摩诃婆罗多 · 章 13.53
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.53.1
वैश्ययोन्यां समुत्पन्नाः शूद्रयोन्यां तथैव च ।
ब्रह्मर्षय इति प्रोक्ताः पुराणि द्विजसत्तमाः ॥ १३.५३.१ ॥
在往世书中,出生于吠舍之胎与首陀罗之胎者,也被称为梵仙,诸位再生者中的最优秀者啊。
13.53.2
कथमेतन्महाराज तत्त्वं शंसितुमर्हसि ।
विरुद्धमिह पश्यामि वियोनौ ब्राह्मणो भवेत् ॥ १३.५३.२ ॥
大王啊,您应如何阐明此理?我看到这里有矛盾:出生于不当之胎的人,怎能成为婆罗门?
13.53.3
अलं कौतूहलेनात्र निबोध त्वं युधिष्ठिर ।
शुभेतरं शुभं वाऽपि न चिन्तयितुमर्हसि ॥ १३.५३.३ ॥
此事不必多问,尤地施提罗,你应当领会。善或不善,你不应加以思量。
13.53.4
ईशन्त्यात्मन इत्येते गतिश्चैषां न सञ्जते ।
ब्रह्मभूयांस इत्येव ऋषयः श्रुतिचोदिताः ॥ १३.५३.४ ॥
他们自主其身,其道不受阻碍;这些受吠陀启示的仙人,被称为梵最为充盈者。
13.53.5
निन्द्या न चैते राजेन्द्र प्रमाणं हि प्रमाणिनाम् ।
लोकोऽनुमन्यते चैतान्प्रमाणं ह्यत्र वै तपः ॥ १३.५३.५ ॥
王中之王啊,这些人不应受责难,因为对有权威者而言,他们正是权威;世人接受他们,而此处的权威实乃苦行。
13.53.6
एवं महात्मभिस्तात तपोज्ञानसमन्वितैः ।
प्रवर्तितानि कार्याणि प्रमाणान्येव सत्तम ॥ १३.५३.६ ॥
如此,由具备苦行与智慧的大德所推动的诸般作为,确实具有权威,亲爱的孩子,人中最优秀者啊。
13.53.7
भार्याश्चतस्रो राजेन्द्र ब्राह्मणस्य स्वधर्मतः ।
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च भरतर्षभ ॥ १३.५३.७ ॥
啊,王中之王,婆罗多族之牛,婆罗门依其本分有四位妻子:婆罗门女、刹帝利女、吠舍女和首陀罗女。
13.53.8
राज्ञां तु क्षत्रिया वैश्या शूद्रा च भरतर्षभ ।
वैश्यस्य वैश्या विहिता शूद्रा च भरतर्षभ ॥ १३.५३.८ ॥
婆罗多族之牛啊,对于国王,规定的妻子是刹帝利女、吠舍女和首陀罗女;对于吠舍,规定的妻子是吠舍女和首陀罗女。
13.53.9
शूद्रस्यैका स्मृता भार्या प्रतिलोमे तु सङ्करः ।
शूद्रायास्तु नरश्रेष्ठ चत्वारः पतयः स्मृताः ॥ १३.५३.९ ॥
首陀罗只有一位妻子,逆序则产生混血之子。人中之最啊,首陀罗女有四位丈夫。
13.53.10
वर्णोत्तमायास्तु पतिः सवर्णस्त्वेक एव सः ।
द्वौ क्षत्रियाया विहितौ ब्राह्मणः क्षत्रियस्तथा ॥ १३.५३.१० ॥
对于最高种姓的女子,丈夫只能是同种姓的一人;对于刹帝利女,规定有两位丈夫:婆罗门和刹帝利。
13.53.11
वैश्यायास्तु नरश्रेष्ठ विहिताः पतयस्त्रयः ।
सवर्णः क्षत्रियश्चैव ब्राह्मणश्च विशाम्पते ॥ १३.५३.११ ॥
人中之最啊,对于吠舍女,规定有三位丈夫:同种姓者、刹帝利和婆罗门。民之主啊!
13.53.12
एवंविधिमनुस्मृत्य ततस्ते ऋषिभिः पुरा ।
उत्पादिता महात्मानः पुत्रा ब्रह्मर्षयः पुरा ॥ १३.५३.१२ ॥
于是他们记起这样的规则,古时仁人的圣仙生育了伟大的梵仙之子。
13.53.13
पुराणाभ्यामृषिभ्यां तु मित्रेण वरुणेन च ।
वसिष्ठोऽथ तथाऽगस्त्यो बर्हिषव्यस्तथैव च ॥ १३.५३.१३ ॥
古老的两位仙人弥陀罗与伐楼那生下了婆私吒、阿伽斯提耶和跋利希沙婆耶。
13.53.14
कक्षीवानार्ष्टिषेणश्च पुरुषः कष एव च ।
मामतेयस्य वै पुत्रा गौतमश्चात्मजाः स्मृताः ॥ १३.५३.१४ ॥
迦刹婆婆、阿利瑟提舍那、补卢沙与迦沙被记为摩摩提耶之子,也被视为瞿昙之子。
13.53.15
वत्सप्रियश्च भगवान्स्थूलरश्मिस्तथाक्षणिः ।
गौतमस्यैव तनया ये दास्यां जनिता ह्युत ॥ १३.५३.१५ ॥
婆磋普利耶、尊者粗光与阿叉尼,是瞿昙本人之子,由一名婢女所生。
13.53.16
कपिञ्जलादो ब्रह्मर्षिश्चाण्डाल्यामुदपद्यत ।
वैनतेयस्तथा पक्षी तुर्यायां च वसिष्ठतः ॥ १३.५३.१६ ॥
梵仙迦頻遮罗陀生于旃陀罗女子,婆私吒由第四位妻子生下了鸟类毗纳提耶。
13.53.17
प्रसादाच्च वसिष्ठस्य शुक्लाभ्युपगमेन च ।
अदृश्यन्त्याः पिता वैश्यो नाम्ना चित्रमुखः पुरा।
ब्राह्मणत्वमनुप्राप्तो ब्रह्मर्षित्वं च कौरव ॥ १३.५३.१७ ॥
凭借婆私吒的恩惠与白色的结合,阿德利什延蒂之父名为旃特拉穆卡的吠舍,往昔获得了婆罗门身份与梵仙之位,俱卢之子啊。
13.53.18
वैश्यश्चित्रमुखः कन्यां वसिष्ठतनयस्य वै ।
शुभां प्रादाद्यतो जातो ब्रह्मर्षिस्तु पराशरः ॥ १३.५३.१८ ॥
吠舍旃特拉穆卡将其吉祥的女儿嫁给婆私吒之子,她生下了梵仙波罗奢罗。
13.53.19
तथैव दाशकन्यायां सत्यवत्यां महानृषिः ।
पराशरात्प्रसूतश्च व्यासो योगमयो मुनिः ॥ १३.५३.१९ ॥
同样,伟大的仙人波罗舍罗使渔家女萨谛耶跋帝生下了以瑜伽为本性的圣者毗耶娑。
13.53.20
विभण्डकस्य मृग्यां च तपोयोगात्मको मुनिः ।
ऋस्यशृङ्गः समुत्पन्नो ब्रह्मचारी महायशाः ॥ १३.५३.२० ॥
从毗檀陀迦的母鹿中生出了以苦行与瑜伽为本性的圣者鹿角仙,他是梵行者,大名远扬。
13.53.21
शार्ङ्ग्यां च मन्दपालस्य चत्वारो ब्रह्मवादिनः ।
जाता ब्रह्मर्षयः पुण्या यैः स्तुतो हव्यवाहनः ॥ १३.५३.२१ ॥
从曼达帕拉之妻沙尔额伊中生出四位梵言者、清净的梵仙,他们赞颂了献供之火阿耆尼。
13.53.22
द्रोणश्च स्तम्बमित्रश्च सारिसृक्वश्च बुद्धिमान् ।
जरितारिश्च विख्यातश्चत्वारः सूर्यसन्निभाः ॥ १३.५३.२२ ॥
德罗纳、斯坦巴弥special、萨里斯里克伐,以及智慧的耆里多梨,这四位名声远扬者如太阳般光辉。
13.53.23
महर्षेः कालवृक्षस्य शकुन्त्यामेव जज्ञिवान् ।
हिरण्यहस्तो भगवान्महर्षिः काञ्चनप्रभः ॥ १३.५३.२३ ॥
伟大的仙人迦罗跋栗刹从沙恭多中生出了尊贵的金手仙,他是金光闪耀的大仙。
13.53.24
पावकात्तात सम्भूता मनसा च महर्षयः ।
पितामहस्य राजेन्द्र पुरस्त्यपुलहादयः ॥ १३.५३.२४ ॥
亲爱的,从火与祖父(梵天)的意念中诞生了伟大的仙人,如补羯娑、补罗诃等,啊,王中之王。
13.53.25
सावर्ण्यश्चापि राजर्षिः सवर्णायामजायत ।
मृण्मय्यां भरतश्रेष्ठ आदित्येन विवस्वता ॥ १३.५३.२५ ॥
萨瓦尔尼亚也是一位王仙,由萨瓦尔纳所生。婆罗多中最优秀者啊,他在泥塑像中由太阳神毗婆娑特所生。
13.53.26
शाण्डिल्यश्चाग्नितो जातः कश्यपस्याग्रजः प्रभुः ।
शरद्वतः शरस्तम्बात्कृपश्व कृपया सह ॥ १३.५३.२६ ॥
尸陀利耶由火所生;他是迦叶波的长兄,也是主宰。从沙拉德瓦特,从一丛芦苇中,生出了克里帕,与克里皮一同诞生。
13.53.27
पद्माश्च जज्ञे राजेन्द्र सोस्यपस्य महात्मनः ।
रेणुश्च रेणुका चैव राममाता यशस्विनी ॥ १३.५३.२७ ॥
诸王之主啊,帕德玛们诞生了;她们是那位大智者的后代。雷努与雷努卡也诞生了——声名远播的雷努卡,罗摩之母。
13.53.28
समुनायाः समुद्भूतः सोमकेन महात्मना ।
अर्कदन्तो महानृषिः प्रथितः पृथिवीतले ॥ १३.५३.२८ ॥
萨穆那由大智者索摩迦所生育。大仙阿尔卡丹塔名扬大地之上。
13.53.29
अग्नेराहवनीयाच्च द्रुपदस्येन्द्रवर्चसः ।
धृष्टद्युम्नश्च सम्भूतो वेद्यां कृष्णा च भारत ॥ १३.५३.२९ ॥
从阿诃婆尼耶圣火、从如因陀罗般光辉的德鲁帕达的祭祀中,生出了德里什塔笃姆那;婆罗多啊,从祭坛中生出了黑公主。
13.53.30
व्याघ्रयोन्यां ततो जाता वसिष्ठस्य महात्मनः ।
एकोनविंशतिः पुत्राः ख्याता व्याघ्रपदादयः ॥ १३.५३.३० ॥
随后,从一只母虎的胎中,大仙婆悉瑟吒生下十九个儿子,他们以毗耶伽罗跋陀等名称闻名。
13.53.31
मन्धश्च बादलोमस्च जावालिश्च महानृषिः ।
मन्युश्चैवोपमन्युश्च सेतुकर्णस्तथैव च।
एते चान्ये च विख्याताः पृथिव्यां गोत्रतां गताः ॥ १३.५३.३१ ॥
曼陀、巴达罗摩、大仙贾巴利、摩尼由和优婆摩尼由,以及塞图迦尔纳;他们及其他名闻大地者,成为了种姓(gotra)的始祖。
13.53.32
विश्वकाशस्य राजर्षेरैक्ष्वाकोस्तु महात्मनः ।
बालाश्वो नाम पुत्रोऽभूच्छिखां भित्त्वा विनिस्सृतः ॥ १३.५३.३२ ॥
伊刹婆迦族的大王仙毗首迦湿(Viśvakāśa)之子名叫婆罗湿婆(Bālāśva),他劈开头顶的发髻而出生。
13.53.33
मान्धाता चैव राजर्षिर्युवनाश्वेन धीमता ।
स्वयं धृतोऽथ गर्भेण दिव्यास्त्रबलसंयुतः ॥ १३.५३.३३ ॥
王仙曼陀多(Māndhātā)由智慧的游婆那濕婆(Yuvanāśva)亲自怀于腹中;他具足神奇兵器之力。
13.53.34
गौरिकश्चापि राजर्षिश्चक्रवर्ती महायशाः ।
बाहुदायां समुत्पन्नो नद्यां राज्ञा सुबाहुना ॥ १३.५३.३४ ॥
大名鼎鼎的转轮圣王、王仙高利迦(Gaurika)也在婆呼陀河中由国王苏婆呼(Subāhu)所生。
13.53.35
भूमेश्च पुत्रो नरकः संवर्तश्चैव पुष्कलः ।
अद्भिश्चैव महातेजा ऋषिर्गार्ग्योऽभ्यजायत ॥ १३.५३.३५ ॥
地母之子那罗迦(Naraka)、桑伐尔多(Saṃvarta)和普什迦罗(Puṣkala);以及从水中所生的大光明仙人伽尔迦(Gārgya)。
13.53.36
एते चान्ये च बहवो राजन्या ब्राह्मणास्तथा ।
प्रभावेनाभिसम्भूता महर्षीणां महात्मनाम्।
नासाध्य तपसा तेषां विद्ययाऽऽत्मगुणैः परैः ॥ १३.५३.३६ ॥
这些人以及其他众多王族与婆罗门,皆由大德大仙的威力而生;对他们而言,凭借苦行、学问与卓越的内在德性,没有什么是不可成就的。
13.53.37
अस्मिन्नर्थे च मनुना नीतः श्लोको नराधिप ।
धर्मं प्रणयता राजंस्तं निबोध युधिष्ठिर ॥ १३.५३.३७ ॥
人主युधिष्ठिर啊!关于此事,传dharma的摩奴说过一首颂。大王,请听其义。
13.53.38
ऋषिणां च नदीनां च साधूनां च महात्मनाम् ।
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ १३.५३.३८ ॥
仙人、河流、善人与大德之人的起源,不可探求;女人与恶行的起源,也不应探求。
13.53.39
तन्नात्र चिन्ता कर्तव्या महर्षीणां समुद्भवे ।
यथा सर्वगतो ह्यग्निस्तथा तेजो महात्मसु ॥ १३.५३.३९ ॥
故不应为大仙之生起而忧虑;如火遍在一切,大德之人中亦有此光明。