Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.51

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.51.1

अथ सा स्त्री तमुवाच विप्रमेवं भवत्विति ।
तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् ॥ १३.५१.१ ॥

那女子对婆罗门说:“就这样吧。”她取来神圣的油,拿来了浴衣。

13.51.2

अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना ।
अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षत ॥ १३.५१.२ ॥

得到那位大德仙人的许可后,那女子便用油涂抹他全身的每个部位。

13.51.3

शनैश्चाच्छादितस्तत्र स्नानशालामुपागमत् ।
भद्रासनं ततश्चित्रमृषिरन्वगमन्नवम् ॥ १३.५१.३ ॥

他用布遮盖着身体,慢慢地走到那里的浴室;然后,仙人跟随着一个新的、奇妙的吉祥座位。

13.51.4

अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा ।
स्नापयामास शनकैस्तमृषिं सुखहस्तवत्।
दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा ॥ १३.५१.४ ॥

当他坐在那个吉祥的座位上时,她用温柔的双手慢慢地为那位仙人沐浴,并按照规定为仙人完成了神圣的侍奉和应有的礼仪。

13.51.5

जलेन सुसुखोष्णेन तस्या हस्तसुखेन च ।
व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः ॥ १३.५१.५ ॥

在那温暖宜人的水和她温柔的双手之中,这位大誓戒者竟不知整个夜晚已经过去。

13.51.6

तत उत्थाय स मुनिस्तदा परमविस्मितः ।
पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि ॥ १३.५१.६ ॥

于是那位仙人大为惊讶地起身,看见东方天空中已升起的太阳。

13.51.7

सन्ध्योपासनमित्येव सर्वपापहरं न मे ।
तस्य बुद्धिरियं किन्तु मोहस्तत्त्वमिदं भवेत् ॥ १३.५१.७ ॥

黄昏礼拜能消除一切罪恶,对我而言并非如此。他的想法如此,但这将是迷妄,而非真理。

13.51.8

अथोपास्य सहस्रांशुं किं कोरमीत्युवाच ताम् ।
सा चामृतरसप्रख्यं क्रषेरन्नमुपाहरत् ॥ १३.५१.८ ॥

随后他礼拜千光之神,问她:“我该做什么?”她为仙人带来了如甘露精华般的食物。

13.51.9

तस्य स्वादुतयाऽन्नस्य न प्रभूतं चकार सः ।
व्यगमच्चाप्यहःशेष ततः सन्ध्याऽऽगमत्पुनः ॥ १३.५१.९ ॥

因为那食物的甘美,他没有吃多少。白天的剩余时间也过去了,然后黄昏又到了。

13.51.10

अथ सा स्त्री भगवन्तं सुप्यतामित्यचोदयत् ।
तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते ॥ १३.५१.१० ॥

于是那女子催促尊者道:“请安睡吧。”在那为他和她预备的神圣床榻上。

13.51.11

पृथक्र्वैव तथा सुप्तौ सा स्त्री स च मुनिस्तदा ।
तथाऽर्थरात्रे सा स्त्री तु शयनं तदुपागमत् ॥ १३.५१.११ ॥

两人分开而睡——那女子与那位仙人当时如此。于是半夜,那女子走近了那张床榻。

13.51.12

न भद्रे परदारेषु मनो मे सम्प्रसज्जति ।
उत्तिष्ठ भद्रे भद्रं ते स्वापं वै विरमस्व च ॥ १३.५१.१२ ॥

善良的女子啊,我的心不会贪恋他人之妻。起来吧,善良的女子,愿你平安,别再睡了。

13.51.13

सा तदा तेन विप्रेण तथा धृत्या निवर्तिता ।
स्वतन्त्राऽस्मीत्युवाचर्षिं न धर्मच्छलमस्ति ते ॥ १३.५१.१३ ॥

那时,她被这位婆罗门如此坚定地拒绝,便对仙人说:我是自由的;你身上没有以法为借口的诡计。

13.51.14

नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः ।
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति ॥ १३.५१.१४ ॥

女人没有独立;女人确实是依附的。这是生主的观点;女人不配享有独立。

13.51.15

बाधने मैथुनं विप्र मम भक्तिं च पश्य वै ।
अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि ॥ १३.५१.१५ ॥

婆罗门啊,在阻碍中行房;也请看看我的虔诚。婆罗门啊,你不接纳我,便会招来非法。

13.51.16

हरन्ति दोषजातानि नरमिन्द्रियकिङ्करम् ।
प्रभवामि सदा धृत्या भद्रे स्वशयनं व्रज ॥ १३.५१.१६ ॥

各种过失都会卷走那些作感官奴仆的人。我始终能以坚定自持;善良的女子啊,回你自己的床上去吧。

13.51.17

शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि ।
भूमौ निपतमानायाः शरणं भव मेऽनघ ॥ १३.५१.१७ ॥

婆罗门啊,我低头行礼;你值得施予恩惠。无过之人啊,在我倒向地面时请做我的庇护。

13.51.18

यदि वा दोषजातं त्वं परदारेषु पश्यसि ।
आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज ॥ १३.५१.१८ ॥

若你在他人之妻身上看见这样的过失,那么今天我便把自己献给你的触碰;再生者啊,请握住我的手。

13.51.19

न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम् ।
स्वतन्त्रां मां विजानीहि यो धर्मः सोस्तु वै मयि।
त्वय्यावेशितचित्ता च स्वतन्त्राऽस्मि भजस्व माम् ॥ १३.५१.१९ ॥

此中不会有过失,我以真实说这话。请知道我是自由的;凡是法,也愿它在我之中。我的心已专注于你,我是自由的;请享用我。

13.51.20

स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै ।
नास्ति त्रिलोके स्त्री काचिद्या वै स्वातन्त्र्यमर्हति ॥ १३.५१.२० ॥

善女啊,你怎么是自由的?请说明其中的缘由。三界之中,没有哪个女子配得上自由。

13.51.21

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति।
न वृद्धामक्षतां मन्ये च चेच्छा त्वयि मेऽनघे ॥ १३.५१.२१ ॥

童年由父亲保护,青年由丈夫保护,老年由儿子保护;女子不配得到自由。无过之人啊,我不认为年老的女子是完好无损的;若我心中对你有所愿望……

13.51.22

कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः ।
पत्नीं कुरुष्व मां विप्र श्रद्धां विजहि मा मम ॥ १३.५१.२२ ॥

我自幼持守梵行,无疑我仍是处女。婆罗门啊,请娶我为妻;不要舍弃对我的信任。

13.51.23

यथा मम तथा तुभ्यं यथा तुभ्यं तथा मम ।
जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत् ॥ १३.५१.२३ ॥

我的如何,你的也如何;你的如何,我的也如何。圣人的这一疑问,难道真会成为障碍吗?

13.51.24

आश्चर्यं परमं हीदं किन्नु श्रेयो हि मे भवेत् ।
दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता ॥ १३.५१.२४ ॥

这真是至大的奇事。此后我将得到什么福祉呢?这位身着天界饰物与衣裳的少女,已来到我的面前。

13.51.25

किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः ।
कन्यारूपमिहाद्यैवं किमिवात्रोत्तरं भवेत् ॥ १३.५१.२५ ॥

然而她先前的上好形貌已经衰老,如何又变成这样?此刻她在这里以少女之形显现,这是怎么回事?其答案又会是什么?

13.51.26

यथा मे परमा शक्तिर्न व्युत्थाने कथंचन ।
न रोचते हि व्युत्थानं सत्येनासादयाम्यहम् ॥ १३.५१.२६ ॥

我的至上之力并不在于任何起身(动摇)之中,起身也并不令我愉悦,因此我借真实而获得它。