摩诃婆罗多 · 章 13.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.58.1
श्रुतं नराणां चापल्यं परस्त्रीषु प्रजायताम् ।
प्रमदानां तु चापल्ये दोषमिच्छामि वेदितुम् ॥ १३.५८.१ ॥
我听说过男子对他人之妻的放纵,但我想知道女子放纵之中所含的过失。
13.58.2
एकवर्णे विदोषं तु गमनं पूर्वकालिकम् ।
धाता च समनुज्ञातो विष्णुना तत्तथाऽकरोत् ॥ १३.५८.२ ॥
同一种姓之内的结合自古以来便无过失,造物主得到毗湿奴的允许,便如此安排了。
13.58.3
भगलिङ्गे महाप्राज्ञ पूर्वमेव प्रजापतिः ।
ससर्ज ताभ्यां संयोगमनुज्ञातश्चकार सः ॥ १३.५८.३ ॥
大智者啊,往昔生主为阴与阳创造了结合,并在得到允许后如此确立了它。
13.58.4
अथ विष्णुप्रसादेन भगो दत्तवरः किल ।
तेन चैव प्रसादेन सर्वांल्लोकानुपाश्नुते ॥ १३.५८.४ ॥
其后,因毗湿奴的恩典,婆伽得到了一个恩赐;也因这同一恩典,他获得了一切世界。
13.58.5
तस्मात्तु पुरुषे दोषो ह्यधिको नात्र संशयः ।
विना गर्भं सवर्णेषु न त्याज्या गमनात्स्त्रियः ॥ १३.५८.५ ॥
因此过失更大的在男子身上,此中无疑。同种姓的女子若未怀孕,不应因交合而被抛弃。
13.58.6
प्रायश्चित्तं यथान्यायं दण्डं कुर्यात्स पण्डितः ।
श्वभिर्वा दंशनं स्नानं सवनत्रितयं निशि ॥ १३.५८.६ ॥
智者应依规则行忏悔与惩罚:被狗咬、沐浴,以及夜间的三次祭酒。
13.58.7
भूमौ च भस्मशयनं दानं भोगविवर्जितम् ।
दोषगौरवतः कालो द्रव्यगौरवमेव च।
मर्यादा स्थापिता पूर्वमिति तीर्थान्तरं गते ॥ १३.५८.७ ॥
睡在地上,睡在灰烬中,布施,断绝享乐,依罪过之重而定时限,以及依布施之物之重而定——此规则古时已为前往另一圣地者所设。
13.58.8
तद्योषितीं तु दीर्घायो नास्ति दोषो व्यतिक्रमे ।
भगतीर्थान्तरे शुद्धो विष्णोस्तु वचनादिह ॥ १३.५८.८ ॥
故,长寿者啊,女子违犯规矩也无过失;若她已前往薄伽圣地,则依毗湿奴之言,她在此得以清净。
13.58.9
रक्ष्याश्चैवान्यसंवादैरन्यगेहाद्विचक्षणैः ।
आसां शुद्धौ विशेषेण कर्मणां फलमश्नुते ॥ १३.५८.९ ॥
智者应使她们远离与他人的交谈以及他人的住所加以守护;在她们的清净之中,尤其能获得诸业的果报。
13.58.10
नैता वाच्या न वै वध्या न क्लेश्याः शुभमिच्छता ।
विष्णुप्रसादादित्येव भगस्तीर्थान्तरं गतः।
मासिमासि ऋतुस्तासां दुष्कृतान्यपकर्षति ॥ १३.५८.१० ॥
欲求吉祥者不应责备她们,不应杀害她们,也不应折磨她们;唯因毗湿奴之恩,薄伽已前往另一圣地。每月的月经周期能消除她们的恶业。
13.58.11
स्त्रियस्तोषकरा नॄणां स्त्रियः पुष्टिप्रदाः सदा ।
पुत्रसेतुप्रतिष्ठाश्च स्त्रियो लोके महाद्युते ॥ १३.५८.११ ॥
女子令男子满足,女子常予滋养。大光明者啊,在世间,女子乃子嗣之桥的根基。