Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.63

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.63.1

इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत ।
अहिंसयित्वाऽपि कथं ब्रह्महत्या विधीयते ॥ १३.६३.१ ॥

啊,君王,婆罗多的后裔,请你如实告诉我:即使不加伤害,婆罗门之杀是如何被规定的。

13.63.2

व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम् ।
तत्तेऽहं सम्प्रवक्ष्यामि तदिहैकमनाः शृणु ॥ १३.६३.२ ॥

啊,诸王之主,我从前呼唤毗耶娑时所问的,我现在要完整地告诉你;请专心聆听。

13.63.3

चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने ।
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ॥ १३.६३.३ ॥

啊,贤者,你是婆悉吒的第四位弟子;请告诉我真相:不加伤害,此处由谁规定了杀婆罗门之罪?

13.63.4

इति पृष्टो मया राजन्पराशरशरीरजः ।
अब्रवीन्निपुणो धर्मे निःसंशयमनुत्तमम् ॥ १३.६३.४ ॥

啊,君王,我这样问时,那位出生于波罗舍罗之身、精通法的人,毫无疑问地给出了最高的回答。

13.63.5

ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम् ।
ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम् ॥ १३.६३.५ ॥

若他亲自召唤了前来乞食、生计困窘的婆罗门,事后却对他说“没有”,应当知道此人是杀害婆罗门者。

13.63.6

मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत ।
वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम् ॥ १३.६३.६ ॥

啊,婆罗多的后裔,那位心怀恶念、夺取中等身份、通晓吠陀的婆罗门生计的人,应当知道此人是杀害婆罗门者。

13.63.7

गोकुलस्य तृषार्तस्य जलार्थमभिधावतः ।
उत्पादयति यो विघ्नं तं विद्या ह्मघातिनम् ॥ १३.६३.७ ॥

若阻碍因渴而奔向水源的牛群,此人应被视为杀害婆罗门者。

13.63.8

यः प्रवृत्तां श्रुतिं सम्यकू शास्त्र वा मुनिभिः कृतम् ।
दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् ॥ १३.६३.८ ॥

若因无知而玷污圣贤所作的传承天启或论典,此人应被视为杀害婆罗门者。

13.63.9

आत्मजां रूपसम्पन्नां महतीं सदृशे वरे ।
न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मधातिनम् ॥ १३.६३.९ ॥

若不将自己美丽、已到婚龄的女儿许配给合适的夫婿,此人应被视为杀害婆罗门者。

13.63.10

अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु ।
दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम् ॥ १३.६३.१० ॥

若愚昧而沉溺于不义,欺骗再生者并带给直刺要害的悲痛,此人应被视为杀害婆罗门者。

13.63.11

चक्षुषा विप्रहीणस्य पङ्गुलस्य जडस्य वा ।
हरेत यो वै सर्वस्वं तं विद्या घातिनम् ॥ १३.६३.११ ॥

若夺去盲人、跛者或无助者的全部财产,此人应被视为杀人者。

13.63.12

आश्रमे वा वने वाऽपि ग्रामे वा यदि वा पुरे ।
अग्निं समुत्सृजेन्मोहात्तं विद्याद्ब्रह्मघातिनम् ॥ १३.६३.१२ ॥

若因迷惑而让圣火熄灭,无论在修行处、森林、村庄还是城镇,此人应被视为杀害婆罗门者。