摩诃婆罗多 · 章 13.49
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.49.1
महायोगी तु तं प्राह कृष्णद्वैपायनो मुनिः ।
पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः ॥ १३.४९.१ ॥
大瑜伽士、仙人黑毗耶娑对他说:孩子,愿你吉祥,诵读吧;愿大自在天对你满意。
13.49.2
पुरा पुत्र मया मेरौ तप्यता परमं तपः ।
पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः ॥ १३.४९.२ ॥
孩子,往昔我在须弥山上修最上苦行,为求子嗣,大王,我曾咏唱此赞颂。
13.49.3
लब्धवानीप्सितं काममहं वै पाण्डुनन्दन ।
तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि ॥ १३.४९.३ ॥
般度之子啊,我得到了所求的愿望;同样,你也将从湿婆(Śarva)那里获得一切愿望。
13.49.4
कपिलश्च ततः प्राह साङ्ख्यर्षिर्देवसम्मतः ।
मया जन्मान्यनेकानि भक्त्या चाराधितो भवः।
प्रीतश्च भगवाञ्ज्ञानं ददौ मम भवान्तकम् ॥ १३.४९.४ ॥
随后,受诸神推崇的数论仙人迦毗罗说:我在许多次生命中以虔诚供奉婆婆(Bhava);世尊欢喜,赐予我终结轮回的智慧。
13.49.5
चारुशीर्षस्ततः प्राह शक्रस्य दयितः सखा ।
आलम्बायन इत्येवं विश्रुतः करुणात्मकः ॥ १३.४९.५ ॥
随后,帝释天(因陀罗)的爱友、以阿兰跋衍那之名著称的遍照首说道;他天性慈悲。
13.49.6
मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः ।
अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् ॥ १३.४९.६ ॥
我到达哥卡尔纳,修行了一百年,与非胎生者、自制者、知法者及光辉的人同在。
13.49.7
अजराणामदुःखानां शतवर्षसहस्रिणाम् ।
लब्धं पुत्र शतं शर्वात्पुरा पाण्डुनृपात्मज ॥ १३.४९.७ ॥
对于不老、无忧、寿达十万年的人们,哦,般度王之子,往昔曾从湿婆(Śarva)处获得一百个儿子。
13.49.8
वाल्मीकिश्चाह भगवान्युधिष्ठिरमिदं वचः ।
विवादे साग्निमुनिभिर्ब्रह्मघ्नो वै भवानिति ॥ १३.४९.८ ॥
尊贵的蚁垤(Vālmīki)对坚战说了这些话:在与火神和诸仙的争论中,你被称为杀害婆罗门者。
13.49.9
उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत ।
सोऽहमीशानमनघममोघं शरणं गतः ॥ १३.४९.९ ॥
哦,婆罗多的后裔!当这一切在一瞬间被宣告,我被那不义所缠,便投奔无罪、不误的伊莎那(Īśāna)寻求庇护。
13.49.10
मुक्तश्चास्मि ततः पापैस्ततो दुःखविनाशनः ।
आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति ॥ १३.४९.१० ॥
我于是脱离了罪恶;随后那消除苦难、摧毁三城者对我说:你的名声将是最崇高的。
13.49.11
जामदग्न्यश्च कौन्तेयमिदं धर्मभृतांवरः ।
ऋषिमध्ये स्थितः प्राह ज्वलन्निव दिवाकरः ॥ १३.४९.११ ॥
持守法(dharma)者中最杰出的雅玛达格尼(持斧罗摩)站在诸仙之中,光辉如太阳,对贡蒂之子说了这些话。
13.49.12
पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज ।
शुचिर्भूत्वा महादेवं गतोस्मि शरणं नृप ॥ १३.४९.१२ ॥
因杀害父亲与婆罗门而深受煎熬,哦,般度诸子的长兄;哦,国王,我洗净自己,便投奔大天(Mahādeva)寻求庇护。
13.49.13
नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः ।
परशुं च ततो देवो दिव्यान्यस्त्राणि चैव मे ॥ १३.४९.१३ ॥
我以诸名赞颂那位神,于是婆婆(湿婆)心生欢喜。随后,那位神赐予我一把斧头和神圣的兵器。
13.49.14
पापं च ते न भविता अजेयश्च भविष्यसि ।
न ते प्रभविता मृत्युरजरश्च भविष्यसि ॥ १३.४९.१४ ॥
罪过不会沾染你,你将是不可战胜的。死亡不能支配你,你将不会衰老。
13.49.15
आह मां भगवानेवं शिखण्डी शिवविग्रहः ।
तदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः ॥ १३.४९.१५ ॥
具湿婆之形的世尊尸金迪如此对我说;凭那位智者的恩典,我获得了这一切。
13.49.16
विश्वामित्रस्तदोवाच क्षत्रियोऽहं तदाऽभवम् ।
ब्राह्मणोऽहं भवानीति मया चाराधितो भवः।
तत्प्रसादान्मया प्राप्तं ब्राह्मण्यं दुर्लभं महत् ॥ १३.४९.१६ ॥
那时,毗什瓦弥多罗说:“那时我是刹帝利。我想成为婆罗门,便崇拜婆婆;凭他的恩典,我获得了难得的伟大婆罗门身份。”
13.49.17
असितो देवलश्चैव प्राह पाण्डुसुतं नृपम् ॥ १३.४९.१७ ॥
阿悉多与提婆罗也对般度之子国王说道。
13.49.18
शापाच्छक्रस्य कौन्तेय विभो धर्मोऽनशत्तदा ।
तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददत्प्रभुः ॥ १३.४९.१८ ॥
贡蒂之子啊,大力者啊,因因陀罗的诅咒,当时达摩已经消失;那位主宰赐予我达摩、名声和最上的寿命。
13.49.19
ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा ।
प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः ॥ १३.४९.१९ ॥
因陀罗所爱的朋友、名为格利察摩达的仙人对阿遮弥荼说话;这位尊者的光辉如同布利哈斯帕蒂。
13.49.20
वरिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः ।
शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके ॥ १३.४९.२० ॥
曹克舒摩之子、尊者跋力施陀,在不可思议的百祭主(因陀罗)的千年祭礼中。
13.49.21
वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया ।
रथन्तरे द्विजश्रेष्ठ न सम्यगिति वर्तते ॥ १३.४९.२१ ॥
仪式正在进行时,当我吟唱娑摩颂时,他说了这句话:“哦,再生者中的最优者,在罗陀檀陀罗中这并不正确。”
13.49.22
समीक्षस्व पुनर्बुद्ध्या पापं त्यक्त्वा द्विजोत्तम ।
अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते ॥ १३.४९.२२ ॥
哦,再生者中的最优者,舍弃罪过,再以智慧审视。哦,恶念者,你犯下了使人远离祭祀的罪过。
13.49.23
एवमुक्त्वा महाक्रोधः प्राह शम्भुं पुनर्वचः ।
प्रज्ञया रहितो दुःखी नित्यभीतो वनेचरः ॥ १३.४९.२३ ॥
说完这些,他大怒之下又对湿婆说了这些话:没有智慧、痛苦、时常恐惧、在林中游荡的人。
13.49.24
दशवर्षसहस्राणि दशाष्टौ च शतानि च ।
नष्टपानीयपवने मृगैरन्यैश्च वर्जिते ॥ १३.४९.२४ ॥
一万零一千八百年,在风吹之处,无水,为鹿及其他动物所避开。
13.49.25
अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते ।
भविता त्वं मृगः क्रूरो महादुःखसमन्वितः ॥ १३.४९.२५ ॥
在没有祭祀树木、有如鲁鲁鹿和狮子出没的地方,你将成为一只残暴的鹿,充满巨大的痛苦。
13.49.26
तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः ।
ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः ॥ १३.४९.२६ ॥
在那些话语应验之时,啊,普利塔之子,我化作鹿而生。那时,瑜伽士大自在天对前来求庇护的我说道。
13.49.27
अजरश्चामरश्चैव भविता दुखवर्जितः ।
साम्यं ममास्तु ते सौख्यं युवयोर्वर्धतां क्रतुः ॥ १३.४९.२७ ॥
你将不老不死,远离忧苦。愿你与我平等;愿你们二人的幸福与祭祀日益增长。
13.49.28
अनुग्रहानेवमेष करोति भगवान्विभुः ।
अयं धाता विधाता च सुखदुःखे च सर्वदा ॥ १३.४९.२८ ॥
如此,这位吉祥而遍在的主施予恩惠。他是创造者,也是安排者,并且总是赐予幸福与痛苦。
13.49.29
अचिन्त्य एष भगवान्कर्मणा मनसा गिरा ।
न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः ॥ १३.४९.२९ ॥
这位吉祥的主以行为、心意或言语都不可思议。亲爱的孩子,最优秀的般遮王子坚战,即便在学识上,我也不能与他相比。
13.49.30
वासुदेवस्तदोवाच पुनर्मतिमतांवरः ।
सुवर्णाक्षो महादेवस्तपसा तोषितो मया ॥ १३.४९.३० ॥
于是智者中最优秀的婆苏提婆又说道:金眼的大天神因我的苦行而欢喜。
13.49.31
ततोऽथ भगवानाह प्रीतो मा वै युधिष्ठिर ।
अर्थात्प्रियतरः कृष्ण मत्प्रसादाद्भविष्यसि ॥ १३.४९.३१ ॥
于是世尊欢喜地说:般度之子坚战啊,克里希纳啊,因我的恩典,你将比财富更为可爱。
13.49.32
अपराजितश्च युद्धेषु तेजश्चैवानलोपमम् ।
एवं सहस्रशश्चान्यान्महादेवो वरं ददौ ॥ १३.४९.३२ ॥
在战斗中不可战胜,拥有如火一般的光辉——如此,摩诃提婆又赐予了成千上万的其他恩惠。
13.49.33
मणिमन्थेऽथ शैले वै पुरा सम्पूजितो मया ।
वर्षायुतासहस्राणां सहस्रं शतमेव च ॥ १३.४९.३३ ॥
往昔,我在摩尼曼陀山上礼拜他,历经万万年,即千千又百年。
13.49.34
ततो मां भगवान्प्रीत इदं वचनमब्रवीत् ।
वरं वृणीष्व भद्रं ते यस्ते मनसि वर्तते ॥ १३.४९.३४ ॥
于是世尊欢喜地对我说:愿你吉祥,请选择一个恩赐,任何在你心中的愿望。
13.49.35
ततः प्रणम्य शिरसा इदं वचनमब्रवम् ।
यदि प्रीतो महादेवो भक्त्या परमया प्रभुः ॥ १३.४९.३५ ॥
于是我低头顶礼,说道:摩诃提婆啊,主啊,若您因我至上的虔诚而欢喜,
13.49.36
नित्यकालं तवेशान भक्तिर्भवतु मे स्थिरा ।
एवमस्त्विति भगवांस्तत्रोक्त्वान्तरधीयत ॥ १३.४९.३६ ॥
愿我对您的虔诚永远坚定,伊萨那啊。世尊说:就这样吧,随即便在那里消失了。
13.49.37
ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा ।
यत्नेनान्येन बलिना वाराणस्यां युधिष्ठिर ॥ १३.४९.३७ ॥
युधिष्ठिर啊,往昔在婆罗奈,世尊赐予我八种功德的威力;另一位强者则通过努力获得了它。
13.49.38
चतुःषष्ट्यङ्गमददत्कलाज्ञानं ममाद्भुतम् ।
सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव ॥ १३.४९.३८ ॥
般度之子啊,他在萨罗室伐底河岸对我的心灵祭祀感到满意,赐予我具有六十四支的奇妙技艺知识。
13.49.39
तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम् ।
आयुश्चैव सपुत्रस्य संवत्सरशतायुतम् ॥ १३.४९.३९ ॥
将有一千个与我相等、宣说梵的儿子;与儿子同在,我的寿命将是一万乘以一百年。
13.49.40
प्रसाद्येह पुरा शर्वं मनसाऽचिन्तयं नृप ।
महातपा महातेजा महायोगी महायशाः ॥ १३.४९.४० ॥
国王啊,往昔在此,我以祈祷使湿婆(Śarva)欢喜,心中思忖:大苦行者、大光辉者、大瑜伽士、大名望者。
13.49.41
वेदव्यासः श्रियावासो ब्राह्मणः करुणान्वितः ।
अप्यसावीप्सितः पुत्रो मम स्याद्वै महेश्वरात् ॥ १३.४९.४१ ॥
吠陀广博者(Vedavyāsa),吉祥之所,具慈悲的婆罗门——他会不会是我从大自在天(Maheśvara)那里所求的儿子呢?
13.49.42
इति मत्वा हृदि मतं प्राह मां सुरसत्तमः ।
मयि सम्भावना यास्याः फलात्कृष्णो भविष्यति ॥ १३.४९.४२ ॥
他心中如此思忖,知晓我的心意,诸天中最殊胜者对我说:由于寄托在我身上的期望之果,克里希那将会诞生。
13.49.43
सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति ।
वेदानां च स वै वक्ता कुरुवंशकरस्तथा ॥ १३.४९.४३ ॥
在萨瓦尔纳摩奴的创世之时,他将成为七仙之一;他将是宣说吠陀的人,也是建立俱卢族世系的人。
13.49.44
इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः ।
भविष्यति महेन्द्रस्य दयितः स महामुनिः ॥ १३.४९.४४ ॥
他将是《历史传说》的作者,作为你的儿子,他将对世界有益;这位大仙将为摩诃因陀罗所爱。
13.49.45
अजरश्चामरश्चैव पराशर सुतस्तव ।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत।
युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः ॥ १३.४९.४५ ॥
波罗奢罗,你的儿子将不老不死。说完这话,那位尊者便当场消失了。尤帝舍提啰,那位大瑜伽士将强有力、不坏、不变。
13.49.46
अचोरश्चोरशङ्कायां शूले भिन्नो ह्यहं तदा ॥ १३.४९.४६ ॥
我并非盗贼,却因被怀疑为盗贼,当时被刺穿在尖桩上。
13.49.47
तत्रस्थेन स्तुतो देवः प्राह मां वै नरेश्वर ।
मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम् ॥ १३.४९.४७ ॥
我留在那里赞颂他时,神对我说:"人主啊,你将从尖桩上获得解脱,并将活上亿年。"
13.49.48
रुजा शूलकृता चैव न ते विप्र भविष्यति ।
आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यति ॥ १३.४९.४८ ॥
婆罗门啊,尖桩所造成的痛苦不会落到你身上。你将摆脱心理的苦恼与身体的疾病。
13.49.49
पादाच्चतुर्थात्सम्भूत आत्मा यस्मान्मुने तव ।
त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु ॥ १३.४९.४९ ॥
哦,圣者,因你的我(阿特曼)生于第四分,你将无与伦比;使你的生命圆满有成。
13.49.50
तीर्थाभिषेकं सकलं त्वमविघ्नेन चाप्स्यसि ।
स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम् ॥ १३.४९.५० ॥
你将毫无阻碍地在所有圣渡口完成沐浴;哦,婆罗门,我赐予你不灭而伟大的天界。
13.49.51
एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः ।
महेश्वरो महाराजः कृत्तिवासा महाद्युतिः।
सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत ॥ १३.४९.५१ ॥
如此说完,那位吉祥而最尊贵的主宰——骑牛的大自在天、大王、披着兽皮、大光明的诸神之最,连同他的眷属,就在那里隐没了。
13.49.52
विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः ।
अब्रवीन्मां ततो माता दुःखिता रुदती भृशम् ॥ १३.४९.५२ ॥
得到毗奢蜜多罗的允许,我回到了父亲那里;那时,悲伤而痛哭的母亲对我说。
13.49.53
कौशिकेनाभ्यनुज्ञातं पुत्रं देवविभूषितम् ।
न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ ॥ १३.४९.५३ ॥
孩子啊,你得到了憍尸迦的允许,装饰得如同神明;父亲看不见你了,亲爱的——你年轻而自持,无过之人啊。
13.49.54
श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने ।
नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम् ॥ १३.४९.५४ ॥
听了母亲的话,对于再见老师已经绝望,我以自持的心见到了大天;他对我说道。
13.49.55
पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः ।
भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये ॥ १३.४९.५५ ॥
父亲、母亲和你,儿子,将免于死亡。快快进入,在那住所你将见到父亲。
13.49.56
अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर ।
अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम्।
उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाकुरून् ॥ १३.४९.५६ ॥
得到尊者的允许,我回到家中,坚战啊。亲爱的,我看见父亲完成祭祀后走出来;漱口之后,取了柴薪、吉祥草和护身的阿库罗草。
13.49.57
तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः ।
प्रणमन्तं परिष्वज्य मूर्ध्न्युपाघ्राय पाण्डव ॥ १३.४९.५७ ॥
放下它们,父亲泪眼朦胧地对我说。他拥抱正在叩拜的我,亲吻我的头顶,般度之子啊。
13.49.58
दिष्ट्या दृष्टोसि मे पुत्र कृतविद्य इहागत ॥ १३.४९.५८ ॥
幸运地我见到了你,孩子——你完成学业来到了这里。
13.49.59
एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः ।
प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः ॥ १३.४९.५९ ॥
众仙人讲述了这位大心者的极其奇妙的事迹;般度之子听后惊讶不已。
13.49.60
ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतांवरः ।
युधिष्ठिरं धर्मनिधिं पुरुहूतमिवेश्वरः ॥ १३.४९.६० ॥
于是智者中最优秀的黑天再次对法之宝藏坚战说话,如主对补卢呼多(因陀罗)说话一般。
13.49.61
उपमन्युर्मयि प्राह तपन्निव दिवाकरः ।
अशुभैः पापकर्माणो ये नराः कलुषीकृताः ॥ १३.४९.६१ ॥
光辉如太阳的优婆摩牟尼对我说:那些被不吉祥和罪恶行为所玷污的人——
13.49.62
ईशानं न प्रपद्यन्ते तमोराजसवृत्तयः। ॥ १३.४९.६२ ॥
性情被黑暗与激情主导的人,不会皈依自在者伊until。
13.49.63
ईश्वरं सम्प्रपद्यन्ते द्विजा भावितभावनाः ॥ १३.४९.६३ ॥
心念已被修养净化的再生者,完全皈依自在者。
13.49.64
सर्वथा वर्तमानोपि यो भक्तः परमेश्वरे ।
सदृशोऽरण्यवासीनां मुनीनां भावितात्मनाम् ॥ १३.४९.६४ ॥
无论以何种方式生活,若虔诚于至高主宰,便与住在林中、心灵清净的牟尼相同。
13.49.65
ब्रह्मत्वं केशवत्वं वा शक्रत्वं वा सुरैः सह ।
त्रैलोक्यस्याधिपत्यं वा तुष्टो रुद्रः प्रयच्छति ॥ १३.४९.६५ ॥
梵天之位、毗湿奴之位,或与诸天同列的因陀罗之位,或三界的主宰权——这些都由喜悦的楼陀罗所赐予。
13.49.66
मनसाऽपि शिवं तात ये प्रपद्यन्ति मानवाः ।
विधूय सर्वपापानि देवैः सह वसन्ति ते ॥ १३.४९.६६ ॥
孩子啊,即便只是心中皈依湿婆的人,抖落一切罪恶后,便与诸天同住。
13.49.67
भित्त्वाभित्त्वा च कूलानि हुत्वा सर्वमिदं जगत् ।
जयेद्देवं विरूपाक्षं न स पापेन लिप्यते ॥ १३.४९.६७ ॥
若有人反复切开河岸,以此整个世界为祭品,并战胜了三目神毗卢般叉(湿婆),他便不会被罪恶所染。
13.49.68
सर्वलक्षणहीनोपि युक्तो वा सर्वपातकैः ।
सर्वं तुदति तत्पापं भावयञ्शिवमात्मना ॥ १३.४९.६८ ॥
纵然缺乏一切吉相,或染有一切大罪,若以内心观想湿婆,便能驱除所有这些罪过。
13.49.69
कीटपक्षिपतङ्गानां तिरश्चामपि केशव ।
महादेवप्रपन्नानां न भयं विद्यते क्वचित् ॥ १३.४९.६९ ॥
keśava啊,即便是昆虫、鸟类、飞蛾和走兽,凡皈依大天(湿婆)者,无处不无恐惧。
13.49.70
एवमेव महादेवं भक्ता ये मानवा भुवि ।
न ते संसारवशगा इति मे निश्चिता मतिः।
ततः कृष्णोऽब्रवीद्वाक्यं धर्मपुत्रं युधिष्ठिरम् ॥ १३.४९.७० ॥
同样,世间那些虔敬大天(湿婆)的人,不受轮回所支配,这是我坚定的看法。于是克里希那对法之子坚战说了这些话。
13.49.71
आदित्यचन्द्रावनिलानलौ च ।
द्यौर्भूमिरापो वसवोऽथ विश्वे।
धाताऽर्यमा शुक्रबृहस्पती च ।
वेदा यज्ञा दक्षिणा वेदवाहाः। ॥ १३.४९.७१ ॥
日与月,风与火,天空、大地与水,诸婆苏与众世界神,生主(Dhātṛ)与阿耶曼,金星(Śukra)与木星(Bṛhaspati),吠陀,祭祀,祭礼布施,以及吠陀的承载者。
13.49.72
सोमो यष्टा यच्च हव्यं हविश्च ।
रक्षा दीक्षा संयमा ये च केचित् ॥ १३.४९.७२ ॥
苏摩,祭祀者,供品与献礼,护卫,灌顶礼,克己自制,以及其余一切。
13.49.73
स्वाहा वौषट् ब्राह्मणाः सौरभेयी ।
धर्मं चाग्र्यं कालचक्रं बलं च।
यशो दमो बुद्धिमतां स्थितिश्च ।
शुभाशुभं ये मुनयश्च सप्त ॥ १३.४९.७३ ॥
娑訶、婆沙,婆羅門,娑羅婆耶(如意牛),至上的法,時輪,力量與名聲;智者的自制與堅定;善與惡,以及七位仙人。
13.49.74
अग्र्या बुद्धिर्मनसा दर्शने च ।
स्पर्शश्चाग्र्यः कर्मणां या च सिद्धिः।
गणा देवानामूष्मपाः सोमपाश्च ।
लेखाः सुयामास्तुषिता ब्रह्मकायाः ॥ १३.४९.७४ ॥
最上的智慧,以心意與見識;最上的觸覺與諸業的成就;諸天的眾群——熱食者與飲蘇摩者;列卡、蘇亞瑪、圖希達,其身即梵。
13.49.75
आभासुरा गन्धपा धूमपाश्च ।
वाचा विरुद्धाश्च मनोविरुद्धाः।
शुद्धाश्च निर्माणरताश्च देवाः ।
स्पर्शाशना दर्शपा आज्यपाश्च ॥ १३.४९.७५ ॥
光明神(Ābhāsura),飲香者與飲煙者;言語相違與心意相違者;喜好創造的清淨諸天;以觸為食者、飲 darśa 者與飲酥油者。
13.49.76
चिन्त्यद्योता ये च देवेषु मुख्या ।
ये चाप्यन्ते देवताश्चाजमीढ।
सुपर्णगन्धर्वपिशाचदानवा ।
यक्षास्तथा चारणपन्नगाश्च ॥ १३.४९.७६ ॥
其光明值得觀想者,諸天中之主要者,以及最後被稱為神明者——啊,阿遮彌陀!娑波那、乾闥婆、毘舍遮與檀那婆;夜叉、遮羅那與蛇神亦然。
13.49.77
स्थूलं सूक्ष्मं मृदु चाप्यसूक्ष्मं ।
दुःखं सुखं दुःखमनन्तरं च।
साङ्ख्यं योगं तत्पराणां परं च ।
शर्वाञ्जातं विद्धि य ॥ १३.४९.७७ ॥
粗與細、柔與非細;苦、樂,以及其後之苦;數論與瑜伽,及專注於其中者之至上;應知一切所生者。
13.49.78
तत्सम्भूता भूतकृतो वरेण्या ।
सर्वे देवा भुवनस्यास्य गोपाः।
आविश्येमां धरणीं येऽभ्यरक्षन् ।
पुरातनीं तस्य देवस्य सृष्टिम् ॥ १३.४९.७८ ॥
他所生的、创造众生的诸位尊贵之神,都是这个世界的守护者;他们进入这片大地,守护了那位神的古老creation。
13.49.79
विचिन्वन्तस्तपसा तत्स्थवीयः ।
किञ्चित्तत्त्वं प्राणहेतोर्नतोस्मि।
ददातु वेदः स वरानिहेष्टा-
नभिष्टुतोः नः प्रभुरव्ययः सदा ॥ १३.४९.७९ ॥
向以苦行寻求者致敬,向在其中最为稳固者致敬,为了生命,我向某种真理叩拜。愿那不灭的主恒常赐予我们这些赞颂他的人吠陀与此间所求的恩典。
13.49.80
इमं स्तवं सन्नियतेन्द्रियश्च ।
भूत्वा शुचिर्यः पुरुषः पठेत।
अभग्नयोगो नियतो मासमेकं ।
सम्प्राप्नुयादश्वमेधे फलं यत् ॥ १३.४९.८० ॥
若人以善摄诸根、清净身心、不断修持瑜伽,持诵此赞一月,便能获得马祭所得的果报。
13.49.81
वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयात्तु ।
जयेन्नृपः पार्थ महीं च कृत्स्नाम्।
वैश्यो लाभं प्राप्नुयान्नैपुणं च ।
शूद्रो गतिं प्रेत्य तथा सुखं च ॥ १३.४९.८१ ॥
婆罗门应获得全部吠陀;啊,普利塔之子,国王应征服整个大地。吠舍应获得利益与技能;首陀罗死后,则获得归宿与安乐。
13.49.82
स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः ।
सर्वदोषापहं पुण्यं पवित्रं च यशस्विनः ॥ १३.४९.८२ ॥
既作此颂中之王,他们便将心念专注于鲁陀罗;此颂能除一切过失,有功德,能清净,为有名望者所用。
13.49.83
यावन्त्यस्य शरीरेषु रोमकूपाणि भारतः ।
तावन्त्यब्दसहस्राणि स्वर्गे वसति मानवः ॥ १३.४९.८३ ॥
婆罗多啊,他身上有多少毛孔,人便在天上居住多少千年。