.51
मनुष्यतानुवृत्त्या त्वा ज्ञात्वा तिष्ठाम सर्वगम् ।
तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथाग्निषु।
धर्मे च शिष्यवर्गे च समपृच्छमनामयम् ॥ १३.४५.५१ ॥
依人间礼俗,知你遍在,我们便站立。我合掌向他询问兽、禽、火、法与弟子们的安好。
13.45.52
ततो मां भगवानाह साम्ना परमवल्गुना ।
लप्स्यसे तनयं कृष्णि आत्मतुल्यमसंशयम् ॥ १३.४५.५२ ॥
于是世尊以极其柔和的话对我说:“你必定会得到一个与你相等的儿子,黑利的后裔啊。”
13.45.53
तपः सुमहदास्थाय तोषयेशानमीश्वरम् ।
इह देवः सपत्नीकः समाक्रीडत्यधोक्षज ॥ १३.४५.५३ ॥
行大苦行,令自在主伊舍那(Īśāna)欢喜。无坏者啊,此处神明与其妃同游嬉戏。
13.45.54
इहैनं दैवतश्रेष्ठं देवाः सर्षिगणाः पुरा ।
तपसा ब्रह्मचर्येण सत्येन च दमेन च ॥ १३.४५.५४ ॥
往昔,诸天与仙人群在此以苦行、梵行、真实与克己,敬奉这位诸神中最尊者。
13.45.55
तोषयित्वा शुभान्कामान्प्राप्तवन्तो जनार्दन ।
तेजसां सपसां चैव निधिः स भगवानिह ॥ १३.४५.५५ ॥
舍利,周那道,令其欢喜,人们便得到吉祥的愿求。这位世尊在此,乃光明与苦行的宝库。
13.45.56
शुभाशुभान्वितान्भावान्विसृजन्स क्षिपन्नपि ।
आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन् ॥ १३.४५.५६ ॥
虽然他舍弃并抛开与吉与凶相连的状态,那不可思议者仍与你所求的女神同住,啊,敌人的杀戮者。
13.45.57
हिरण्यकशिपुर्योऽभूद्दानवो मेरुकम्पनः ।
तेन सर्वामरैश्वर्यं शर्वात्प्राप्तं समार्बुदम् ॥ १३.४५.५७ ॥
曾有达摩Dānava名为醯罗尼耶迦尸普,他能使须弥山震动;他从湿婆处获得了所有不死者的统治权,长达一亿年。
13.45.58
तस्यैव पुत्रप्रवरो दमनो नाम विश्रुतः ।
महादेववराच्छक्रं वर्षार्बुदमयोधयम् ॥ १३.४५.५८ ॥
他最杰出的儿子名为达摩那(Damana),以摩诃提婆的恩赐,与因陀罗战斗了一亿年。
13.45.59
विष्णोश्चक्रं च तद्धोरं वज्रमाखण्डलस्य च ।
शीर्णं पुराऽभवत्तात ग्रहस्याङ्गेषु केशव ॥ १३.४५.५९ ॥
毗湿奴那可怖的轮盘与因陀罗的金刚杵,昔日都在那捕获者(Graha)的肢体上碎裂了,亲爱的,啊,Keśava。
13.45.60
यत्तद्भगवता पूर्वं दत्तं चक्रं तवानघ ।
जलान्तरचरं हत्वा दैत्यं च बलगर्वितम् ॥ १३.४५.६० ॥
世尊昔日赐予你的那轮盘,啊,无垢者,它曾杀死在水中游荡、以力量自负的达伊堤亚。
13.45.61
उत्पादितं वृषाङ्केन दीप्तज्वलनसन्निभम् ।
दत्तं भगवता तुभ्यं दुर्धषं तेजसाऽद्भुतम् ॥ १३.४५.६१ ॥
由牛旗者(湿婆)所造,如熊熊烈火,世尊赐予你,不可战胜,光辉奇妙。
13.45.62
न शक्यं द्रष्टुमन्येन वर्जयित्वा पिनाकिनम् ।
सुदर्शनं भवत्येवं भवेनोक्तं तदा तु तत् ॥ १३.४५.६२ ॥
除持弓者(湿婆)之外,无人能够见到它。那时,婆伐(湿婆)宣告它将成为苏达尔沙纳。
13.45.63
सुदर्शनं तदा तस्य लोके नाम प्रतिष्ठितम् ।
तज्जीर्णमभावत्तात ग्रहस्याङ्गेषु केशव। ॥ १३.४५.६३ ॥
那时,它的苏达尔沙纳之名在世间确立。亲爱的克沙瓦,它在迦罗诃的肢体中磨损了。
13.45.64
ग्रहस्यातिवलस्याङ्गे वरदत्तस्य धीमतः ।
न शस्त्राणि वहन्त्यङ्गे चक्रवज्रशतान्यपि ॥ १३.४५.६४ ॥
在被赐予恩惠的、极其强大而智慧的迦罗诃之身上,即使上百个轮与金刚杵,也承受不住武器。
13.45.65
अर्द्यमानाश्च विबुधा ग्रहेणि सुबलीयसा ।
शिवदत्तवराञ्जघ्नुरसुरेन्द्रान्सुरा भृशम् ॥ १३.४५.६५ ॥
诸天被极其强大的迦罗诃所苦,凭借湿婆所赐的恩惠,猛烈地击杀了阿修罗之王。
13.45.66
तृष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतां ददौ ।
शतं वर्षसहस्राणां सर्वलोकेश्वरोऽभवत् ॥ १३.४५.६६ ॥
他心满意足,也赐予电光以三界的主宰之位;十万年间,他成为一切世界的主宰。
13.45.67
ममैवानुचरो नित्यं भवितासीति चाब्रवीत् ।
तथा पुत्रसहस्राणामयुतं च ददौ प्रभुः ॥ १३.४५.६७ ॥
他又说:「你将永远是我的随从。」同样,主也赐予他一万个儿子,共数千之中。
13.45.68
कुशद्वीपं च स ददौ राज्येन भगवानजः ।
तथा शतमुखो नाम धात्रा सृष्टो महासुरः। ॥ १३.४५.६८ ॥
世尊阿阇赐予他拘舍洲作为国土。同样,还有一位由达多(Dhātṛ)所造的大阿修罗,名为舍怛目客(Śatamukha)。
13.45.69
येन वर्षशतं साग्रमात्ममांसैर्हुतोऽनलः ।
तं प्राह भववांस्तुष्टः किंकरोमीति शंकरः ॥ १३.४५.६९ ॥
对于那位用自身血肉向火供养超过一百年的人,湿婆(Śaṅkara)心满意足地说:“我该做什么?”
13.45.70
तं वै शतमुखः प्राह योगो भवतु मेऽद्भुतः ।
बलं च दैवतश्रेष्ठ शाश्वतं सम्प्रयच्छ मे ॥ १३.४५.७० ॥
舍怛目客对他说:“愿我获得奇妙的瑜伽;诸神中最殊胜者啊,请赐予我永恒的力量。”
13.45.71
तथेति भगवानाह तस्य तद्वचनं प्रभुः ।
स्वायंभुवः क्रतुश्चापि पुत्रार्थमभवत्पुरा ॥ १३.४५.७१ ॥
世尊对他的请求说:“就这样吧。”往昔,自生者克拉图(Svāyambhuva Kratu)也为求子而成为如此。
13.45.72
आविश्य योगेनात्मानं त्रीणि वर्षशतान्यपि ।
तस्य चोपददौ पुत्रान्सहस्रं क्रतुसम्मितान्।
योगेश्वरं देवगीतं वेत्थ कृष्ण न संशयः ॥ १३.४५.७२ ॥
他以瑜伽进入自身,修行三百年,并赐予他一千个如同祭祀般的儿子。克里希那啊,你知道瑜伽主的天歌,这毫无疑问。
13.45.73
याज्ञवल्क्य इति ख्यात ऋषिः परमधार्मिकः ।
आराध्य स महादेवं प्राप्तवानतुलं यशः ॥ १३.४५.७३ ॥
名为耶若婆伽耶(Yājñavalkya)的那位至为正法的仙人,礼拜大天(Mahādeva)后,获得了无比的声名。
13.45.74
वेदव्यासश्च योगात्मा पराशरसुतो मुनिः ।
सोऽपि शंकरमाराध्य प्राप्तवानतुलं यशः ॥ १३.४५.७४ ॥
瑜伽之自我的吠陀毗耶娑,帕拉沙罗之子,那位牟尼,他也崇拜湿婆(商羯罗)后,获得了无与伦比的荣誉。
13.45.75
वालखिल्या मघवता ह्यवज्ञाताः पुरा किल ।
तैः क्रुद्धैर्भगवान्रुद्रस्तपसा तोषितो ह्यभूत् ॥ १३.४५.७५ ॥
往昔,摩ghavan(因陀罗)轻视瓦拉基利耶仙人;他们怀着愤怒以苦行感动了尊贵的楼陀罗。
13.45.76
तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः ।
सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथ ॥ १३.४५.७६ ॥
诸神之中最殊胜的世界之主,欣然对他们说:“你们将以苦行生出夺取苏摩的金翅鸟(迦卢达)。”
13.45.77
महादेवस्य रोषाच्च आपो नष्टाः पुराऽभवन् ।
ताश्च सप्तकपालेन देवैरन्याः प्रवर्तिताः ॥ १३.४५.७७ ॥
往昔,因摩诃提婆的愤怒,诸水都消失了;诸神借七颅器使其他水流动起来。
13.45.78
ततः पानीयमभवत्प्रसन्ने त्र्यम्बके भुवि ।
अत्रिभार्या सुतं दत्तं सोमं दुर्वाससं प्रभो ॥ १३.४५.७८ ॥
于是三眼神欢喜之后,大地上有了可饮之水;啊,主啊,阿特利之妻被赐予名为苏摩与杜尔婆萨的儿子。
13.45.79
अत्रेर्भार्याऽपि भर्तारं संत्यज्य ब्रह्मवादिनी ।
नाहं तव मुने भूयो वशगा स्यां कथञ्चन ॥ १३.४५.७९ ॥
阿特利之妻也作为梵言者,舍弃了丈夫,说道:“牟尼啊,我今后绝不再以任何方式受你控制。”
13.45.80
इत्युक्त्वा सा महादेवमगमच्छरणं किल ।
निराहास भयादत्रेस्त्रीणि वर्षशतान्यपि ॥ १३.४५.८० ॥
她说完这些话,便前往大天神处寻求庇护,因对阿特里的恐惧,她绝食竟达三百年之久。
13.45.81
अशेत मुसलेष्वेव प्रसादार्थं भवस्य सा ।
तामब्रवीद्धसन्देवो भविता वै सुतस्तव ॥ १३.४५.८१ ॥
为求婆婆(湿婆)的恩典,她躺在杵上,天神笑着对她说:“你必定会有一个儿子。”
13.45.82
विना भर्त्रा चरुद्रेण भविष्यति न संशयः ।
वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम् ॥ १३.४५.८२ ॥
没有丈夫,此事将借卡茹德拉(湿婆)而成,毫无疑问;在你自己的家族中,以你的名字,他将获得他所期望的名声。
13.45.83
विकर्णश्च महादेवं तथा भक्तसुखावहम् ।
प्रसाद्य भगवान्सिद्धिं प्राप्तवान्मधुसूदन ॥ १३.४५.८३ ॥
毗迦尔那也同样地,使为信徒带来喜乐的大天神欢喜,获得了圆满成就,哦,杀摩图者。
13.45.84
शाकल्यः संशितात्मा वै नववर्षशतान्यपि ।
आराधयामास भवं मनोयज्ञेन केशव ॥ १३.४५.८४ ॥
沙迦利耶,以自制的心,以心念之祭祀,供奉婆婆(湿婆)达九百年之久,哦,羯舍婆。
13.45.85
तं चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यसि ।
वत्साक्षया च ते कीतिस्त्रेलोक्ये वै भविष्यति ॥ १३.४५.८५ ॥
世尊欢喜,对他说:“你将成为一位著述者,你的名声在三界中将永不消失。”
13.45.86
अक्षयं च कुलं तेऽस्तु महर्षिभिरलंकृतम् ।
भविष्यति द्विजश्रेष्ठः सूत्रकर्ता सुतस्तव ॥ १३.४५.८६ ॥
愿你的家族永不衰败,并由大仙人增辉。二生者中最优秀的人啊,你的儿子将成为经句的作者。
13.45.87
सावर्णिश्चापि विख्यात ऋषिरासीत्कृते युगे ।
इह तेन तपस्तप्तं षष्टिवर्षशतान्यथ ॥ १३.४५.८७ ॥
在克利塔时代,有一位名叫萨瓦尔尼的著名仙人。他在此修苦行六百年。
13.45.88
तमाह भगवान्रुद्रः साक्षात्तुष्टोस्मि तेऽनघ ।
ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः ॥ १३.४५.८८ ॥
世尊楼陀罗对他说:“无垢者啊,我亲自对你感到满意。你将成为闻名世间的论著作者,不老不死。”
13.45.89
शक्रेणि तु पुरा देवो वाराणस्यां जनार्दन ।
आराधितोऽभूद्भक्तेन दिग्वासा भस्मगुष्ठितः
आराध्य स महादेवं देवराज्यमवाप्तवान् ॥ १३.४५.८९ ॥
克利须那啊,往昔在婆罗奈,因陀罗以虔诚供奉那赤身裸体、涂满灰烬的神祇。他礼敬了那位大天神后,获得了诸天之王的权位。
13.45.90
नारदेन तु भक्त्याऽसौ भव आराधितः पुरा ।
तस्य तुष्टो महादेवो जगौ देवगुरुर्गुरुः ॥ १३.४५.९० ॥
往昔,那罗陀以虔诚供奉婆伐。大天神对他感到满意,身为诸天之师,便吟唱起来。
13.45.91
तेजसा तपसा कीर्त्या त्वत्समो न भविष्यति ।
गीतेन वादितव्येन नित्यं मामनुयास्यसि ॥ १३.४५.९१ ॥
无人能在光辉、苦行与名声上与你相比。你将以歌声与乐器,永远追随于我。
13.45.92
बाणः स्कन्दसमत्वं च कामो दर्पविमोक्षणम् ।
लवणोऽवध्यतामन्यैर्दशास्यश्च पुनर्बलम्।
अन्तकोऽन्तमनुप्राप्तस्तस्मात्कोऽन्यः परः प्रभुः ॥ १३.४५.९२ ॥
波那与斯建陀相等,迦摩摆脱了傲慢,罗婆那不可被他人杀害,十首罗波那又重获力量。死神本身也走到了尽头;那么,还有谁是更高的主宰呢?
13.45.93
मयाऽपि च यथा दृष्टो देवदेवः पुरा विभो ।
साक्षात्पशुपतिस्तात तच्चापि शृणु माधव ॥ १३.४५.९३ ॥
啊,大能者,我也曾如此亲眼见到神中之神,即帕舒帕蒂本尊——亲爱的,摩陀婆啊,这也请听。
13.45.94
यदर्थं च मया देवः प्रयतेन तथा विभो ।
आराधितो महातेजास्तच्चापि शृणु विस्तरात् ॥ १३.४५.९४ ॥
啊,大能者,我如此虔诚供奉那位大光明之神,其目的何在——也请详细听来。
13.45.95
यदवाप्तं च मे पूर्वं देवदेवान्महेश्वरात् ।
तत्सर्वं निखिलेनाद्य कथयिष्यामि तेऽनघ ॥ १३.४५.९५ ॥
我从前从神中之神摩醯首罗那里所获得的一切,无罪者啊,现在我将全部向你详述。
13.45.96
पुरा कृतयुगे तात ऋषिरासीन्महायशाः ।
व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः।
तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः ॥ १३.४५.९६ ॥
亲爱的,往昔在圆满时代,有一位名叫毗伽罗波陀的大名仙人,精通吠陀及其支分。我是他的儿子,而达乌摩耶是我的幼弟。
13.45.97
कस्यचित्त्थ कालस्य धौम्येन सह माधव ।
आगच्छमाश्रमं क्रीडन्मुनीनां भावितात्मनाम् ॥ १३.४५.९७ ॥
摩陀婆啊,某一时,我与达乌摩耶嬉戏,来到了心性清净的诸仙人的道场。
13.45.98
तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी ।
लक्षितं च मया क्षीरं स्वादुतो ह्यमृतोपमम् ॥ १३.४५.९८ ॥
在那里我也看到一头正在挤奶的母牛,我留意到它的奶,其甘甜确实如同甘露。
13.45.99
तदाप्रभृति चैवाहमरुदं मधुसूदन ।
दीयतां दीयतां क्षीरं मम मातरितीरिता ॥ १३.४५.९९ ॥
摩陀婆苏陀那啊,从那时起我便哭了起来,说:“母亲,给我奶水,给我奶水!”
13.45.100
अभावाच्चैव दुग्धस्य दुःखिता जननी तदा ॥ १३.४५.१०० ॥
因为没有奶水,母亲那时便忧伤了。
13.45.101
ततः पिष्टं समालोड्य तोयेन सह माधव ।
आवयोः क्षीरमित्येव पानार्थं समुपानयत् ॥ १३.४५.१०१ ॥
然后,摩陀婆啊,她把面粉与水充分搅匀,说:“这是给我们俩的奶。”便拿来让我们喝。
13.45.102
अथ गव्यं पयस्तात कदाचित्प्राशितं मया। ॥ १३.४५.१०२ ॥
然后,亲爱的,我曾经喝过一次牛奶。
13.45.103
पित्राऽहं यज्ञकाले हि नीतो ज्ञातिकुलं महत् ।
तत्र सा क्षरते देवी दिव्या गौः सुरनन्दिनी ॥ १३.४५.१०३ ॥
在一次祭祀之时,父亲把我带到了一个大的亲族家中;在那里,那头神圣的母牛,诸神之女,正在流出奶水。
13.45.104
यस्ताहं तत्पयः पीत्वा रसेन ह्यमृतोपमम् ।
ज्ञात्वा क्षीरगुणांश्चैव उपलभ्य हि सम्भवम्।
स च पिष्टरसस्तात न मे प्रीतिमुपावहत् ॥ १३.४५.१०४ ॥
我饮过那如甘露般味美的牛奶,又知晓它的品质与来源,然而,亲爱的,那碾碎的汁液并未给我带来喜悦。
13.45.105
ततोऽहमब्रुवं बाल्याज्जननीमात्मनस्तदा ।
नेदं क्षीरोदनं मातर्यत्त्वं मे दत्तवत्यसि ॥ १३.४५.१०५ ॥
那时,我因年幼无知,对母亲说:母亲,你给我的这不是牛奶饭。
13.45.106
ततो मामब्रवीन्माता दुःखशोकसमन्विता ।
पुत्रस्नेहात्परिष्वज्य मूर्ध्नि चाघ्राय माधव ॥ १३.४५.१०६ ॥
于是充满悲伤与忧愁的母亲对我说;出于对儿子的爱,她拥抱我并嗅我的头顶,哦摩陀婆。
13.45.107
कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनम् ।
वने निवसतां नित्यं कन्दमूलफलाशिनाम् ॥ १३.४५.१०७ ॥
孩子,那些心灵纯净、常住森林、以根茎果实为食的仙人,哪里会有牛奶饭呢?
13.45.108
आस्थितानां नदीं दिव्यां वालखिल्यैर्निषेविताम् ।
कुत क्षीरं वनस्थानां मुनीनां गिरिवासिनाम् ॥ १३.४५.१०८ ॥
对于依止为跋罗希利耶人所常至的神圣河流、住于森林与山中的仙人而言,牛奶从何而来?
13.45.109
पावनानां वनाशानां वनाश्रमनिवासिनाम् ।
ग्राम्याहारनिवृत्तानामारण्यफलभोजिनाम्।
नास्ति पुत्र पयोऽरण्ये सुरभीगोत्रवर्जिते ॥ १३.४५.१०९ ॥
孩子,对那些清净、心寄于森林、住在林中修行处、舍弃村中食物而食用林果的人来说,在没有苏罗跋(神牛)一族的森林里,是没有牛奶的。
13.45.110
नदीगह्वरशैलेषु तीर्थेषु विविधेषु च ।
तपसा जप्यनित्यानां शिवो नः परमा गतिः ॥ १३.४५.११० ॥
在河流、洞穴、山岳以及各处圣渡口之中,对于修苦行、常持诵念的人而言,湿婆便是我们的最高归宿。
13.45.111
अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम् ।
कुतः क्षीरोदनं वत्स सुखानि वसनानि च ॥ १३.४५.१११ ॥
孩子,若不取悦三目、施予恩惠、恒常不坏的湿婆,又从何得到乳饭与舒适的衣物呢?
13.45.112
तं प्रपद्य सदा वत्स सर्वभावेन शङ्करम् ।
तत्प्रसादाच्च कामेभ्यः फलं प्राप्स्यसि पुत्रक ॥ १३.४५.११२ ॥
孩子,要时时全心皈依那位湿婆;凭他的恩典,你将得到所求之果,我的儿子。
13.45.113
जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन् ।
प्राञ्जलिः प्रणतो भूत्वा इदमम्बामवोचयं ॥ १३.४५.११३ ॥
敌人的摧毁者啊,我听了母亲的那番话,从那时起便合掌恭敬地拜伏,对母亲这样说道。
13.45.114
कोऽयमम्ब महादेवः स कथं च प्रसीदति ।
कुत्र वा वसते देवो द्रष्टव्यो वा कथञ्चन ॥ १३.४५.११४ ॥
母亲啊,这位大天是谁?他如何才会欢喜?那位神住在何处?又该如何才能见到他?
13.45.115
तुष्यते वा कथं शर्वो रूपं तस्य च कीदृशम् ।
कथं ज्ञेयः प्रसन्नो वा दर्शयेज्जननी मम ॥ १३.४५.११५ ॥
湿婆如何方能欢喜?他的形相是怎样的?如何知道他已欢喜?母亲啊,他又将如何向我显现?
13.45.116
एवमुक्ता तदा कृष्ण माता मे सुतवत्सला ।
मूर्घन्याध्राय गोविन्द सबाष्पाकुललोचना ॥ १३.४५.११६ ॥
如此被问之后,克利希那啊,我那爱子的母亲,以含泪迷蒙的双眼,嗅了我的头顶,哦,戈文达。
13.45.117
प्रमार्जन्ती च गात्राणि मम वै मधुसूदन ।
दैन्यमालम्ब्य जननी इदमाह सुरोत्तम ॥ १३.४५.११७ ॥
抚摸我的肢体,摩图苏陀那啊,母亲取了卑微之态,说了这话,诸神中最优秀者啊。
13.45.118
दुर्विज्ञेयो महादेवो दुराधारो दुरन्तकः ।
दुराबाधश्च दुर्ग्राह्यो दुर्द्दश्यो ह्यकृतात्मभिः ॥ १३.४५.११८ ॥
摩诃提婆难以认识,难以承托,难以穷尽,难以侵扰,难以捉住,对于心未调伏者而言,也难以见到。
13.45.119
यस्य रूपाण्यनेकानि प्रवदन्ति मनीषिणः ।
स्थानानि च विचित्राणि प्रासादाश्चाप्यनेकशः ॥ १३.४५.११९ ॥
智者宣说他的诸多形相;奇妙的居所与许多宫殿也都属于他。
13.45.120
को हि तत्त्वेन तद्वेद ईशस्य चरितं शुभम् ।
कृतवान्यानि रूपाणि देवदेवः पुरा किल।
क्रीडते च तथा शर्वः प्रसीदति यथाच वै ॥ १३.४५.१२० ॥
谁真正了解那位主的吉祥行迹,那位神中之神昔日所化的诸形相,以及湿婆如何嬉戏而欢喜?
13.45.121
हृदिस्थः सर्वभूतानां विश्वरूपो महेश्वरः ।
भक्तानामनुकम्पार्थं दर्शनं च यथाश्रुतम्।
मुनीनां ब्रुवतां दिव्यमीशानचरितं शुभम् ॥ १३.४५.१२१ ॥
他居于一切众生的心中,以宇宙为形相,乃大自在主;为怜悯虔诚者,他显现其身;依诸圣者所说而闻,这便是伊舍那神圣吉祥的行迹。
13.45.122
कृतवान्यानि रूपाणि कथितानि दिवौकसैः ।
अनुग्रहार्थं विप्राणां शृणु वत्स समासतः ॥ १३.४५.१२२ ॥
孩子啊,请简要听我说他为恩惠婆罗门所化现的诸形相,这些形相是天界居民所讲述的。
13.45.123
तानि ते कीर्तयिष्यामि यन्मां त्वं परिपृच्छसि ॥ १३.४५.१२३ ॥
你所问的这些,我将为你一一讲述。
13.45.124
ब्रह्मविष्णुसुरेन्द्राणां रुद्रादित्याश्विनामपि ।
विश्वेषामपि देवानां वपुर्धारयते भवः ॥ १३.४५.१२४ ॥
薄婆(湿婆)也化现为梵天、毗湿奴、诸神之王、楼陀罗、阿提亚、双马童以及一切天神的形相。
13.45.125
नराणां देवनारीणां तथा प्रेतपिशाचयोः ।
किरातशबराणां च जलजानामनेकशः ॥ १३.४५.१२५ ॥
他也化现为人、天女、鬼与夜叉、猎人(kirāta)与山民(śabara)以及水中生物的种种形相。
13.45.126
करोति भगवान्रूपमाटव्यशबराण्यपि ।
कूर्मो मत्स्यस्तथा शङ्खः प्रवालाङ्कुरभूषणः ॥ १३.४५.१२६ ॥
世尊也化现为林中的山民(śabara),以及龟、鱼,还有饰以珊瑚嫩芽的海螺。
13.45.127
यक्षराक्षससर्पाणां दैत्यदानवयोरपि ।
वपुर्धारयते देवो भूयश्च बिलवासिनाम् ॥ १३.४५.१२७ ॥
天神也化现为夜叉、罗刹、蛇,以及提迪亚与檀那婆,还有居于洞穴之中者的形相。
13.45.128
व्याघ्रसिंहमृगाणां च तरक्ष्वृक्षपतत्त्रिणाम् ।
उलूकश्वशृगालानां रूपाणि कुरुतेऽपि च ॥ १३.४५.१२८ ॥
他还化作老虎、狮子、鹿、塔拉克舒、熊、鸟、猫头鹰、狗和豺狼的形态。
13.45.129
हंसकाकमयूराणां कृकलासकसारसाम् ।
रूपाणि च बलाकानां गृध्रचक्राङ्गयोरपि ॥ १३.४५.१२९ ॥
他又化作天鹅、乌鸦、孔雀、蜥蜴、鹤、鹭、秃鹫和车鸡的形态。
13.45.130
करोति वा स रूपाणि धारयत्यपि पर्वतम् ।
गोरूपं च महादेवो हस्त्यश्वोष्ट्रखराकृतिः ॥ १३.४५.१३० ॥
他化作这些形态,甚至还能托起大山。大天神化作牛的形态,也化作象、马、骆驼、驴的模样。
13.45.131
छागशार्दूलरूपश्च अनेकमृगरूपधृक् ।
अण्डजानां च दिव्यानां वपुर्धारयते भवः ॥ १३.४५.१३१ ॥
薄婆化作山羊与老虎的形态,又化作众多鹿的形象,还化作天界卵生众生的身形。
13.45.132
दण्डी छत्री च कुण्डी च द्विजानां वारणस्तथा ।
षण्मुखो वै बहुमुखस्त्रिनेत्रो बहुशीर्षकः ॥ १३.४५.१३२ ॥
他持杖、持伞、持水瓶,是再生者的守护者,有六面、多面、三目、多首。
13.45.133
अनेककटिपादश्च अनेकोदरवक्त्रधृत् ।
अनेकपाणिपार्श्वश्च अनेकगपसंवृतः ॥ १३.४५.१३३ ॥
他有众多腰与足,承载众多腹与面,有众多手与侧身,被众多群从所环绕。
13.45.134
ऋषिगन्धर्वरूपश्च सिद्धचारणरूपधृत् ।
भस्पपाण्डुरगात्रश्च चन्द्रार्धकृतभूषणः ॥ १३.४५.१३४ ॥
我化为仙人与乾闼婆之形,也化为悉陀与遮罗那之形;身体因灰烬而苍白,以半月为饰。
13.45.135
अनेकरावसंघुष्टश्चानेकस्तुतिसंस्कृतः ।
सर्वभूतान्तकः सर्वः सर्वलोकप्रतिष्ठितः ॥ १३.४५.१३५ ॥
我为众多呼声所回响,为众多赞颂所尊崇;我是一切众生的终结,我即是一切,并安立于一切世界之中。
13.45.136
सर्वलोकान्तरात्मा च सर्वगः सर्ववाद्यपि ।
सर्वत्र भगवान्ज्ञेयो हृदिस्थः सर्वदेहिनाम् ॥ १३.४५.१३६ ॥
我是一切世界的内在自我,遍在一切,也是言说一切者。应当处处认知世尊,他安住于一切有身众生的心中。
13.45.137
यो हि यं कामयेत्कामं यस्मिन्नर्थऽर्च्यते पुनः ।
तत्सर्वं वेत्ति देवेशस्तं प्रपद्य यदीच्छसि ॥ १३.४५.१३७ ॥
无论谁所求何愿、为何目的再次礼拜,天神之主皆知之。若你愿意,就归依于他。
13.45.138
नन्दते कुप्यते चापि तथा हुंकारयत्यपि ।
चक्री शूली गदापाणिर्मुसली खड्गपट्टसी ॥ १३.४५.१३८ ॥
他欢喜,也愤怒,同样也发出“吽”声。我手持轮宝,执矛枪,手持棍棒,执铁杵,执剑与战斧。
13.45.139
भूधरो नागमौञ्जी च नागकुण्डलकुण्डली ।
नागयज्ञोपवीती य नागचर्मोत्तरच्छदः ॥ १३.४५.१३९ ॥
我是承载大地者;以蛇为腰带,戴蛇耳环;以蛇为圣线,披着象皮的上衣。
13.45.140
हसते गायते चैव नृत्यते च मनोहरम् ।
वादयत्यपि वाद्यानि विचित्राणि गणैर्युतः ॥ १३.४५.१४० ॥
他迷人地欢笑、歌唱、起舞,并与他的众随从一同演奏各种奇妙的乐器。
13.45.141
वल्गते जृम्बते चैव रुदते रोदयत्यपि ।
उन्मत्तमत्तरूपं च भाषते चापि सुस्वरः ॥ १३.४५.१४१ ॥
他跳跃、打哈欠、哭泣,也使他人哭泣;以疯狂醉酒之态,用甜美的声音说话。
13.45.142
अतीव हसते रौद्रस्त्रासयन्नयनैर्जनम् ।
जागर्ति चैव स्वपिति जृम्भते च यथासुवम् ॥ १३.४५.१४२ ॥
他极度大笑;凶猛地以目光惊吓众人;他或醒或睡,或打哈欠,随心所欲。
13.45.143
जपते जप्यते चैव तपते तप्यते पुनः ।
ददाति प्रतिगृह्णाति युञ्जते ध्यायतेऽपि च ॥ १३.४५.१४३ ॥
他诵念,也使人诵念;他苦修,也使人苦修;他施舍,也接受;他投身瑜伽,也冥想。
13.45.144
वेदीमध्ये तथा यूपे गोष्ठमध्ये हुताशने ।
दृश्यते दृश्यते चापि बालो वृद्धो युवा तथा ॥ १३.४५.१४४ ॥
他出现在祭坛中央、祭柱上、牛栏中央和祭火之中;也以孩童、老人和青年之相出现。
13.45.145
क्रीडते ऋषिकन्याभिर्ऋषिपत्नीभिरेव च ।
ऊर्ध्वकेशो महाशेफो नग्नो विकृतलोचनः ॥ १३.४५.१४५ ॥
他与仙人的女儿和仙人的妻子嬉戏;他的头发直竖,阳具巨大,赤身裸体,双眼扭曲。
13.45.146
गौरः श्यामस्तथा कृष्णः पाण्डुरो धूमलोहितः ।
विकृताक्षो विशालाक्षो दिग्वासाः सर्ववासकः ॥ १३.४५.१४६ ॥
白者、黑者、黛者、黄者、烟红者;目光怪异者、大眼者、以方为衣者、遍居一切者。
13.45.147
अरूपस्याद्यरूपस्य अतिरूपाद्यरूपिणः ।
अनाद्यन्तमजस्यान्तं वेत्स्यते कोस्य तत्त्वतः ॥ १३.४५.१४७ ॥
谁能真正知晓无形者、原始形者、超越形相而具原始形者、无始无终之不生者的终极?
13.45.148
हृदि प्राणो मनो जीवो योगात्मा योगसंज्ञितः ।
ध्यानं तत्परमात्मा च भावग्राह्यो महेश्वरः ॥ १३.४५.१४८ ॥
心中有气息、意、命我;彼为瑜伽之我,名为瑜伽;禅定、彼至上我,以及可由内心之情所证的大自在。
13.45.149
वादको गायनश्चैव सहस्रशतलोचनः ।
एकवक्त्रो द्विवक्त्रश्च त्रिवक्त्रोऽनेकवक्त्रकः ॥ १३.४५.१४९ ॥
奏乐者与歌者,具十万目;一面者、二面者、三面者,以及多面者。
13.45.150
तद्भक्तस्तद्गतो नित्यं तन्निष्ठस्तत्परायणः ।
भज पुत्र महादेवं ततः प्राप्स्यसि चेप्सितं ॥ १३.४५.१५० ॥
虔信于彼,心念于彼,常住于彼,以彼为至上依归,子啊,当礼敬大天;那时你将得到所求。
13.45.151
जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन् ।
मम भक्तिर्महादेवे नैष्ठिकी समपद्यत ॥ १३.४५.१५१ ॥
闻母之言,诛敌者啊,从此我对大天生起了坚定不移的虔信。
13.45.152
ततोऽहं तप आस्थाय तोषयामास शंकरम् ।
दिव्यं वर्षसहस्रं तु वामाङ्गुष्ठाग्रविष्ठितः ॥ १३.४५.१५२ ॥
于是我修习苦行,使湿婆(Śaṅkara)欢喜。整整一千个神圣之年,我independently立于左脚大趾的尖端。
13.45.153
एकं वर्षशतं चैव फलाहारस्ततोऽभवम् ।
द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः ॥ १३.४५.१५३ ॥
一百年我以果实为食;其后第二个一百年,以落叶为食;第三个一百年,只饮水。
13.45.154
शतानि सप्त चैवाहं वायुभक्षस्तदाऽभवम् ।
एकं वर्षसहस्रं तु दिव्यमाराधितो मया ॥ १३.४५.१५४ ॥
七百年间我只以空气为食;一千个神圣之年,我供奉祭拜他。
13.45.155
ततस्तुष्टो महादेवः सर्वलोकेश्वरः प्रभुः ।
एकभक्त इति ज्ञात्वा जिज्ञासां कुरुते तदा ॥ १३.४५.१५५ ॥
于是,大天(Mahādeva)心生欢喜——他是诸世界之主——知我一心虔诚,便想要考验我。
13.45.156
शक्ररूपं स कृत्वा तु सर्वैर्देवगणैर्वृतः ।
सहस्राक्षस्तदा भूत्वा वज्रपाणिर्महायशाः ॥ १३.४५.१५६ ॥
他化作帝释天(Śakra)之形,被诸神众团团围绕,成为千眼、手持金刚杵、大名远扬的那一位。
13.45.157
सुधावदातं रक्ताक्षं स्तब्धकर्णं मदोत्कटम् ।
आवेष्टतकरं घोरं चतुर्दष्ट्रं महागजम् ॥ १३.४५.१५७ ॥
一头巨象,白如甘露,红眼,耳朵僵直,因发情而狂暴,卷曲着长鼻,可怖,有四根象牙。
13.45.158
समास्थितः स भगवान्दीप्यमानः स्वतेजसा ।
आजगाम किरीटी तु हारकेयूरभूषितः ॥ १३.४५.१५८ ॥
世尊以自身光芒照耀,安坐于彼。随后,戴冠的阿周那佩戴项链与臂钏而来。
13.45.159
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
सेव्यभानोप्सरोभिश्च दिव्यगन्धर्वनादितैः ॥ १३.४५.१५९ ॥
头顶撑着白色华盖,被天界仙女侍奉,回荡着天神乾闼婆的歌声。
13.45.160
ततो मामाह देवेन्द्रस्तुष्टस्तेऽहं द्विजोत्तम ।
वरं वृणीष्व मत्तस्त्वं यत्ते मनसि वर्तते ॥ १३.४५.१६० ॥
于是天主对我说:“婆罗门中最优者,我对你满意。你心中所愿,可以向我求一个恩赐。”
13.45.161
शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाऽभवम् ।
अब्रवं च तदा कृष्ण देवराजमिदं वचः ॥ १३.४५.१६१ ॥
闻听释迦的话,我心不悦。克里希那啊,于是我对天王说了这番话。
13.45.162
नाहं त्वत्तो वरं काङ्क्षे नान्यस्मादपि दैवतात् ।
महादेवादृते सौम्य सत्यमेतद्ब्रवीमि ते ॥ १३.४५.१६२ ॥
我不求你的恩赐,也不求其他任何神明,唯有大天神(摩诃提婆)除外。善良者啊,我如实告诉你。
13.45.163
सत्यंसत्यं हि नः शक्र वाक्यमेतत्सुनिश्चितम् ।
न यन्मिहेश्वरं मुक्त्वा कथाऽन्या मम रोचते ॥ १३.४५.१६३ ॥
释迦啊,这是我们的话——真实,确实真实,且十分确定:除了大自在天(摩诃毗湿伐罗)之外,别的言谈都不合我意。
13.45.164
पशुपतिवचनाद्भवामि सद्यः ।
कृमिरथवा तरुरप्यनेकशाखः।
अपशुपतिवरप्रसादजा मे ।
त्रिभुवनराज्यविभूतिरप्यनिष्टा ॥ १३.४५.१६४ ॥
依帕舒帕蒂之言,我立刻化为——蠕虫,或是多枝的树木。我因帕舒帕蒂的恩赐之惠而生,即便三界的王权与荣华,于我也是不悦之事。
13.45.165
जन्मश्वपाकमध्येऽ-
पि मेऽस्तु हरचरणवन्दनरतस्य।
मा वाऽनीश्वरभक्तो ।
भवानि भवनेऽपि शक्रस्य ॥ १३.४५.१६५ ॥
即使我生于旃陀罗之中,也愿我喜乐于礼拜哈罗之足;愿我不成为非主者的信徒,即便身处因陀罗的宫殿之中。
13.45.166
वाय्वम्बुभुजोऽपि सतो ।
नरस्य दुःखक्षयः कुतस्तस्य।
भवति हि सुरासुरगुरौ ।
यस्य न विश्वेश्वरे भक्तिः ॥ १३.४५.१६६ ॥
即使是以风和水为食的苦行者,人的苦难又如何能止息?对于不信奉宇宙主宰者,即使身处诸神与阿修罗之师的身边,苦难又如何能止息?
13.45.167
अलमन्याभिस्तेषां ।
कथाभिरप्यन्यधर्मयुक्ताभिः।
येषां न क्षणमपि रुचितो ।
हरचरणस्मरणविच्छेदः ॥ १३.४५.१६७ ॥
对于那些连一刻不忆哈罗之足都不愿中断的人,与其他法相关的其他故事已经足够——不必再有了。
13.45.168
हरचरणनिरतमतिना ।
भवितव्यमनार्जवं युगं प्राप्य।
संसारभयं न भवति ।
हरभक्तिरसायनं पीत्वा ॥ १३.४५.१६८ ॥
心安于哈罗之足的人,即使遇到此世代,也应当没有邪曲。饮下对哈罗的虔信甘露之后,便没有轮回的恐惧。
13.45.169
दिवसं दिवसार्धं वा मुहूर्तं वा क्षणं लवम् ।
न ह्यलब्धप्रसादस्य भक्तिर्भवति शङ्करे ॥ १३.४५.१६९ ॥
一日、半日、一须臾、一刹那,或一瞬之分——对于未获恩典的人,对湿婆的虔信不会生起。
13.45.170
अपि कीटः पतङ्गो वा भवेयं शङ्कराज्ञया ।
न तु शक्र त्वया दत्तं त्रैलोक्यमपि कामये ॥ १३.४५.१७० ॥
即使依湿婆之命,我成为一条虫或一只飞蛾,哦帝释,我也不愿要你所赐予的三界。
13.45.171
श्वाऽपि महेश्वरवचना-
द्भवामि स हि नः परः कामः।
त्रिदशगणराज्यमपि खलु ।
नेच्छाम्यमहेश्वराज्ञप्तम् ॥ १३.४५.१७१ ॥
即使依大自在天之言,我成为一条狗,那也是我们最高的愿望。即使是诸天之主的统治,若非大自在天所命,我也确实不愿要。
13.45.172
न नाकपृष्ठं न च देवराज्यं ।
न ब्रह्मलोकं न च निष्कलत्वम्।
न सर्वकामानखिलान्वृणोमि ।
हरस्य दासत्वमहं वृणोमि ॥ १३.४५.१७२ ॥
我不选择天界的顶端,也不选择诸神的王国,不选择梵天界,也不选择无分的境界;我也不全然选择一切欲望。我只选择成为哈罗的仆从。
13.45.173
यावच्छशाङ्कधवलामलबद्धमौलि-
र्न प्रीयते पशुपतिर्भगवान्ममेशः।
तावज्जरामरणजन्मशताभिघातै-
र्दुःखानि देहविहितानि समुद्वहामि ॥ १३.४५.१७३ ॥
只要我的主、吉祥的兽主(Paśupati)——头冠洁白如月、束结分明——尚未欢喜,我便承受着衰老、死亡、出生这百千打击加于身体的苦难。
13.45.174
दिवसकरशशाङ्कवह्निदीप्तं ।
त्रिभुवनसारमसारमाद्यमेकम्।
अजरममरमप्रसाद्य रुद्रं ।
जगति पुमानिह को लभेत शान्तिं ॥ १३.४५.१७४ ॥
在这世间,人若不取悦楼陀罗——他由日、月、火照耀,是三界的精华与非精华,是原初的一者,不老不死——又有谁能得到寂静?
13.45.175
धिक्तेषां धिक्तेषां ।
पुनरपि च धिगस्तु धिक्तेषाम्।
येषां न वसति हृदये ।
कुपथगतिविमोक्षको रुद्रः ॥ १३.४५.१७५ ॥
他们可耻,他们可耻!再次地,凡心中不住有楼陀罗——那引人脱离歧途者——的人,都是可耻的。
13.45.176
यदि नाम जन्म भूयो ।
भवति मदीयैः पुनर्दोषैः।
तस्मिंस्तस्मिञ्जन्मनि ।
भवे भवेन्मेऽक्षया भक्तिः ॥ १३.४५.१७६ ॥
若因我的过失而再次投生,愿在那一次生命、那一种存在中,我的虔敬永不衰减。
13.45.177
कः पुनर्भवने हेतुरीशे कारणकारणे ।
येन शर्वादृतेऽन्यस्मात्प्रसादं नाभिकाङ्क्षसि ॥ १३.४५.१७७ ॥
那么,在作为诸因之因的主宰中,这一存在的原因是什么?以至于你除了濕婆(Śarva)之外不求任何人的恩典?
13.45.178
उपमन्युरुवाच ।
सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः।
नित्यमेकमनेकं च वरं तस्माद्वृणीमहे ॥ १३.४५.१७८ ॥
优婆曼尤说:梵论者所称的有与无、显与隐、常、一与多,我们便从此中选择一个恩典。
13.45.179
अनादिमध्यपर्यन्तं ज्ञानैश्वर्यमचिन्तितम् ।
आत्मानं परमं यस्माद्वरं तस्माद्वृणीमहे ॥ १३.४५.१७९ ॥
从那无始无中无终、具有智慧与自在、不可思议、为最高之我的存在,我们选择一个恩典。
13.45.180
ऐश्वर्यं सकलं यस्मादनुत्पादितमव्ययम् ।
अबीजाद्बीजसम्भूतं वरं तस्माद्वृणीमहे ॥ १३.४५.१८० ॥
从那一切自在所出、无生而不灭、无种而生有种之物的存在,我们选择一个恩典。
13.45.181
तमसः परमं ज्योतिस्तपस्तद्वृत्तिनां परम् ।
यं ज्ञात्वा नानुशोचन्ति वरं तस्माद्वृणीमहे ॥ १३.४५.१८१ ॥
超越黑暗的至上光明,苦行,行此道者之至高;知之者不再悲伤。我们便从此中选择一个恩典。
13.45.182
भूतभावनभावज्ञं सर्वभूताभिभावनम् ।
सर्वगं सर्वदं देवं पूजयामि पुरंदर ॥ १३.४५.१८२ ॥
我敬拜那洞悉众生生起之理、统摄一切众生、遍在一切、赐予一切的神,啊,补兰陀罗。
13.45.183
हेतुवादैर्विनिर्मुक्तं साङ्ख्ययोगार्थदं परम् ।
यमुपासन्ति तत्त्वज्ञा वरं तस्माद्वृणीमहे ॥ १३.४५.१८३ ॥
对于那超越辩论、赐予数论与瑜伽至高目标、为悟道者所崇拜的至尊,我们选择一个恩惠。
13.45.184
मघवन्मघवात्मानं यं वदन्ति सुरेश्वरम् ।
सर्वभूतगुरुं देवं वरं तस्माद्वृणीमहे ॥ १३.४५.१८४ ॥
啊,摩伽梵!对于那被称为摩伽梵自我、诸天之主、一切众生之师的神,我们选择一个恩惠。
13.45.185
यत्पूर्वमसृजद्देवं ब्रह्माणं लोकभावनम् ।
अण्डमाकाशमापूर्य वरं तस्माद्वृणीमहे ॥ १३.४५.१८५ ॥
对于那先前创造了护持世界的神梵天、并充满虚空而创造宇宙卵的至尊,我们选择一个恩惠。
13.45.186
अग्निरापोऽनिलः पृथ्वी खं बुद्धिश्च मनो महान् ।
स्रष्टा चैषां भवेद्योऽन्यो ब्रूहि कः परमेश्वरात् ॥ १३.४५.१८६ ॥
火、水、风、地、空、觉、意与大(原理)——除了至上主,还有谁能是它们的创造者?请告诉我。
13.45.187
मनो मतिरहङ्कारस्तन्मात्राणीन्द्रियाणि च ।
ब्रूहि चैषां भवेच्छक्र कोऽन्योस्ति परमं शिवात् ॥ १३.४५.१८७ ॥
意、思、我慢、微细元素与诸根——请告诉我,啊,舍脂罗,除了湿婆,还有谁能是它们的创造者?
13.45.188
स्रष्टारं भुवनस्येह वदन्तीह पितामहम् ।
आराध्य स तु देवेशमश्नुते महतीं क्षियम् ॥ १३.४५.१८८ ॥
此处称他为世界的创造者与祖父。崇拜天神之主之后,他获得了伟大的权柄。
13.45.189
भगवत्युत्तमैश्वर्यं ब्रह्मविष्णुपुरोगमम् ।
विद्यते वै महादेवाद्ब्रूहि कः परमेश्वरात् ॥ १३.४५.१८९ ॥
以梵天与毗湿奴为先的至上主宰权,属于世尊大天。请告诉我,谁能高过至上的主?
13.45.190
दैत्यदानवमुख्यानामाधिपत्यारिमर्दनात् ।
कोऽन्यः शक्रोति देवेशाद्दितेः सम्पादितुं सुतान् ॥ १३.४५.१९० ॥
除天神之主外,谁能通过摧败敌人,使提蒂之子成就,并夺去诸大阿修罗与达那婆的统治?
13.45.191
दिक्कालसूर्यतेजांसि ग्रहवाय्विन्दुतारकाः ।
विद्धि त्वेते महादेवाद्ब्रूहि कः परमेश्वरात् ॥ १३.४५.१९१ ॥
须知方位、时间、日光、星辰、风、月与星宿,皆出自大天。请告诉我,谁能高过至上的主?
13.45.192
अथोत्पत्तिविनाशे वा यज्ञस्य त्रिपुरस्य वा ।
दैत्यदानवमुख्यानामाधिपत्यारिमर्दनः ॥ १३.४५.१९२ ॥
在祭祀之生灭中,或在三城之毁灭中,或以摧败敌人夺取诸大阿修罗与达那婆之统治,谁能胜任?
13.45.193
किं चात्र बहुभिः सूक्तैर्हेतुवादैः पुरंदर ।
सहस्रनयनं दृष्ट्वा त्वामेव सुरसत्तम ॥ १३.४५.१९३ ॥
何必多引诗篇与辩论,哦破城者?诸神之最,见到你这千目者,一切便已明了。
13.45.194
पूजितं सिद्धगन्धर्वैर्देवैश्च ऋषिभिस्तथा ।
देवदेवप्रसादेन तत्सर्वं कुशिकोत्तम ॥ १३.४५.१९४ ॥
悉陀、乾闼婆、诸天与仙人也都供奉他。恭敬的庶摩中的至上者,这一切都由神中之神的恩典而来。
13.45.195
अव्यक्तमुक्तकेशाय सर्वगस्येदमात्मकम् ।
चेतनाचेतनाद्येषु शक्र विद्धि महेश्वरात् ॥ १३.४५.१९५ ॥
帝释啊,你要知道,有情与无情等一切,皆出自大自在天——那不显现、披散发髻、遍在一切者,并且是他自身的形相。
13.45.196
भुवाद्येषु महान्तेषु लोकालोकान्तरेषु च ।
द्वीपस्थानेषु मेरोश्च विभवेष्वन्तरेषु च। ॥ १३.४५.१९६ ॥
在以大地为首的诸大元素中,在世界与世界之外的领域中,在须弥山的岛屿地区,也在诸威德显现与间隙之中。
13.45.197
भगवन्मघवन्देवं वदन्ते तत्त्वदर्शिनः ।
यदि देवाः सुराः शक्र पश्यन्त्यन्यां भवाकृतिम्। ॥ १३.४५.१९७ ॥
尊贵的摩伽凡啊,洞见真理者称那位神为此名。帝释啊,若诸天与阿修罗见到了婆婆的另一种形相——
13.45.198
किं न गच्छन्ति शरणं मर्दिताश्चासुरैः सुराः ।
अभिघातेषु देवानां सयक्षोरगरक्षसाम्। ॥ १३.४५.१९८ ॥
被阿修罗压垮的阿修罗们为何不去寻求庇护?在诸天遭受打击时,连同夜叉、蛇神与罗刹一起。
13.45.199
परस्परविनाशीषु स्वस्थानैश्वर्यदो भवः ।
अन्धकस्याथ शुक्रस्य दुन्दुभेर्महिषस्य च।
यक्षेन्द्रबलरक्षःसु निवातकवचेषु च ।
वरदानावघाताय ब्रूहि कोऽन्यो महेश्वरात् ॥ १३.४५.१९९ ॥
在相互毁灭之中赐予各自位置之权柄的婆婆;安陀迦、室迦罗、沓图毗、摩希沙,夜叉王与罗刹的威力,以及被赐予的恩典所伤的尼婆多迦伐者——请告诉我,除了大自在天,还有谁?
13.45.200
सुरासुरगुरोर्वक्त्रे कस्य रेतः पुरा हुतम् ।
कस्य वाऽन्यस्य रेतस्तद्येन हैमो गिरिः कृतः ॥ १३.४५.२०० ॥
在诸神与阿修罗之师的口中,昔日献上的是谁的精液?或是另一人的精液,借之而成金山?
13.45.201
दिग्वासाः कीर्त्यते कोऽन्यो लोके कश्चोर्ध्वरेतसः ।
कस्य चार्धे स्थिता कान्ता अनङ्गः केन निर्जितः ॥ १३.४५.२०१ ॥
世间谁被称颂为“天衣者”,又有谁是“上行精”者?谁的半身站立着心爱的妻子,又是谁战胜了无身者(爱神)?
13.45.202
ब्रूहीन्द्र परमं स्थानं कस्य देवैः प्रशस्यते ।
श्मशाने कस्य क्रीडार्थं नृत्ते वा कोऽभिभाष्यते ॥ १३.४५.२०२ ॥
因陀罗啊,请告诉我:诸神所颂扬的至高之所属于谁?在火葬场中为了谁的嬉戏,或在舞蹈中又向谁致辞?
13.45.203
कस्यैश्वर्यं समानं च भूतैः को वाऽपि क्रीडते ।
कस्य तुल्यबला देवगणाश्चैश्वर्यदर्पिताः ॥ १३.४५.२०३ ॥
谁的威权与众生相等?或谁与他们嬉戏?与谁力量相等的诸天众,因其威权而自负?
13.45.204
घुष्यते ह्यचलं स्थानं कस्य त्रैलोक्यपूजितम् ।
वर्षते तपते कोऽन्यो ज्वलते तेजसा च कः ॥ १३.४५.२०४ ॥
被三界所崇拜的不动之所,宣称属于谁?谁降雨,谁施热,又有谁以光辉燃烧?
13.45.205
कस्मादोषधिसम्पत्तिः को वा धारयते वसु ।
प्रकामं क्रीडते को वा त्रैलोक्ये सचराचरे ॥ १३.४५.२०५ ॥
草药的丰盛从谁而来?或谁承载财富?在三界之中,连同动与不动之物,谁随意嬉戏?
13.45.206
ज्ञानसिद्धिक्रियायोगैः सेव्यमानश्च योगिभिः ।
ऋषिगन्धर्वसिद्धैश्च विहितं कारणं परम् ॥ १३.४५.२०६ ॥
瑜伽行者以知识、成就与行动之结合所奉事者,亦为仙人、乾闼婆与成就者所确立的最高因。
13.45.207
कर्मयज्ञक्रियायोगैः सेव्यमानः सुरासुरैः ।
नित्यं कर्मफलैर्हीनं तमहं कारणं वदे ॥ १३.४५.२०७ ॥
常为诸天与阿修罗以业、祭祀与仪式之结合所奉事,离诸业果者,我说他为因。
13.45.208
स्थूलं सूक्ष्ममनौपम्यमग्राह्यं गुणगोचरम् ।
गुणहीनं गुणाध्यक्षं परं माहेश्वरं पदम् ॥ १३.४५.२०८ ॥
粗与细,无可比拟,不可执取,在诸德之域而无德,诸德之主,大自在天的至上之位。
13.45.209
विश्वेशं कारणगुरुं लोककालोकान्तकारणम् ।
भूताभूतभविष्यच्च जनकं सर्वकारणम्। ॥ १३.४५.२०९ ॥
宇宙之主,诸因之师,世界、时间及其终结之因,过去、未显与未来诸有之父,一切之因。
13.45.210
अक्षराक्षरमव्यक्तं विद्याविद्ये कृताकृते ।
धर्माधर्मौ यतः शक्र तमहं कारणं ब्रुवे ॥ १३.४५.२१० ॥
不灭与可灭,未显,明与无明,所作与未作,法与非法——从他而来,帝释啊,我说他为因。
13.45.211
प्रत्यक्षमिह देवेन्द्र पश्य लिङ्गं भगाङ्कितम् ।
देवदेवेन रुद्रेण सृष्टिसंहारहेतुना ॥ १३.४५.२११ ॥
天帝啊,请亲眼看这带有“婆伽”标记的林伽,它为众神之神、创造与毁灭之因的楼陀罗所立。
13.45.212
मात्रा पूर्वं ममाख्यातं कारणं लोकलक्षणम् ।
नास्ति चेशात्परं शक्र तं प्रपद्य यदीच्छसि ॥ १३.४५.२१२ ॥
先前母亲向我宣说了界定诸世界的因。帝释啊,没有比自在天更高的;你若愿意,就归依他吧。
13.45.213
प्रत्यक्षं ननु ते सुरेश विदितं संयोगलिङ्गोद्भवं ।
त्रैलोक्यं सविकारनिर्गुणगणं ब्रह्मादिरेतोद्भवम्।
यद्ब्रह्मेन्द्रहुताशविष्णुसहिता देवाश्च दैत्येश्वरा ।
नान्यत्कामसहस्रकल्पितधियः शंसन्ति ईशात्परं ॥ १३.४५.२१३ ॥
诸神之主啊,你显然知道三界由交合之相而生,带有变化与德性,由梵天等人的种子所生。梵天、帝释、火神、毗湿奴与诸神及阿修罗之主,心思被千种欲望所塑造者之外,不宣说高于自在天者。
13.45.214
तं देवं सचराचरस्य जगतो व्याख्यातवेद्योत्तमं ।
कामार्थी वरयामि संयतमना मोक्षाय सद्यः शिवम्
हेतुभिर्वा किमन्यैस्तैरीशः कारणकारणम् ।
न शुश्रुम यदन्यस्य लिङ्गमभ्यर्चितं सुरैः ॥ १३.४५.२१४ ॥
那位被宣说为动与不动世界最高所知的神,我以专一之心,立即选择他为湿婆,为求欲望与解脱。其他因何用?自在天是因中之因。我们未曾听说,诸神以这样的方式供奉过别人的林伽。
13.45.215
कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम् ।
अर्च्यतेऽर्चितपूर्वं वा ब्रूहि यद्यस्ति ते श्रुतिः ॥ १३.४५.२१५ ॥
除了摩醯首罗的林伽,是否有其他任何存在的林伽被诸神供奉,或从前曾被供奉?若你听说过,请告诉我。
13.45.216
यस्य ब्रह्म च विष्णुश्च त्वं चापि सहदैवतैः ।
अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः ॥ १३.४५.२१६ ॥
梵天与毗湿奴,以及你与其他诸神,都常常礼拜他的男根(liṅga);因此他确实是最尊贵的。
13.45.217
न पद्माङ्गा न चक्राङ्का न वज्राङ्का यतः प्रजाः ।
लिङ्गाङ्का च भगाङ्का च तस्मान्माहेश्वरी प्रजा ॥ १३.४५.२१७ ॥
众生并非以莲花、轮盘或金刚杵为标记,而是以男根(liṅga)与女阴(yoni)为标记;因此这些众生属于大自在天(Maheśvara)。
13.45.218
देव्याःकरणरूपभावजनिताःसर्वाभगाङ्काः स्त्रियो ।
लिङ्गेनापि हरस्य सर्वपुरुषाः प्रत्यक्षचिह्नीकृताः।
योऽन्यत्कारणमीश्वरात्प्रवदते देव्या च यन्नाङ्कितं ।
त्रैलोक्ये सचराचरे स तु पुमान्बाह्यो भवेद्दुर्मतिः ॥ १३.४५.२१८ ॥
凡从女神之形与器官所生的女子,皆有女阴(bhaga)之标记;凡男子皆由哈罗(Hara)的男根(liṅga)明显标记。若有人宣称自在天(Īśvara)之外另有他因,三界中动与不动的众生里有未被女神标记者,那人便是外道,心智邪恶。
13.45.219
पुल्लिङ्गं सर्वमीशानं स्त्रीलिङ्गं विद्धि चाप्यमाम् ।
द्वाभ्यां तनुभ्यां व्याप्तं हि चराचरमिदं जगत् ॥ १३.४५.२१९ ॥
凡属阳性者皆是伊舍那(Īśāna),阴性者亦应知为阿摩(Amā)。这世界的动与不动之物,正是由这二身所遍布。
13.45.220
तस्माद्वरमहं काङ्क्षे निधनं वाऽपि कौशिक ।
गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन ॥ १३.४५.२२० ॥
因此,憍尸迦啊,我愿得一恩惠,或求死亡。帝释啊,伐罗(Bala)的摧灭者啊,你想去或留,随你心意。
13.45.221
काममेष वरो मेस्तु शापो वाऽथ महेश्वरात् ।
न चान्यां देवतां काङ्क्षे सर्वकामफलामपि ॥ १३.४५.२२१ ॥
愿此恩惠归我,或愿从大自在天(湿婆)处得到诅咒。我不愿求取其他任何能成就一切愿望的神祇。
13.45.222
एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः ।
न प्रसीदति मे देवः किमेतदिति चिन्तयन् ॥ १३.४५.२२२ ॥
我对众神之主如此说后,因悲痛而感官慌乱,心想:“神不愿对我满意,这是为什么?”
13.45.223
अथापश्यं क्षणेनैव तमेवैरावतं पुनः ।
हंसकुन्देन्दुसदृशं मृणालरजतप्रभम् ॥ १३.४५.२२३ ॥
随即在刹那之间,我又看见了那头象王爱罗婆多:它如天鹅、如茉莉花、如明月,闪耀着莲丝与白银般的光辉。
13.45.224
वृषरूपधरं साक्षात्क्षीरोदमिव सागरम् ।
कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् ॥ १३.४५.२२४ ॥
他现出牛的真身,如乳海一般;黑色的尾巴,庞大的身躯,眼睛如蜂蜜般黄褐。
13.45.225
वज्रसारमयैः शृङ्गैर्निष्टप्तकनकप्रभैः ।
सुतीक्ष्णैर्मृदुरक्ताग्रैरुत्किरन्तमिवावनिम् ॥ १३.४५.२२५ ॥
他的角由金刚之精华所成,闪耀着精炼黄金的光泽,极其锋利,尖端带着柔和的赤色,仿佛在刨挖大地。
13.45.226
जाम्बूनदेन दाम्ना च सर्वतः समलङ्कृतम् ।
सुवक्त्रखुरनासं च सुकर्णं सुकटीतटम्।
सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् ॥ १३.४५.२२६ ॥
周身饰以赡部那提金的花环,口、蹄、鼻、耳、腰胯、两侧皆美好;肩宽体阔,形貌俊美,看去令人悦目。
13.45.227
ककुदं तस्य चाभाति स्कन्धमापूर्य धिष्ठितम् ।
तुषारगिरिकूटाभं सिताभ्रशिखरोपमम् ॥ १३.४५.२२७ ॥
他的隆起之处闪耀,充满肩膀并稳稳安立,如同雪山之峰,又如白云之顶。
13.45.228
तभास्थितश्च भगवान्देवदेवः सहोमया ।
अशोभत महादेवः पौर्णमास्यामिवोडुराट् ॥ १३.४५.२२८ ॥
那里端坐的至尊神中之神大天,与乌玛同在,光辉如满月之夜的月亮。
13.45.229
किरीटं च जटाभारः सर्पाद्याभरणानि च ।
वज्रादिशूलमातङ्गगम्भीरस्मितमागतम् ॥ १३.४५.२२९ ॥
头冠、蓬松的发髻、蛇等饰物,连同金刚杵等兵器与三叉戟,以如象般深沉的微笑而来。
13.45.230
तस्य तेजोभवो वह्निः समेघः स्तनयित्नुमान् ।
सहस्रमिव सूर्याणां सर्वमापूर्य धिष्ठितः ॥ १३.४५.२३० ॥
由其光辉所生的火焰,伴着云雷轰鸣,如同千日,充满一切而屹立。
13.45.231
ईश्वरः सुमहातेजाः संवर्तक इवानलः ।
युगान्ते सर्वभूतानां दिधक्षुरिव चोद्यतः ॥ १३.४५.२३१ ॥
那位大光明的主,犹如劫末焚毁一切众生的劫火,似乎欲焚烧众生而高举。
13.45.232
तेजसा तु तदा व्याप्तं दुर्निरीक्ष्यं समन्ततः ।
पुनरुद्विग्नहृदय किमेतदिति चिन्तयम् ॥ १३.४५.२३२ ॥
那时,光辉遍照四方,难以正视,我又心神不安地思忖:“这是什么?”
13.45.233
मुहूर्तमिव तत्तेजो व्याप्य सर्वा दिशो दश ।
प्रशान्तं च क्षणेनैव देवदेवस्य मायया ॥ १३.४५.२३३ ॥
那光芒仿佛片刻之间充满了十方,又因众神之神的幻力而在一瞬间平息。
13.45.234
अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम् ।
सौरभेयगतं सौम्यं विधूममिव पावकम् ॥ १३.४५.२३४ ॥
那时我看见圣洁的大自在天斯塔奴站立着,骑在公牛上,温和如无烟之火。
13.45.235
प्रशान्तमनसं देवं त्रिनेत्रमपराजितम् ।
सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम् ॥ १३.४५.२३५ ॥
心境安详、三目不败的神,至高的主,与肢体秀美的帕尔瓦蒂同在。
13.45.236
नीलकण्ठं महात्मनमसक्तं तेजसां निधिम् ।
अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम् ॥ १३.४५.२३६ ॥
蓝颈、大德、无所执著、光辉之宝藏,十八臂的斯塔奴,以一切装饰庄严。
13.45.237
शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् ।
शुक्लध्वजमनाधृष्यं शुक्लयज्ञोपवीतिनम् ॥ १३.४५.२३७ ॥
身着白衣的神,佩戴白色花环并涂白色香膏,持白色旗帜,不可侵犯,身披白色圣线。
13.45.238
गायद्भिर्नृत्यमानैश्च वादयद्भिश्च सर्वशः ।
वृतं पार्श्वचरैर्दिव्यैरात्मतुल्यपराक्रमैः ॥ १३.४५.२३८ ॥
四周被歌唱者、舞蹈者和奏乐者环绕,身旁有与他勇力相等的神圣侍从。
13.45.239
बालेन्दुमुकुटं पाण्डुं शरच्चन्द्रमिवोदितम् ।
त्रिभिर्नेत्रैः कृतोद्योतं त्रिभिः सूर्यैरिवोदितैः ॥ १३.४५.२३९ ॥
以新月为冠,白如升起的秋月,以三目照耀,如同三轮升起的太阳。
13.45.240
सर्वविद्याधिपं देवं शरच्चन्द्रसमप्रभम् ।
नयनाह्लादसौम्योऽहमपश्यं परमेश्वरम् ॥ १३.४५.२४० ॥
我看见了至高的主宰,诸学之主,光辉如秋月,以温和之相令双目欢喜。
13.45.241
अशोभतास्य देवस्य माला गात्रे सितप्रभे ।
जातरूपमयैः पद्मैर्ग्रथिता रत्नभूषिता ॥ १३.४५.२४१ ॥
在那位白光如辉的神的身上,一串以金莲编织、饰以珠宝的花环熠熠生辉。
13.45.242
मूर्तिमन्ति तथाऽस्त्राणि सर्वतेजोमयानि च ।
मया दृष्टानि गोविन्द भवस्यामिततेजसः ॥ १३.४५.२४२ ॥
哦,戈文达,我也看见了无限光辉的婆婆(湿婆)那具象化的兵器,全由光明所成。
13.45.243
इन्द्रायुधसहस्राभं धनुस्तस्य महात्मनः ।
पिनाकमिति विख्यातं स च वै पन्नगो महान् ॥ १३.४५.२४३ ॥
那位大德之神的弓,光如因陀罗的千道金刚杵,名为“毗那迦”;那条大蛇也在那里。
13.45.244
सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विषोल्वणः ।
ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः ॥ १३.४५.२४४ ॥
他有七个头,身躯庞大,獠牙锐利,毒性猛烈;巨大的脖颈缠绕着弓弦,他以人形站立。
13.45.245
शरश्च सूर्यसङ्काशो दृष्टः पाशुपताह्वयः ।
सहस्रभुजजिह्वास्यो भीषणो नागविग्रह ॥ १३.४५.२४५ ॥
那支如太阳般的箭以帕舒帕塔之名显现:可怖,呈蛇形,有千臂、千舌与千口。
13.45.246
शङ्खशूलासिभिश्चैव पट्टसै रूपवान्स्थितः ।
येन च त्रिपुरं दग्ध्वा क्षणाद् भस्मीकृतं पुरा ॥ १३.४५.२४६ ॥
它化作有形之物,持螺号、三叉戟、剑与棍而立;昔日三城正是以它在瞬息之间焚为灰烬。
13.45.247
अद्वितीयमनिर्देश्यं सर्वभूतभयावहम् ।
सस्फुलिङ्गं महाकायं विसृजन्तमिवानलम् ॥ १३.४५.२४७ ॥
无双、不可言说、令一切众生恐惧;身形巨大,迸发火星,仿佛在喷吐烈火。
13.45.248
एकपादं महादंष्ट्रं सहस्रशिरसोदरम् ।
सहस्रभुजजिह्वाक्षमुद्गिरन्तमिवानलम् ॥ १३.४५.२४८ ॥
单足、大獠牙,有千头千腹、千臂千舌千目,仿佛在吐出烈火。
13.45.249
ब्राह्मान्नारायणाच्चैन्द्रादाग्नेयादपि वारुणात् ।
यद्विशिष्टं महाबाहो सर्वशस्त्रविघातनम् ॥ १३.४५.२४९ ॥
大臂者啊,它胜过梵天箭、那罗延箭、因陀罗箭、火神箭与水神箭,能摧毁一切武器。
13.45.250
येन तत्त्रिपुरं दग्ध्वा क्षणाद्भस्मीकृतं पुरा ।
शरेणैकेन गोविन्द महादेवेन लीलया ॥ १३.४५.२५० ॥
哥文达啊,昔日摩诃提婆以此箭,游戏之间,一箭便在瞬息之间将三城焚为灰烬。
13.45.251
निर्दहेत च यत्कृत्स्नं त्रैलोक्यं सचराचरम् ।
महेश्वरभुजोत्सृष्टं निमेषार्धान्न संशयः ॥ १३.४५.२५१ ॥
若由大自在天之臂射出,它将在半瞬之间烧尽整个三界及其中一切动与静之物,此无疑也。
13.45.252
नावध्यो यस्य लोकेऽस्मिन्ब्रह्मविष्णुसुरेष्वपि ।
तदहं दृष्टवांस्तत्र आश्चर्यमिदमुत्तमम् ॥ १३.४५.२५२ ॥
此世之中,即便梵天、毗湿奴与诸神也无法杀害之者——我在那里见到了此事,实为至上的奇迹。
13.45.253
गुह्यमस्त्रवरं नान्यत्तत्तुल्यमधिकं हि वा ।
यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ॥ १३.४५.२५३ ॥
此为秘密的至上兵器,无物可与之匹敌或超过——那在一切世界中以持三叉戟者之三叉戟而闻名的兵器。
13.45.254
दारयेद्द्यां मही कृत्स्नां शोषयेद्वा महोदधिम् ।
संहरेद्वा जगत्कृत्स्नं विसृष्टं शूलपाणिना ॥ १३.४५.२५४ ॥
若由手持三叉戟者射出,它能劈开整个天与地,使大海枯竭,或毁灭整个世界。
13.45.255
यौवनाश्वो हतो येन मान्धाता सबलः पुरा ।
चक्रवर्ती महातेजास्त्रिलोकविजयी नृपः ॥ १३.४५.२५५ ॥
往昔,因其,年轻马之子曼陀多与其军队一同被杀——那位转轮王、大威光者、三界征服者之王。
13.45.256
महाबलो महावीर्यः शक्रतुल्यपराक्रमः ।
करस्थेनैव गोविन्द लवणस्येह रक्षसः ॥ १३.४५.२५६ ॥
大力、大勇、勇力等同帝释天——哦,戈文达,此处,罗刹拉凡那正是被他手中所持的兵器所杀。
13.45.257
तच्छूलमतितीक्ष्णाग्रं सुभीमं रोमहर्षणम् ।
त्रिशिखां भ्रुकुटिं कृत्वा तर्जमानमिव स्थितम् ॥ १३.४५.२५७ ॥
那三叉戟尖锐无比,极其恐怖,令人毛骨悚然,皱着眉头,仿佛威胁般矗立着。
13.45.258
विधूमं सार्चिषं कृष्णं कालसूर्यमिवोदितम् ।
सर्पहस्तमनिर्देश्यं पाशहस्तामिवान्तकम् ॥ १३.४५.२५८ ॥
它无烟、有火焰、黝黑,宛如升起的死亡之日;手持毒蛇,难以形容,宛如手持绳索的死神阎摩。
13.45.259
दृष्टवानस्मि गोविन्द तदस्त्रं रुद्रसन्निधौ ।
परशुस्तीक्ष्णधारश्च दत्तो रामस्य यः पुराः ॥ १३.४५.२५९ ॥
哦,戈文达,我曾在楼陀罗面前见过那件武器;还有那把锋利的斧子,它往昔是赐给罗摩的。
13.45.260
महादेवेन तुष्टेन दत्तं भृगुसुताय च ।
कार्तवीर्यो हतो येन चक्रवर्ती महामृधे ॥ १३.४५.२६० ॥
大天神(摩诃提婆)欢喜地赐给婆利古之子,他凭此在大战中杀死了转轮王迦尔达维利耶。
13.45.261
त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता ।
जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा ॥ १३.४५.२६१ ॥
哦,戈文达,是那位十七次(二十一次)使大地无刹帝利的耶摩陀耶尼之子罗摩,他的业行毫不费力。
13.45.262
दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रधिष्ठितः ।
अभवच्छूलिनोऽभ्याशे दीप्तवह्निशतोपमः। ॥ १३.४५.२६२ ॥
它锋刃燃烧,神面可怖,安置于蛇颈之端,在持三叉戟者(湿婆)身旁,化作百道燃烧之火。
13.45.263
असङ्ख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः ।
प्राधान्यतो मयैतानि कीर्तितानि तवानघ ॥ १३.४५.२६३ ॥
那位智者的神圣兵器不可胜数;无垢者啊,我已向你说了其中主要的。
13.45.264
सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः ।
दिव्यं विमानमास्थाय हंसयुक्तं मनोजवम् ॥ १३.४५.२६४ ॥
在神的左侧站立着世界之祖梵天,他登上以天鹅拉驾、快如思想的神圣天车。
13.45.265
वामपार्श्वगतश्चापि तथा नारायणः स्थितः ।
वैनतेयं समारुह्य शङ्खचक्रगदाधरः ॥ १३.४५.२६५ ॥
左侧也站着那罗延,骑在迦楼罗之上,手持海螺、轮与铁杵。
13.45.266
स्कन्दो मयूरमास्थाय स्थितो देव्याः समीपतः ।
शक्तिघण्टे समादाय द्वितीय इव पावकः ॥ १३.४५.२६६ ॥
斯kanda 骑着孔雀,站在女神身旁,手持长枪与铃,宛如第二团火焰。
13.45.267
पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम् ।
शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शङ्करम् ॥ १३.४५.२६७ ॥
而在神的前方,我看见难提站立,倚着三叉戟,宛如第二位商羯罗。
13.45.268
स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस्तथा ।
शक्राद्या देवताश्चैव सर्व एव समभ्ययुः ॥ १३.४५.२६८ ॥
以自生者为首的诸摩奴、以婆利古为首的诸仙人,以及以帝释为首的诸神——他们全都聚集到了那里。
13.45.269
सर्वभूतगणाश्चैव मातरो विविधाः स्थिताः ।
तेऽभिवाद्य महात्मानं परिवार्य समन्ततः ॥ १३.४५.२६९ ॥
一切众生之群与种种母神也都站在那里。她们向大我礼拜之后,从四面八方将他围绕。
13.45.270
अस्तुवन्विविधैः सतोत्रैर्महादेवं सुरास्तदा ।
जगन्मूर्ति महालिङ्गं तन्मध्ये स्फूतरूपिणम् ॥ १३.४५.२७० ॥
于是诸神以种种颂歌赞美大天神——世界之形,于其中显现形相的大林伽。
13.45.271
ब्रह्मा भवं तदाऽस्तौवीद्रथन्तरमुदीरयन् ।
ज्येष्ठसाम्ना च देवेशं जगौ नारायणस्तदा ॥ १३.४५.२७१ ॥
于是梵天以《罗陀安塔罗》之歌赞颂婆跋(湿婆);那罗延则以《最上歌》歌颂天主。
13.45.272
गृणन्ब्रह्म परं शक्रः शतरुद्रियमुत्तमम् ।
ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः।
अशोभन्त महात्मानस्त्रयस्त्रय इवाग्नयः ॥ १३.४५.२७२ ॥
帝释以殊胜的《百罗陀罗》赞颂至上梵;梵天、那罗延与天王憍尸迦——这些大我如三团火焰般光辉闪耀。
13.45.273
तेषां मध्यगतो देवो रराज भगवाञ्छिवः ।
शरदभ्रविनिर्मुक्तः परिधिस्थ इवांशुमान् ॥ १३.४५.२७३ ॥
在他们中央,吉祥的天神湿婆闪耀着,如同脱离秋云、立于光环之中的太阳。
13.45.274
अयुतानि च चन्द्रार्कानपश्यं दिवि केशव ।
ततोऽहमस्तुवं देवं स्तवेनानेन सुव्रत ॥ १३.४५.२७४ ॥
啊,羯舍婆!我看见天空中有数以万计的月与日。于是,啊,持善誓者,我以此颂歌赞美那位天神。
13.45.275
उपमन्युरुवाच ।
नमो देवाधिदेवाय महादेवाय ते नमः।
शक्ररूपाय शक्राय शक्रवेषधराय च ॥ १३.४५.२७५ ॥
向你致敬,诸神之上的神,大天神。向你致敬,具有帝释形象者、帝释、身披帝释之装者。
13.45.276
नमस्ते वज्रहस्ताय पिङ्गलायारुणाय च ।
पिनाकपाणये नित्यं शङ्खशूलधराय च॥। ॥ १३.४५.२७६ ॥
向你致敬,手持金刚杵、赤黄与赤红之神。向你致敬,常持毗那迦弓、海螺与三叉戟者。
13.45.277
नमस्ते कृष्णवासाय कृष्णकुञ्चितमूर्धज ।
कृष्णाजिनोत्तरीयाय कृष्णाष्टमिरताय च ॥ १३.४५.२७७ ॥
向你致敬,身着黑衣、黑色卷发者。向你致敬,以黑羚羊皮为上衣、喜爱黑暗第八日者。
13.45.278
शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च ।
शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च ॥ १३.४५.२७८ ॥
向你致敬,白色之身、纯白者、身着白衣者。向你致敬,涂抹白灰、喜爱清净之业者。
13.45.279
नमोस्तु रक्तवर्णाय रक्ताम्बरधराय च ।
रक्तध्वजपताकाय रक्तस्रगनुलेपिने ॥ १३.४५.२७९ ॥
愿向你致敬,红色之身、身着红衣者。愿向你致敬,红色旗幡之主、以红色花环与香膏涂身者。
13.45.280
नमोस्तु पीतवर्णाय पीताम्बरधराय च ॥ १३.४५.२८० ॥
愿向你致敬,黄色之身、身着黄衣者。
13.45.281
नमोस्तूच्छ्रितच्छत्राय किरीटवरधारिणे ।
अर्धहारार्दकेयूर अर्धकुण्डलकर्णिने ॥ १३.४५.२८१ ॥
向高举华盖、戴上殊胜宝冠者致敬;向佩戴半项链、半臂钏、一耳半耳环者致敬。
13.45.282
नमः पवनवेगाय नमो देवाय वै नमः ।
सुरेन्द्राय मुनीन्द्राय महेन्द्राय नमोस्तु ते ॥ १३.४५.२८२ ॥
向风速般迅捷者致敬;向神明致敬;向你致敬,诸天之主、诸仙之主、大因陀罗。
13.45.283
नमः पद्मार्धमालाय उत्पलैर्मिश्रिताय च ।
अर्धचन्दनलिप्ताय अर्धस्रगनुलेपिने ॥ १३.४५.२८३ ॥
向佩戴半条莲花花环、与青莲相杂者致敬;向半涂檀香、佩戴半副花环与香膏者致敬。
13.45.284
नम आदित्यवक्त्राय आदित्यनयनाय च ।
नम आदित्यवर्णाय आदित्यप्रतिमाय च ॥ १३.४५.२८४ ॥
向以太阳为面、以太阳为眼者致敬;向太阳色、如太阳之像者致敬。
13.45.285
नमः सोमाय सौम्याय सौम्यवक्त्रधराय च ।
सौम्यरूपाय मुख्याय सौम्यदंष्ट्राविभूषिणे ॥ १३.४५.२८५ ॥
向月神苏摩、向温和者、向持温和面容者致敬;向温和形相、至上者、以温和獠牙为饰者致敬。
13.45.286
नमः श्यामाय गौराय अर्धपीतार्धपाण्डवे ।
नारीनरशरीराय स्त्रीपुंसाय नमोस्तु ते ॥ १३.४५.२८६ ॥
向黑者致敬,向白者致敬;向半黄半白者致敬;向身兼女男、具女男之形者,即你,致敬。
13.45.287
नमो वृषभवाहाय गजेन्द्रगमनाय च ।
दुर्गमाय नमस्तुभ्यमगम्यागमनाय च ॥ १३.४५.२८७ ॥
敬礼乘牛者,其步态如象王。敬礼你,不可接近者,能到达不可到之处。
13.45.288
नमोस्तु गणनीताय गणवृन्दरताय च ।
गुणानुयातमार्गाय गणनित्यव्रताय च ॥ १३.४५.२८८ ॥
敬礼为众灵所引导、喜乐于众眷属之中者。敬礼道路为诸德所随者,以众灵之恒常誓愿为誓者。
13.45.289
नमः श्वेताभ्रवर्णाय संध्यारागप्रभाच य ।
अनुद्दिष्टामभिधानाय स्वरूपाय नमोस्तु ते ॥ १३.४५.२८९ ॥
敬礼白云色者,其光如黄昏霞彩。敬礼你,名号未明示者,形相即其自身。
13.45.290
नमो रक्ताग्रवासाय रक्तसूत्रधराय च ।
रक्तमालाविचित्राय रक्ताम्बरधराय च ॥ १३.४५.२९० ॥
敬礼衣襟赤色、佩戴赤线者。敬礼以红色花鬘庄严、身著赤衣者。
13.45.291
मणिभूषितमूर्धाय नमश्चन्द्रार्धभूषिणे ।
विचित्रमणिमूर्धाय कुसुमाष्टधराय च ॥ १३.४५.२९१ ॥
敬礼头饰宝珠、以半月为饰者。敬礼头顶杂色宝珠、持八朵花者。
13.45.292
नमोऽग्निमुखनेत्राय सहस्रशशिलोचने ।
अग्निरूपाय कान्ताय नमोस्तु गहनाय च ॥ १३.४५.२९२ ॥
敬礼面与目皆为火、千目如月者。敬礼你,形为火、可爱、深不可测者。
13.45.293
खचराय नमस्तुभ्यं गोचराभिरताय च ।
भूचराय भुवनाय अनन्ताय शिवाय च ॥ १३.४५.२९३ ॥
敬礼你,天空的游行者,以及喜乐于感官境界者。敬礼地上的游行者、世界、无限者与吉祥的湿婆。
13.45.294
नमो दिग्वाससे नित्यमधिवाससुवाससे ।
नमो जगन्निवासाय प्रतिपत्तिसुखाय च ॥ १३.४५.२९४ ॥
恒常敬礼以四方为衣者,敬礼以居所为美服者。敬礼世界的居所,也敬礼成就的喜乐。
13.45.295
नित्यमुद्बद्धमुकुटे महाकेयूरधारिणे ।
सर्पकण्ठोपहाराय विचित्राभरणाय च ॥ १३.४५.२९५ ॥
敬礼常戴高束王冠者,敬礼佩戴大臂钏者。敬礼以蛇颈为供品者,也敬礼饰以奇妙装饰者。
13.45.296
नमस्त्रिनेत्रनेत्राय सहस्रशतलोचने ।
स्त्रीपुंसाय नपुंसाय नमः साङ्ख्याय योगिने ॥ १३.४५.२९६ ॥
敬礼三目者之眼,敬礼具千百眼者。敬礼亦男亦女者,敬礼非男非女者;敬礼数论,敬礼瑜伽行者。
13.45.297
शंयोरभिस्रवन्ताय अथर्वाय नमोनमः ।
नमः सर्वार्तिनाशाय नमः शोकहराय च ॥ १३.४५.२९७ ॥
敬礼,再敬礼阿陀婆那,他流向吉祥与瑜伽。敬礼摧毁一切苦患者,也敬礼除去忧愁者。
13.45.298
नमो मेघनिनादाय बहुमायाधराय च ।
बीजक्षेत्राभिपालाय स्रष्टाराय नमोनमः ॥ १३.४५.२९८ ॥
敬礼以云雷为声者,也敬礼持多种幻化者。敬礼,再敬礼护持种子与田地的造物主。
13.45.299
नमः सुरासुरेशाय विश्वेशाय नमोनमः ।
मनः पवनवेगाय नमः पवनरूपिणे ॥ १३.४५.२९९ ॥
敬礼诸天与阿修罗之主,敬礼宇宙之主,一再敬礼。敬礼意与风速兼具者,敬礼具风之形者。
13.45.300
नमः काञ्चनमालाय गिरिमालाय वै नमः ।
नमः सुरारिमालाय चण्डवेगाय वै नमः ॥ १३.४५.३०० ॥
敬礼佩戴金鬘者,也敬礼佩戴山鬘者。敬礼佩戴诸天之敌之鬘者,敬礼具猛烈速度者。
13.45.301
ब्रह्मशिरोपहर्ताय महिषघ्नाय वै नमः ।
नमः स्त्रीरूपधाराय यज्ञविध्वंसनाय च ॥ १३.४५.३०१ ॥
敬礼斩断梵天之首者,也敬礼杀死水牛魔者。敬礼现女身者,也敬礼毁坏祭祀者。
13.45.302
नमस्त्रिपुरहर्ताय यज्ञविध्वंसनाय च ।
नमः कामाङ्गनाशाय कालदण्डधराय च ॥ १३.४५.३०२ ॥
敬礼毁灭三城者,也敬礼毁坏祭祀者。敬礼焚毁爱神身体者,也敬礼执持死神之杖者。
13.45.303
नमः स्कन्दविशाखाय ब्रह्मदण्डाय वै नमः ।
नमो भवाय शर्वाय विश्वरूपाय वै नमः ॥ १३.४५.३०३ ॥
敬礼具室建陀与毗舍迦之形者,也敬礼梵之杖者。敬礼婆婆,敬礼设婆,也敬礼具一切形者。
13.45.304
ईशानाय भवघ्नाय नमोस्त्वन्धकघातिने ।
नमो विश्वाय मायायचिन्त्याचिन्त्याय वै नमः ॥ १३.४५.३०४ ॥
敬礼自在天,敬礼灭除世间有者。敬礼杀安陀迦者,敬礼遍在者,敬礼幻力,敬礼不可思议者,敬礼不可思议者。
13.45.305
त्वं नो गतिश्च श्रेष्ठश्च त्वमेव हृदयं तथा ।
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ॥ १३.४५.३०५ ॥
你是我们的归依与至上者,你也是心。在诸神中你是梵天,在楼陀罗中你是青赤。
13.45.306
आत्मा च सर्वभूतानां साङ्ख्ये पुरुष उच्यते ।
ऋषभस्त्वं पवित्राणां योगिनां निष्कलः शिवः ॥ १३.४५.३०६ ॥
你是一切众生的自我;在数论中你被称为补卢沙。在清净者中你是最上的公牛,在瑜伽行者中你是无分的湿婆。
13.45.307
गृहस्थस्त्वमाश्रगिणामीश्वराणां महेश्वरः ।
कुबेरः सर्वयक्षाणां क्रतूनां विष्णुरुच्यते ॥ १३.४५.३०७ ॥
在四住期中你是家居者;在自在者中你是大自在天。在一切夜叉中你是俱毗罗,在祭祀中你被称为毗湿奴。
13.45.308
पर्वतानां भवान्मेरुर्नक्षत्राणां च चन्द्रमाः ।
वसिष्ठस्त्वमृषीणां च ग्रहाणां सूर्य उच्यते ॥ १३.४५.३०८ ॥
在山中你是须弥山,在星宿中你是月亮。在仙人中你是婆舍吒,在行星中你被称为太阳。
13.45.309
आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः ।
ग्राम्याणां गोवृषश्चासि भवाँल्लोक्प्रपूजितः ॥ १३.४५.३०९ ॥
在林中野兽中你是狮子,是至上主;在家畜中你是公牛,你受世间尊崇。
13.45.310
आदित्यानां भवान्विष्णुर्वसूनां चैव पावकः ।
पक्षिणां वैनतेयस्त्वमनन्तो भ्रुजगेषु च ॥ १३.४५.३१० ॥
在阿提耶中你是毗湿奴,在婆苏中你是火神波伽。在飞鸟中你是毗娜提耶(迦楼罗),在蛇中你是无边(阿难陀)。
13.45.311
सामवेदश्च वेदानां यजुषां शतरुद्रियम् ।
सनत्कुमारो योगानां साङ्ख्यानां कपिलो ह्यसि ॥ १३.४५.३११ ॥
在吠陀中你是《娑摩吠陀》,在夜柔吠陀诸咒中你是《百湿婆经》;在瑜伽中你是萨那特古马拉,在数论教义中你确是迦毗罗。
13.45.312
शक्रोसि मरुतां देव पितॄणां हव्यवाडसि ।
ब्रह्मलोकश्च लोकानां गतीनां मोक्ष उच्यसे ॥ १३.४५.३१२ ॥
神啊,你是诸风神中的因陀罗,是祖先中的献祭之火;在诸世界中你被称为梵天界,在诸归途中被称为解脱。
13.45.313
क्षीरोदः सागराणां च शैलानां हिमवान्गिरिः ।
वर्णानां ब्राह्मणश्चासि विप्राणां दीक्षितो द्विजः ॥ १३.४५.३१३ ॥
在海洋中你是乳海,在山岳中你是喜马拉雅;在种姓中你是婆罗门,在智者中你是受戒的再生者。
13.45.314
आदिस्त्वमसि लोकानां संहर्ता काल एव च ।
यच्चान्यदपि लोके वै सर्वतेजोधिकं स्मृतम्।
तत्सर्वं भगवानेव इति मे निश्चिता मतिः ॥ १३.४५.३१४ ॥
你是诸世界的起始,是其毁灭者,也就是时间本身;世间凡被记住超越一切光辉者,皆是世尊你自身——这是我坚定的信念。
13.45.315
नमस्ते भगवन्देव नमस्ते भक्तवत्सलः ।
योगेश्वर नमस्तेऽस्तु नमस्ते विस्वसम्भव ॥ १३.४५.३१५ ॥
敬礼你,世尊,神啊;敬礼你,眷爱信徒者。敬礼你,瑜伽之主;敬礼你,宇宙之源。
13.45.316
प्रसीद मम भक्तस्य दीनस्य कृपणस्य च ।
अनैश्वर्येणि युक्तस्य गतिर्भव सनातन ॥ १३.४५.३१६ ॥
请垂怜我——你的信徒,困苦而可怜的人;对于我这陷于无力的人,永恒者啊,请成为我的归宿。
13.45.317
यच्चापराधं कृतवानज्ञात्वा परमेश्वर ।
मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि ॥ १३.४५.३१७ ॥
至高之主啊,我无知所犯的任何过错,因我是你的信徒,诸神之主啊,你应当全部宽恕。
13.45.318
मोहितश्चास्मि देवेश त्वया रूपविपर्ययात् ।
नार्घ्यं तेन मया दत्तं पाद्यं चापि महेश्वर ॥ १३.४५.३१८ ॥
诸神之主啊,我因你变换形貌而迷惑;所以,伟大的主啊,我没有献上敬奉之水与洗足之水。
13.45.319
एवं स्तुत्वाऽहमीशानं पाद्यमर्घ्यं च भक्तितः ।
कृताञ्जलिपुटो भूत्वा सर्वं तस्मै न्यवेदयम् ॥ १३.४५.३१९ ॥
我如此赞颂了主伊沙那,怀着虔敬,合掌而立,把洗足之水与敬奉之水,一切都献给了他。
13.45.320
ततः शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता ।
पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि ॥ १३.४५.३२० ॥
那时,亲爱的,一场吉祥的花雨,混着清凉的水,带着天界的香气,落在了我的头上。
13.45.321
दुन्दुभिश्च तदा दिव्यस्ताडितो देवकिंकरैः ।
ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः ॥ १३.४५.३२१ ॥
那时,诸天的侍者敲响了神圣的鼓,一阵纯净、带着清香、令人舒适的风吹拂起来。
13.45.322
ततः प्रीतो महादेवः सपत्नीको वृषध्वजः ।
अब्रवीत्त्रिदशांस्तत्र हर्षयन्निव मां तदा ॥ १३.४५.३२२ ॥
那时,喜悦的大神、以牛为旗者,与他的妃子一同,对那里的三十三天神说话,仿佛也使我欢喜。
13.45.323
पश्यध्वं त्रिदशाः सर्वे उपमन्योर्महात्मनः ।
मयि भक्तिं परां नित्यमेकभावादवस्थिताम् ॥ १३.४५.३२३ ॥
诸天神啊,请看大德优波曼尤对我的至高虔诚,始终专一不移。
13.45.324
एवमुक्तास्तदा कृष्ण सुरास्ते शूलपाणिना ।
ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम् ॥ १३.४५.३२४ ॥
克利须那啊,持三叉戟者如此说后,诸神合掌向牛旗神礼拜,然后开口说道。
13.45.325
भगवन्देवदेवेश लोकनाथ जगत्पते ।
लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः ॥ १३.४५.३२५ ॥
世尊,诸神之主,世界之主,宇宙之主,愿最优秀的再生者从您那里获得一切愿望的果报。
13.45.326
एवमुक्तस्ततः शर्वः सुरैर्ब्रह्मादिभिस्तथा ।
आह मां भगवानीशः प्रहसन्निव शङ्करः ॥ १३.४५.३२६ ॥
梵天等诸神如此相请后,世尊湿婆、自在天、吉祥天(Śaṅkara)仿佛微笑着对我说。
13.45.327
भगवानुवाच ।
वत्सोपमन्यो तृष्टोस्मि पश्य मां मुनिपुङ्गव।
दृढभक्तोसि विप्रर्षे मया जिज्ञासितो ह्यसि ॥ १३.४५.३२७ ॥
世尊说:亲爱的优波曼尤,我很欢喜;最优秀的仙人啊,请看着我。婆罗门仙人啊,你的虔诚坚定不移,我已经考验过你了。
13.45.328
अनया चैव भक्त्या ते अत्यर्थं प्रीतिमानहम् ।
तस्मात्सर्वान्ददाम्यद्य कामांस्तव यथोप्सितान् ॥ १३.४५.३२८ ॥
因你这份虔诚,我极为欢喜;因此今日我将赐予你所希望的一切愿望。
13.45.329
एवमुक्तस्य चैवाथ महादेवेन धीमता ।
हर्षादश्रूण्यवर्तन्त रोमहर्षस्त्वजायत ॥ १३.४५.३२९ ॥
智慧的大天如此说时,我因喜悦而流泪,毛发竖立。
13.45.330
अब्रवं च तदा देव हर्षगद्गदया गिरा ।
जानुभ्यामवनीं गत्वा प्रणम्य च पुनःपुनः ॥ १३.४५.३३० ॥
此时我以欣喜哽咽的声音,跪伏于地,一再叩拜,说道:"神啊!"
13.45.331
अद्य जातो ह्यहं देव सफलं जन्म चाद्य मे ।
यन्मे साक्षान्महादेवः प्रसन्नस्तिष्ठतेऽग्रतः ॥ १३.४५.३३१ ॥
神啊,今日我才真正降生,今日我的生命结出了果实,因为伟大的大天欢喜地亲自站在我面前。
13.45.332
यं न पश्यन्ति चैवाद्धा देवा ह्यमितविक्रमम् ।
तमहं दृष्टवान्देवं कोऽन्यो धन्यतरो मया ॥ १३.४५.३३२ ॥
那位威力无量的神,即便诸天也真正不能见到,我却见到了。还有谁比我更有福?
13.45.333
एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम् ।
तद्विशेषमतिख्यातं यदजं ज्ञानमक्षरम् ॥ १३.४५.३३३ ॥
智者如此冥想那至上、永恒之实相,它尤为著名:是不生的智慧,是不灭的。
13.45.334
स एष भगवान्देवः सर्वसत्त्वादिरव्ययः ।
सर्वतत्त्वविधानज्ञः प्रधानपुरुषः परः ॥ १३.४५.३३४ ॥
这位正是世尊之神:一切众生之始,不灭者,通晓一切法则之理,原初之人,至上者。
13.45.335
योऽसृजद्दक्षिणादङ्गाद्ब्रह्माणां लोकसम्भवम् ।
वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः ॥ १३.४५.३३५ ॥
从他的右肢创造了作为世界本源的梵天们,又从左侧为护持世界创造了毗湿奴的那位主宰。
13.45.336
युगान्ते चैव सम्प्राप्ते रुद्रमीशोऽसृजत्प्रभुः ।
स रुद्रः संहरन्कृत्स्नं जगत्स्थावरजङ्गमम् ॥ १३.४५.३३६ ॥
当劫末来临时,主宰伊舍创造了主神楼陀罗;那楼陀罗毁灭整个世界,不动与可动之物。
13.45.337
कालो भूत्वा परं ब्रह्म याति संवर्तकानलः ।
युगान्ते सर्वभूतानि ग्रसन्निव व्यवस्थितः ॥ १३.४५.३३७ ॥
化为时间的劫火走向至高梵;在劫末它停驻着,仿佛吞噬着一切众生。
13.45.338
एष देवो महादेवो जगत्सृष्ट्वा चराचरम् ।
कल्पान्ते चैव सर्वेषां स्मृतिमाक्षिप्य तिष्ठति ॥ १३.४५.३३८ ॥
这位神,大天神,创造了动与不动的世界,在劫末夺去一切人的记忆而常住。
13.45.339
सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः ।
आस्ते सर्वगतो नित्यमदृश्यः सर्वदैवतैः ॥ १३.४५.३३९ ॥
他遍在一切,是众生之我,是一切众生生起的根源;他永恒地遍在于一切处,连诸天神也看不见他。
13.45.340
यदि देयो वरो मह्यं यदि तुष्टोऽसि मे प्रभो ।
भक्तिर्भक्तु मे नित्यं त्वयि देव सुरेश्वर ॥ १३.४५.३४० ॥
如果要赐我恩惠,如果你对我满意,主啊——愿我的虔诚永远归于你,神啊,诸神之主。
13.45.341
अतीतानागतं चैव वर्तमानं च यद्विभो ।
जानीयामिति मे बुद्धिः प्रसादात्सुरसत्तम ॥ १३.४५.३४१ ॥
主啊,愿我得知过去、未来与现在的一切——这是我的心愿,蒙您恩典,诸神中最殊胜者。
13.45.342
क्षीरोदनं च भुञ्जीयामक्षयं सह बान्धवैः ।
आश्रमे च सदाऽस्माकं सान्निध्यं परमस्तु ते ॥ १३.४५.३४२ ॥
愿我与亲属一同享用永不匮乏的奶米饭;愿您在我们的修行处永远以至尊的临在相伴。
13.45.343
एवमुक्तः स मां प्राह भगवाँल्लोकपूजितः ।
महेश्वरो महातेजाश्वराचरगुरुः शिवः ॥ १३.४५.३४३ ॥
如此被请求后,受万界敬礼、大光明、动与不动之师的薄伽梵大自在天湿婆对我说道:
13.45.344
श्रीभगवानुवाच ।
अजरश्चामरश्चैव भव त्वं दुःखवर्जितः।
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥ १३.४५.३४४ ॥
薄伽梵说:愿你不老不死,远离忧苦,名声远扬,具足光明,并拥有神圣的智慧。
13.45.345
ऋषीणामभिगम्यश्च मत्प्रसादाध्भविष्यसि ।
शीलवान्गुणसम्पन्नः सर्वज्ञः प्रियदर्शनः ॥ १३.४५.३४५ ॥
蒙我的恩典,你将为诸仙所亲近,具足德行与善质,成为遍知者,令人见之欢喜。
13.45.346
अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम् ।
क्षीरोदः सागरश्चैव यत्रयत्रेच्छसि प्रियम् ॥ १३.४५.३४६ ॥
愿你的青春永不衰竭,光明如火;无论你在何处渴望所爱之物,愿乳海与大海都归你所有。
13.45.347
तत्र ते भविता कामं सान्निध्यं पयसोनिधेः ।
क्षीरोदनं च भुङ्ख त्वममृतेन समन्वितम् ॥ १३.४५.३४७ ॥
你将如愿得到乳海之近,并食用混有甘露的乳粥。
13.45.348
बन्धुभिः सहितः कल्पं ततो मामुपयास्यसि ।
अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ॥ १३.४५.३४८ ॥
你与亲属一同在彼处住一劫,然后将来到我这里;你的亲属、家族与宗族将永远不灭。
13.45.349
भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती ।
सान्निध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम ॥ १३.४५.३४९ ॥
最好的再生者啊,你对我将有永恒的虔敬;最杰出的再生者啊,我将常在你的修行处显现。
13.45.350
तिष्ठ वत्स यथाकामं नोत्कण्ठां च करिष्यति ।
स्मृतस्त्वया पुनर्विप्र करिष्यामि च दर्शनम्
एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः ।
ईशानः स वरान्दत्त्वा तत्रैवान्तरधीयत ॥ १३.४५.३५० ॥
孩子啊,随你所愿留下吧,不要思慕。婆罗门啊,你若忆念我,我将再次显现于你。
13.45.352
एवं दृष्टो मया कृष्ण देवदेवः समाधिना ।
तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता ॥ १३.४५.३५२ ॥
克里希那啊,我如此在三摩地中见到了神中之神;那位智者所说的一切都已为我所得。
13.45.353
प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान्व्यवस्थितान् ।
ऋषीन्विद्याधरान्यक्षान्गन्धर्वाप्सरसस्तथा ॥ १३.४५.३५३ ॥
克里希那啊,你也亲眼看看那里安住的成就者:仙人、持明者、夜叉、乾闼婆与阿普萨拉斯。
13.45.354
पश्य वृक्षलतागुल्मान्सर्वपुष्पफलप्रदान् ।
सर्वर्तुकुसुमैर्युक्तान्सुखपत्रान्सुगन्धिनः ॥ १३.४५.३५४ ॥
看那些树木、藤蔓和灌木,它们结出各种花果,具备四季之花,叶子优美,芬芳馥郁。
13.45.355
सर्वमेतन्महाबाहो दिव्यभावसमन्वितम् ।
प्रसादाद्देवदेवस्य ईशअवरस्य महात्मनः ॥ १३.४५.३५५ ॥
大臂者啊,这一切都具有神圣的本性,乃由神中之神、大德的(其下位形相之)主宰所赐之恩。
13.45.356
एतच्छ्रुत्वा वचस्तस्य प्रत्यक्षमिव दर्शनम् ।
विस्मयं परमं गत्वा अब्रवं तं महामुनिम् ॥ १३.४५.३५६ ॥
听闻他这些话语,仿佛亲眼见到显现,我满怀极大的惊叹,便对那位大仙说道。
13.45.357
धन्यस्त्वमसि विप्रेन्द्रि कस्त्वदन्योस्ति पुण्यकृत् ।
यस्य देवाधिदेवस्ते सान्निध्यं कुरुतेऽऽश्रमे ॥ १३.४५.३५७ ॥
婆罗门中最优秀者啊,你真是有福!除你之外,还有谁是积善之人?神中之神在你的林居中亲近于你。
13.45.358
अपि तावन्ममाप्येवं दद्यात्स भगवाञ्शिवः ।
दर्शं मुनिशार्दूल प्रसादं चापि शङ्करः ॥ १३.४५.३५८ ॥
众仙中的猛虎啊,那位世尊湿婆也会像赐予商羯罗那样,赐我这样的显现与恩典吗?
13.45.359
उपमन्युरुवाच ।
द्रक्ष्यसे पुण्डरीकाक्ष महादेवं न संशयः।
अचिरेणैव कालेन यथा दृष्टो मयाऽनघ ॥ १३.४५.३५९ ॥
优婆曼遮说:莲花眼者啊,你必定会见到大天,毫无疑问,很快便会在适当的时候,就像我曾经见到的那样,无罪者啊。
13.45.360
चक्षुषा चैव दिव्येन पश्याम्यमितविक्रमम् ।
षष्ठे मासि महादेवं द्रक्ष्यसे पुरुषोत्तम ॥ १३.४५.३६० ॥
我以神圣之眼看见那无量威力者。第六个月,至上之人啊,你将见到大神摩诃提婆。
13.45.361
षोडशाष्टौ वरांश्चापि प्राप्स्यसि त्वं महेश्वरात् ।
सपत्नीकाद्यदुश्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥ १३.४५.३६१ ॥
至上的雅度族啊,你将与妻子一同从大自在天那里获得十六和八种恩赐。这是真实的,我告诉你。
13.45.362
अतीतानागतं चैव वर्तमानं च नित्यशः ।
विदितं मे महाबाहो प्रसादात्तस्य धीमतः ॥ १३.४५.३६२ ॥
大臂者啊,依靠那位智者的恩典,过去、未来与现在对我始终是明白的。
13.45.363
एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः ।
कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव ॥ १३.४५.३६३ ॥
哈罗曾思念这些人以及成千上万的其他人。摩陀婆啊,世尊为何不会降恩于你?
13.45.364
त्वादृशेन हि देवानां श्लाघनीय समागमः ।
ब्रह्मणअयेनानृशंसेन श्रद्दधानेन चाप्युत।
जप्यं तु ते प्रदास्यामि येन द्रक्ष्यसि शंकरम् ॥ १३.४५.३६४ ॥
像你这样敬奉婆罗门、慈悲而有信心的人能与诸神相会,实属可赞。但我要传给你一个念诵的真言,借之你将得见湿婆。
13.45.365
अब्रवं तमहं ब्रह्मन्त्वत्प्रसादान्महामुने ।
द्रक्ष्ये दितिजसङ्घानां मर्दनं त्रिदशेश्वरम् ॥ १३.४५.३६५ ॥
我对他说:婆罗门啊,大仙啊,凭你的恩典,我将得见诸神之主,那摧毁提缇族大军的主宰。
13.45.366
एवं कथयतस्तस्य महादेवाश्रितां कथाम् ।
दिनान्यष्टौ ततो जग्मुर्मुहूर्तमिव भारत ॥ १३.४५.३६६ ॥
他如此讲述关于摩诃提婆的故事时,八日如同一瞬般过去了,婆罗多啊。
13.45.367
दिनेऽष्टमे तु विप्रेणि दीक्षितोऽहं यथाविधि ।
दण्डी मुण्डी कुशी चीरि घृताक्तो मेखलीकृतः ॥ १३.४५.३६७ ॥
第八日,婆罗门啊,我依仪轨受了灌顶,手持杖,剃度光头,身着吉祥草,披树皮衣,涂抹酥油,系着腰带。
13.45.368
मासमेकं फलाहारो द्वितीयं सलिलाशनः ।
तृतीयं च चतुर्थं च पञ्चमं चानिलाशः ॥ १३.४५.३६८ ॥
一个月以果实为食,第二个月只饮水,第三和第四个月,第五个月只以风为食。
13.45.369
एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः ।
तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत ॥ १३.४५.३६९ ॥
我单足站立,双臂高举,不知疲倦,婆罗多啊,我在天空中看见了千日的光辉。
13.45.370
तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन ।
इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम्।
नीलसैलचयप्रख्यं बलाकाभूषिताम्बरम् ॥ १३.४५.३७० ॥
在那光辉之中,般度之子啊,有一形体,四肢缠绕彩虹,身披闪电之环与窗棂般的孔隙,宛如一堆蓝色山峦,衣饰以白鹤点缀。
13.45.371
तत्र स्थितश्च भगवान्देव्या सह महाद्युतिः ।
तपसा तेजसा कान्त्या दीप्तया सह भार्यया ॥ १३.४५.३७१ ॥
那里站着至尊的主,大光明者,与女神同在,以苦行、光辉、光彩和炽烈的荣耀,与他的妻子一同。
13.45.372
रराज भगवांस्तत्र देव्या सह महेश्वरः ।
सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा ॥ १३.४५.३७२ ॥
彼处,吉祥的大自在天与天女同在,光耀夺目,犹如云中之日与月相伴。
13.45.373
संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः ।
अपश्यं देवसङ्घानां गतिमार्तिहरं हरम् ॥ १३.४५.३७३ ॥
俱因陀罗之子啊,我毛发竖立,惊讶地睁大双眼,看见了诸神众的归宿、除去苦恼的诃罗。
13.45.374
किरीटिनं गदिनं शूलपाणिं ।
व्याघ्राजिनं जटिलं दण्डपाणिम्।
पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं ।
शुभाङ्गदं व्यालयज्ञोपवीतम् ॥ १३.४५.३७४ ॥
戴冠冕,持铁棒,手执三叉戟,披虎皮,发髻纠结,手持杖,执皮纳卡弓,持金刚杵,獠牙锐利,戴吉祥臂钏,以蛇为圣线。
13.45.375
दिव्यां मालामुरसाऽनेकवर्णां ।
समुद्वहन्तं गुल्फदेशावलम्बाम्।
चन्द्रं यथा परिविष्टं ससन्ध्यं ।
वर्षात्यये तद्वदपश्यमेनम् ॥ १३.४५.३७५ ॥
胸前佩戴着多色的天界花鬘,垂至脚踝,我看见他犹如雨季终了时被暮光环绕的月亮。
13.45.376
प्रमथानां गणैश्चैव समन्तात्परिवारितम् ।
शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् ॥ १३.४५.३७६ ॥
被鬼众(卜拉玛沙)从四面环绕,犹如秋日的太阳,难以直视,那白昼之日被围绕着。
13.45.377
एकादशशतान्येवं रुद्राणां वृषवाहनम् ।
अस्तुवं नियतात्मानं कर्मभिः शुभकर्मिणम् ॥ १३.४५.३७७ ॥
如是,我赞颂那骑乘公牛、统领一千一百罗陀罗、自制其心、行善业的主。
13.45.378
आदित्या वसवः साध्या विश्वेदेवास्तथाऽश्विनौ ।
विश्वाभिः स्तुतिभिर्देवं विश्वदेवं समस्तुवन् ॥ १३.४५.३७८ ॥
阿底提亚、婆苏、萨迪亚、毗湿缚天以及双阿湿毗尼,以一切赞颂赞美普遍之神。
13.45.379
शतक्रतुश्च भगवान्विष्णुश्चादितिनन्दनौ ।
ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके ॥ १३.४५.३७९ ॥
百祭之因陀罗、世尊毗湿奴、阿提缇之二子与梵天,在您近旁诵唱《车乘歌》(Rathantara)。
13.45.380
योगीश्वराः सुबहवो योगदं पितरं गुरुम् ।
ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै ॥ १३.४५.३८० ॥
众多瑜伽自在者、与其子同在的梵仙,以及天仙,都赞颂您——赐予瑜伽者、父亲与导师。
13.45.381
पृथिवीं चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा ।
मासार्धमासा क्रतवो रात्रिः संवत्सराः क्षणाः ॥ १३.४५.३८१ ॥
大地与虚空、星宿与行星、月与半月、季节、夜晚、岁月与刹那,都赞颂您。
13.45.382
मुहूर्ताश्च निमेपाश्च तथैव युगपर्ययाः ।
दिव्या राजन्नमस्यन्ति विद्याः सत्वविदस्तथा ॥ १३.४५.३८२ ॥
时分与瞬息、诸劫之轮转,王啊,神圣的力量、诸学问以及知晓真如者,也都向您致敬。
13.45.383
सनत्कुमारो देवाश्च इतिहासास्तथैव च ।
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ॥ १३.४५.३८३ ॥
萨那特昆摩罗与诸天神、历史传说,以及摩哩质、安吉罗、阿特利、补罗斯底、补罗诃、迦睩都赞颂您。
13.45.384
मनवः सप्त सोमश्च अर्थवा सबृहस्पतिः ।
भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च ॥ १३.४५.३८४ ॥
七位摩奴、月神苏摩、阿闼婆与布利哈斯帕蒂,以及婆利古、达刹、迦叶波、婆悉吒,还有迦奢。
13.45.385
छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः ।
यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर ॥ १३.४५.३८५ ॥
吠陀韵律、灌顶仪式、祭祀与祭礼布施,圣火帕瓦卡与供物;用于祭祀的诸物皆具形体——般度子坚战啊。
13.45.386
प्रजानां पालकाः सर्वे सरितः पन्नगा नगाः ।
देवानां मातरः सर्वादेवपत्न्य सकन्यकाः ॥ १३.४५.३८६ ॥
众生的一切护持者、河流、蛇、山岳;诸神的一切母亲与神妃,连同她们的女儿。
13.45.387
सहस्राणि मुनीनां च अयुतान्यर्बुदानि च ।
नमस्यन्ति प्रभुं शान्तं पर्वताःसागरा दिशः ॥ १३.४५.३८७ ॥
数以千计的仙人、万与亿的众多,都向那寂静的主敬礼;山岳、大海与四方亦然。
13.45.388
गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः ।
दिव्यतालेषु गायन्तः स्तुवन्ति भवमद्भुतम् ॥ १३.४५.३८८ ॥
乾闼婆与阿普萨拉斯,精通歌唱与乐器,依神妙节拍而歌,赞颂奇妙的婆伐。
13.45.389
विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा ।
सर्वाणि चैव भूतानि स्तावराणि चराणि च।
नमस्यन्ति महाराज वाङ्मनः कर्मभिर्विभुम् ॥ १३.४५.३८९ ॥
明咒师、檀那婆、藏夜叉与罗刹亦然;一切众生,不动与动者,大王啊,以言语、意念与行为礼敬那遍在的主。
13.45.390
पुरस्ताद्धिष्ठितः शर्वो ममासीस्त्रिदशेश्वरः ॥ १३.४५.३९० ॥
三十位天神之主湿婆(Śarva)立于我前。
13.45.391
पुरस्तद्धिष्ठितं दृष्ट्वा ममेशानं च भारत ।
सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत ॥ १३.४५.३९१ ॥
婆罗多之子啊,见伊奢那立于我前,世界连同生主们与因陀罗都望向我。
13.45.392
ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा ।
ततो मामब्रवीद्देवः पश्य कृष्ण वदस्व च ॥ १३.४५.३९२ ॥
当时我没有力量注视大神。于是神对我说:“看吧,克利须那,说吧。”
13.45.393
त्वया ह्याराधितश्चाहं शतशोऽथ सहस्रशः ।
त्वत्समो नास्ति मे कश्चित्त्रिषु लोकषु वै प्रियः ॥ १३.४५.३९३ ॥
你曾敬拜我数百次、数千次,三界之中没有人像你一样为我所爱。
13.45.394
शिरसा वन्दिते देवे देवी प्रीता ह्युमा तदा ।
ततोऽहमब्रुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः ॥ १३.४५.३९४ ॥
当以头顶礼敬神时,女神乌玛欢喜。于是我对梵天等诸神所赞颂的斯塔努说道。
13.45.395
नमोस्तु ते शाश्वत सर्वयोने ।
ब्राह्माधिपं त्वामृषयो वदन्ति।
तपश्च सत्वं च रजस्तमश्च ।
त्वामेव सत्यं च वदन्ति सन्तः ॥ १३.४५.३९५ ॥
向你致敬,永恒的一切之源!仙人称你为梵的主宰。苦行、善性、激情与暗性都是你;智者也称你为真理。
13.45.396
त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः ।
धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः ॥ १३.४५.३९६ ॥
你即是梵天、楼陀罗、伐楼那、火神、摩奴与婆婆。你也是持者、工巧者与造化者;你是面向一切方向的主宰。
13.45.397
त्वत्तो जातानि भूतानि स्थावराणि चराणि च ।
त्वया सृष्टमिदं कृत्स्नं त्रैलोक्यं सचराचरम् ॥ १३.४५.३९७ ॥
一切有情,动与不动,皆由你而生。这整个三界及其动与不动之物,皆由你所造。
13.45.398
यानीन्द्रियाणीह मनश्च कृत्स्नं ।
ये वायवः सप्ति तथैव चाग्नयः।
ये देवसंस्थास्तव देवताश्च ।
तस्मात्परं त्वामृषयो वदन्ति ॥ १३.४५.३९८ ॥
此间诸根与整个心意,七风与诸火,诸天的住所与你的神祇——因此诸仙称你为至上者。
13.45.399
वेदाश्च यज्ञाः सोमश्च दक्षिणा पावको हविः ।
यज्ञोपगं च यत्किंचिद्भगवांस्तदसंशयम् ॥ १३.४५.३९९ ॥
吠陀与祭祀,苏摩与布施,火与祭品,以及凡与祭祀相关的一切——世尊啊,那无疑就是你。
13.45.400
इष्टं दत्तमधीतं व्रतानि नियमाश्च ये ।
ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव तदर्पणी ॥ १३.४५.४०० ॥
祭祀、布施、诵习、誓愿与戒律,以及惭愧、名声、吉祥、光辉、满足与成就——这一切都奉献于他。
13.45.401
कामः क्रोधो भयं लोभो मदः स्तम्भोथ मत्सरः ।
आधयो व्याधयश्चैव भगवंस्तनवस्तव ॥ १३.४५.४०१ ॥
欲、怒、惧、贪、慢、傲与嫉,以及心中的忧苦与身体的疾病——世尊啊,这些也都是你的化身。
13.45.402
कृतिर्विकारः प्रणयः प्रधानं बीजमव्ययम् ।
मनसः परमा योनिः प्रभावश्चापि शाश्वतः ॥ १३.४५.४०२ ॥
行动、变化、爱慕、本初之质、不坏之种、心之至上胎藏,以及永恒的威力,皆是你。
13.45.403
अव्यक्तः पावनोऽचिन्त्यः सहस्रांशुर्हिरण्मयः ।
आदिर्गणानां सर्वेषां भवान्वैजीविताश्रयः ॥ १३.४५.४०३ ॥
你是未显者、清净者、不可思议者、千光者、金色者;你是一切群体之始,也是生命之所依。
13.45.404
महानात्मा मतिर्ब्रह्मा विश्वः शंभुः स्वयंभुवः ।
बुद्धिः प्रज्ञोपलब्धिश्चसंवित्ख्यातिर्धृतिः स्मृतिः ॥ १३.४५.४०४ ॥
大我、智性、梵天、遍一切、湿婆、自生者、觉性、智慧、领悟、觉知、名声、坚定与记忆——这些都是你的名字。
13.45.405
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते ।
त्वां बुद्ध्वा ब्राह्मणो वेदात्प्रमोहं विनियच्छति ॥ १३.४५.४०५ ॥
以同义之词来称谓大我;婆罗门认识了你,便依凭吠陀止息迷惑。
13.45.406
हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिस्तुतः ॥ १३.४५.४०६ ॥
你是一切众生之心,是知田者,被仙人赞颂。
13.45.407
सर्वतः पाणिपादस्त्वं सर्वतोक्षिशिरोमुखः ।
सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि ॥ १३.४५.४०७ ॥
你四面皆有手足,四面皆有眼、头与面;四面皆能听闻;你在世间屹立,遍覆一切。
13.45.408
फलं त्वमसि दिग्मांशोर्निमेषादिषु कर्मसु ।
त्वं वै प्रबार्चिः पुरुषः सर्वस्य हृदि संश्रितः।
अणिमा महिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ १३.४५.४०८ ॥
你是太阳(光线之主)的果实,存在于瞬息等一切行动之中。你是光焰四射的火焰,是安居于众生心中的原人。你是微小、广大、成就、主宰,是不灭的光明。
13.45.409
त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये ।
ध्यानिनो नित्ययोगाश्च सत्यसत्वा जितेन्द्रियाः ॥ १३.४५.४०९ ॥
智慧与思虑安住于你之中,那些皈依并依止于你的世界也是如此。禅修者、恒常修习瑜伽者、本性真实者、制伏诸根者,皆依止于你。
13.45.410
यस्त्वां ध्रुवं वेदयते गुहाशयं ।
प्रभुं पुराणं पुरुषं विश्वरूपम्।
हिरण्मयं बुद्धिमतां परां गतिं ।
स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ॥ १३.४५.४१० ॥
若有人确知你是居于洞穴之中的主宰、古老的原人、具有宇宙形相的、金色的、智者的至高归宿,那人便是智者;他超越于智者之上而立。
13.45.411
विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः ।
प्रधानविधियोगस्थस्त्वामेव विशते बुधः ॥ १३.४५.४११ ॥
智者已知七种微妙之理、六支,以及具体形相的你,安住于主要仪轨之瑜伽中,唯独进入于你。
13.45.412
एवमुक्ते मया पार्थ भवे चार्तिविनाशने ।
चराचरं जगत्सर्गं सिंहनादं तदाऽकरोत् ॥ १३.४५.४१२ ॥
阿周那啊,我如此说罢,为了世间的存续与苦难的消除,那时他创造了动与不动的世界,并发出狮吼。
13.45.413
तं विप्रसङ्घाश्च सुरासुराश्च ।
नागाः पिशाचाः पितरो वयांसि।
रक्षोगणा भूतगणाश्च सर्वे ।
महर्षयश्चैव तदा प्रणेमुः ॥ १३.४५.४१३ ॥
于是婆罗门众、天神与阿修罗、龙众、毕舍遮、祖灵、飞鸟、罗刹群、鬼神群,以及一切大仙,都向他俯身致敬。
13.45.414
मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम् ।
राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ ॥ १३.४५.४१४ ॥
天界芬芳的花朵堆积般落在我的头顶,一阵极为宜人的微风吹拂而过。
13.45.415
निरीक्ष्य भगवान्देवीं ह्युमां मां च जगद्धितः ।
शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शङ्करः ॥ १३.४५.४१५ ॥
世尊湿婆(Śaṅkara)既看了天后乌玛,又看了我,并看了因陀罗,便亲自对我说道。
13.45.416
विद्मः कृष्ण परां भक्तिमस्मासु तव शत्रुहन् ।
क्रियतामात्मनः श्रेयः प्रीतिर्हित्वयि मे परा ॥ १३.४५.४१६ ॥
克里希那,我们知道你对我们的至高虔诚。噢,摧敌者,为你自己的福祉而行吧;我对你的爱是至高的。
13.45.417
वृणीष्वाष्टौ वरान्कृष्ण दाताऽस्मि तव सत्तम ।
ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान् ॥ १३.४५.४१७ ॥
克里希那,请选择八种恩赐吧;善人中最善者,我便是赐予你的人。约都族的猛虎啊,请说出你所希求的那些极难获得的恩赐。