Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.65

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.65.1

बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम् ।
पराक्रमे शक्रसममादित्यसमतेजसम् ॥ १३.६५.१ ॥

智慧与布利哈斯帕蒂相等,忍耐与梵天相等,勇力与因陀罗相等,光辉与太阳相等。

13.65.2

गाङ्गेयमर्जुनेनाजौ निहतं भूरितेजसम् ।
भ्रातृभिः सहितोऽन्यैश्च पर्यपृच्छद्युधिष्ठिरः ॥ १३.६५.२ ॥

坚战与兄弟及其他人一同询问那位被阿周那在战中杀死的、光辉极盛的恒河之子。

13.65.3

शयानं वीरशयने कालाकाङ्क्षिणमच्युतम् ।
आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः ॥ १३.६५.३ ॥

大仙们前来,想要见到那位躺在英雄床上、等待死亡时刻的不朽者,婆罗多族中最优秀的人。

13.65.4

अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः ।
अङ्गिरा गौतमोऽगस्त्यः सुमतिः सुयतात्मवान् ॥ १३.६५.४ ॥

阿特里、婆悉吒、跋古、补罗斯底耶、补罗诃、迦图、安吉罗斯、乔答摩、阿伽斯提耶、苏摩提,以及心已善加调伏者。

13.65.5

विश्वामित्रः स्थूलगिराः संवर्तः प्रमतिर्दमः ।
बृहस्पत्युशनोव्यासश्च्यवनः फाश्यपो ध्रुवः ॥ १३.६५.५ ॥

毗首密多罗、斯图拉吉罗、僧婆多、普拉玛提、达摩、布利哈斯帕蒂、乌商那斯、毗耶娑、遮耀那、迦叶波之裔,以及德鲁瓦。

13.65.6

दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः ।
भरद्वाजोऽथ रैभ्यश्चक यवक्रीतस्त्रितस्तथा ॥ १३.६५.६ ॥

杜尔婆娑、遮摩陀尼,接着是摩根德耶、伽罗婆,接着是跋罗堕遮,还有罗昆耶、遮克罗、耶婆克利多,以及同样的特利多。

13.65.7

स्थूलाक्षः शबलाक्षश्च कण्वो मेधातिथिः कृशः ।
नारदः पर्वतश्चैव सुधन्वाऽथैकतो द्विजः ॥ १३.६५.७ ॥

斯图拉克莎与沙巴拉克莎、迦那瓦、弥陀提týthi、克利沙、那罗陀、波尔瓦塔、苏陀婆那,以及一位再生婆罗门,也都在那里。

13.65.8

नितंभूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः ।
जामदग्र्यस्तथा रामः कचश्चेत्येवमादयः।
समागता महात्मानो भीष्मं द्रष्टुं महर्षयः ॥ १३.६५.८ ॥

尼丹菩、跋婆那、陀楼摩、舍擔喃陀、阿葛里多婆罗那、阇摩陀耆之子罗摩、迦卡,以及其他类似的大心大仙,都聚来拜见毗湿摩。

13.65.9

तेषां महात्मनां पूजामागतानां युधिष्ठिरः ।
भ्रातृभिः सहितश्चक्रे यतावदनुपूर्वशः ॥ १३.६५.९ ॥

坚战与诸弟依次如法地恭敬供养了这些前来的大心者。

13.65.10

ते पूजिताः सुखासीनाः कथाश्रक्रुर्महर्षयः ।
भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः ॥ १३.६५.१० ॥

诸大仙受到供养,安然就座,便开始讲述以毗湿摩为中心的故事,极其甜美,令一切感官与心意欢喜。

13.65.11

भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम् ।
मेने दिविष्ठमात्मानं तुष्ट्या परमया युतः ॥ १३.६५.११ ॥

毗湿摩听闻那些心已清净的诸仙所说的故事,以无上的喜悦,自觉自己如同住在天界一般。

13.65.12

ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः ।
अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम् ॥ १३.६५.१२ ॥

随后,诸大仙向毗湿摩与般度诸子告辞,在众人注视之下全部隐没而去。

13.65.13

तानृषीन्सुमहाभागानन्तर्धानगतानपि ।
पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः ॥ १३.६५.१३ ॥

众般度子都赞颂那些已隐没的大福德仙人,并一再向他们致敬。

13.65.14

प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमम् ।
उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः ॥ १३.६५.१४ ॥

众人心怀喜悦,皆精通咒语,如同朝阳升起般前来侍奉恒河之子、俱卢中最优者毗湿摩。

13.65.15

प्रभावं तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः ।
प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः ॥ १३.६५.१५ ॥

般度子们见那些仙人苦行的威力,又见四方皆放光明,无不惊叹至极。

13.65.16

महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते ।
पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः ॥ १३.६५.१६ ॥

般度子们思念那些仙人的至上大福,依靠毗湿摩,与他一同开始交谈。

13.65.17

कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः ।
धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः ॥ १३.६५.१७ ॥

谈话结束时,般度子、法之子坚战以头触摸毗湿摩的双足,询问了一个关于法的问题。

13.65.18

के देशाः के जनपदा आश्रमाः के च पर्वताः ।
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह ॥ १३.६५.१८ ॥

祖父啊,有哪些地区、国家、修行所和山岳?哪些在功德上最为殊胜?哪些河流值得知晓?

13.65.19

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शिलोच्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर ॥ १३.६५.१९ ॥

瑜提希特啰啊,此处人们也引用这段古老的故事,即拾穗为生者与成就圣者之间的对话。

13.65.20

इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषणाम् ।
असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः ॥ १३.६५.२० ॥

某位贤者多次巡行这片以山峦为装饰的大地,来到一位贤良居家者的家中。

13.65.21

शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनाऽर्चितः ।
उवास रजनीं तत्र सुमुखः सुखभागृषिः ॥ १३.६५.२१ ॥

他来到拾穗者的家中,主人依礼款待他;那位面带喜色、分享幸福的仙人便在那里过夜。

13.65.22

शिलवृत्तिस्तु यत्कृत्यं प्रातस्तत्कृतवाञ्शुचिः ।
कृतकृत्यमुपातिष्ठत्सिद्धं तमतिथिं तदा ॥ १३.६५.२२ ॥

拾穗者清净地在黎明时完成了应做之事;随后他完成了职责,便前去侍奉那位作客的成就圣者。

13.65.23

तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः ।
चक्रतुर्वेदसम्बद्धास्तच्छेषकृतलक्षणाः ॥ १३.६५.२३ ॥

二位大德相会,安然而坐,谈论与吠陀相关的吉祥之言,其中带有那次祭礼残余的印记。

13.65.24

शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः ।
प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि ॥ १३.६५.२४ ॥

谈话将毕,那位聪慧的拾穗者恭敬地称呼成就圣者,提出了你现在向我询问的那个问题。

13.65.25

केदेशाः के जनपदाः केऽऽश्रमाः के च पर्वताः ।
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम् ॥ १३.६५.२५ ॥

哪些地方、哪些国土、哪些修行处和哪些山在功德上最为殊胜?哪些河流应当知晓?请说出来。

13.65.26

ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः ।
येषां भागीरथी गङ्गा मध्येनैति रारिद्वरा ॥ १३.६५.२६ ॥

凡是婆吉罗陀之恒河在其中间穿石而流的地方,便是那些国土、那些地区、那些修行处和那些山。

13.65.27

तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः ।
गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् ॥ १३.६५.२७ ॥

即使以苦行、梵行、祭祀或舍弃,众生也无法获得那种境界;而侍奉恒河,便能得到它。

13.65.28

स्पष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम् ।
न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते ॥ १३.६५.२८ ॥

凡身体被恒河之水所触、或被放入其中的有身众生,不再规定会从天界堕落。

13.65.29

सर्वाणि येषां गाङ्गेयैस्तोयैः कार्याणि देहिनाम् ।
गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति ते जनाः ॥ १३.६५.२९ ॥

婆罗门啊,凡一切事务皆以恒河之水而行的有身众生,那些人离开大地,安住于天界。

13.65.30

पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः ।
पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ॥ १३.६५.३० ॥

那些早年造作罪业,之后侍奉恒河的人,也能得到最上的归宿。

13.65.31

युक्ताश्च पातकैस्त्यक्त्वा देहं शुद्धा भवन्ति ते ।
मुच्यन्ते देहसंत्यागाद्गङ्गायमुनसङ्गमे ॥ १३.६५.३१ ॥

与罪过相连的人舍弃身体后变得清净。在恒河与阎牟那河的交汇处,他们因舍弃身体而获得解脱。

13.65.32

स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम् ।
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥ १३.६५.३२ ॥

凡在恒河清净之水中沐浴、心已调伏之人所得的光明果报,即使举行百次祭祀也无法获得。

13.65.33

यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ १३.६५.३३ ॥

只要人的骨骸留在恒河水中,他便会在天界受到尊崇,长达千年。

13.65.34

अपहत्य तमस्तीव्रं यथा भात्युदये रविः ।
तथाऽपहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥ १३.६५.३४ ॥

如同太阳升起时驱散猛烈的黑暗而光辉照耀,被恒河之水洒浴的人也驱散罪孽而光明照耀。

13.65.35

विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा ।
तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शिवैः ॥ १३.६५.३५ ॥

如同没有月亮的夜晚、没有花朵的树木,没有吉祥恒河水的国土与方位也失去光彩。

13.65.36

वर्णाश्रमा यथा सर्वे धर्मज्ञानविवर्जिताः ।
क्रतवश्च यथाऽसोमास्तथा गङ्गां विना जगत् ॥ १३.६५.३६ ॥

如同缺乏法智的种姓与行期,如同没有苏摩的祭祀,没有恒河的世界也是如此。

13.65.37

यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना ।
तथा देशा दिशश्चैव गङ्गाहीना न संशयः ॥ १३.६५.३७ ॥

如同无日之天空、无山之大地、无风之虚空,没有恒河的国土与方位也是如此,此事无疑。

13.65.38

त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते ।
तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः ॥ १३.६५.३८ ॥

三界之中一切有情,以恒河吉祥之水得到供养,便得最上的满足。

13.65.39

अन्ये च देवा मुनयः प्रेतानि पितृभिः सह ।
तर्पितास्तृप्तिमायान्ति त्रिषु लोकेषु सर्वशः ॥ १३.६५.३९ ॥

其他诸神、诸仙、亡灵与祖先,得到供养后,便在三界各处获得满足。

13.65.40

यस्तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम् ।
गवां निर्हरनिर्मुक्ताद्यावकात्तद्विशिष्यते ॥ १३.६५.४० ॥

若有人饮用被太阳晒热的恒河水,他便胜过以牛粪净化的大麦粥。

13.65.41

इन्द्रव्रतसहस्रं तु यश्चोरत्कायशोधनम् ।
पिवेद्यश्चापि गङ्गाम्यः समौ स्यातां न वा समौ ॥ १३.६५.४१ ॥

行千次因陀罗誓愿者,与为净身而饮恒河水者,是否相等,值得思量。

13.65.42

तिष्ठेद्युगसहस्रं तु पदेनैकेन यः पुमान् ।
मासमेकं तु गङ्गायां समौ स्यातां न वा सभौ ॥ १३.६५.४२ ॥

一人单足站立千个时代,与一人在恒河中住一个月,二者是否相等,值得思量。

13.65.43

लम्बतेऽवाक्शिरा यस्तु युगानामयुतं पुमान् ।
तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते ॥ १३.६५.४३ ॥

悬首向下十万年之人,或在恒河中随意久立之人,此人便为卓越。

13.65.44

अग्नौ प्रास्तं प्रधूयेत यथा तूलं द्विजोत्तम ।
तथा गङ्गावगाढस्य सर्वपापं प्रधूयते ॥ १३.६५.४४ ॥

二生者中之最上者啊,如同投入火中的棉絮被焚烧,那入浴恒河者的一切罪恶也被尽数抖落消除。

13.65.45

भूतानामिह सर्वेषां दुःखोपहतचेतसाम् ।
गतिमन्वेषमाणानां न गङ्गासदृशी गतिः ॥ १३.६५.४५ ॥

此世间一切心被苦恼所伤、寻求归宿的众生,没有像恒河那样的归宿。

13.65.46

भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् ।
गङ्गाया दर्शनातद्वत्सर्वपापैः प्रमुच्यते ॥ १३.६५.४६ ॥

如同蛇见到迦楼罗(Tārkṣya)便失去毒性,同样见到恒河,人便脱离一切罪恶。

13.65.47

अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये ।
येषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च। ॥ १३.६५.४७ ॥

凡是无所依靠、以不法为归宿的人,对他们来说,恒河便是依靠、归宿、安乐与铠甲。

13.65.48

प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान् ।
पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत् ॥ १३.६५.४८ ॥

那些被众多极恶不祥所缠、将坠入地狱的卑劣之人,若已投靠恒河,恒河便在死后将其渡过。

13.65.49

ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः ।
येऽभिगच्छन्ति सततं गङ्गां मतिमतांवर ॥ १३.६५.४९ ॥

常去恒河的人,必定由诸仙与因陀罗同众神所分配,智者中的最优者啊。

13.65.50

विनयाचारहीनाश्च अशिवाश्च नराधमाः ।
ते भवन्ति शिवा विप्र ये वै गङ्गामुपाश्रिताः ॥ १३.६५.५० ॥

缺乏谦逊与良好品行、不吉祥的卑劣之人,婆罗门啊,凡皈依恒河者都会变得吉祥。

13.65.51

यथा सुराणामभृतं पितॄणां च यथा स्वधा ।
सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् ॥ १३.६५.५१ ॥

如甘露之于诸神,祭祀之供(svadhā)之于祖先,甘露(sudhā)之于诸蛇,恒河之水之于众人亦复如是。

13.65.52

उपासते यथा बाला मातरं क्षुधयाऽर्दिताः ।
श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः ॥ १३.६५.५२ ॥

如饥饿的孩子侍奉母亲,求福的有身之人亦在此侍奉恒河。

13.65.53

स्वायंभुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते ।
स्थानानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते ॥ १३.६५.५३ ॥

如自生者(梵天)之住所被称为一切之最,那么在诸处与诸河之中,此处宣称恒河为最胜。

13.65.54

उपजीव्या यथा धेनुर्लोकानां ब्राह्ममेव वा ।
हविषां तु यथा सोमस्तरणेषु तथा त्वियम् ॥ १३.६५.५४ ॥

如牛为众世界所依赖,或梵(吠陀)为依靠,如苏摩在供物中居首,此(恒河)在渡越之方便中亦复如是。

13.65.55

यथोपजीविनां धेनुर्देवादीनां परा स्मृता ।
तथोपजीविनां गङ्गा सर्वप्राणभृतामिह ॥ १३.६५.५५ ॥

如同牛被视为诸神等赖以生存者中最为尊贵,同样,恒河在此世对所有依靠它生存的众生而言也是最为尊贵的。

13.65.56

देवाः सोमार्कसंस्थानि यता सत्रादिभिर्मखैः ।
अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः ॥ १३.६५.५६ ॥

如同诸神借助萨特拉等祭祀,从月神与太阳的居所获得甘露而生存,人类也以恒河之水为生。

13.65.57

जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितम् ।
आत्मानं मन्यते लोको दिविष्ठमिव शोभितम् ॥ १३.६५.५७ ॥

以从加赫纳维河岸升起的沙土洒身的人,觉得自己如同住在天上一般光彩照人。

13.65.58

जाह्नवीतीरसम्भूतां मृदं मूर्ध्ना बिभर्ति यः ।
बिभर्ति रूपं सोऽर्कस्य तमोनाशाय निर्मलम् ॥ १३.६५.५८ ॥

若有人头顶戴着从加赫纳维河岸取来的泥土,他便承载了太阳纯净的形象,以驱除黑暗。

13.65.59

गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा ।
स्पृश्यते सोऽस्य पाप्मानं सद्य एवापकर्षति ॥ १३.६५.५९ ॥

当被恒河波浪溅湿的风触碰一个人时,便立即为他消除罪过。

13.65.60

व्यसनैरभितप्तस्य नरस्य विनशिष्यतः ।
गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति ॥ १३.६५.६० ॥

对于被灾难折磨、即将毁灭的人,因见到恒河而生的喜悦便能驱散他的灾难。

13.65.61

हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम् ।
पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान् ॥ १३.६५.६१ ॥

以天鹅的鸣叫、鸲鹆(科科)的啼声和其他鸟类的声音,恒河与乾闼婆、沙洲以及岩石堆相互争胜。

13.65.62

हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम् ।
गङ्गां गोकुलसम्बादां दृष्ट्वा स्वर्गोऽपि विस्मृतः ॥ १३.६५.६२ ॥

见到被天鹅等多种鸟类环绕、又满是牛群的恒河,连天界也会被遗忘。

13.65.63

न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः ।
सम्भवेद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ॥ १३.६५.६३ ॥

在恒河岸边人们所生的那种最高喜悦,即使是享受一切欲望的天界居民也不会有。

13.65.64

वाङ्मन कर्मजैर्ग्रस्तः पापैरपि पुमानिह ।
वीक्ष्य गङ्गां भवेन्मूतो अत्र मे नास्ति संशयः ॥ १३.६५.६४ ॥

即使是被言语、意念与行为所造之罪缠缚的人,在此见到恒河便得解脱,对此我毫无疑问。

13.65.65

सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे ।
पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वाऽवगाह्य च ॥ १३.६५.६५ ॥

人若见恒河、触摸恒河并入水沐浴,便能救度下面七代、上面七代祖先,以及在他们之上的先祖。

13.65.66

श्रुताभिलषिता पीता स्पृष्टा दृष्टाऽवगाहिता ।
गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः ॥ १३.६५.६६ ॥

恒河,人闻其名、心所向往、饮其水、触其身、见其形、入其中沐浴,都能救度世人,尤其能救度他们的两个宗族。

13.65.67

तत्तीरगानां तपसा श्राद्धपारायणादिभिः ।
गङ्गाद्वारप्रभृतिभिस्तत्तीर्थैर्न परं नृणाम् ॥ १३.६५.६७ ॥

对于前往其岸边的人而言,没有比苦行、祭祖仪式、诵读,以及从恒河门(Gaṅgādvāra)开始的那些圣渡口更高的了。

13.65.68

सायं प्रातः स्मरेद्गङ्गां नित्यं स्नाने तु कीर्तयेत् ।
तर्पणे पितृपूजासु मरणे चापि संस्मरेत् ॥ १३.६५.६८ ॥

早晚应当忆念恒河(Gaṅgā);每日沐浴时应当称颂她;在献水(tarpaṇa)、祭祀祖先之时,乃至临终之时,也应当好好忆念她。

13.65.69

दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् ।
पुनात्युपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः ॥ १३.६५.६९ ॥

见到她、触摸她、饮用她,以及称念“恒河”之名,她能净化没有功德的人,达成百次、千次。

13.65.70

य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च ।
स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा ॥ १३.६५.७० ॥

凡希望自己的出生、生命与所学皆有成果者,应当前往恒河,为祖先献水,同样也应使诸神欢喜。

13.65.71

न श्रुतैर्न च वित्तेन कर्मणा न च तत्फलम् ।
प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात् ॥ १३.६५.७१ ॥

无论凭学问、财富还是祭祀之业,人都无法完全获得他到达恒河时所获得的那份果报。

13.65.72

जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च ।
समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् ॥ १३.६५.७२ ॥

有能力却不去瞻仰那水带功德、吉祥的恒河者,在此世就如同先天的盲人、死者与跛子一般。

13.65.73

भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम् ।
देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः ॥ १३.६५.७३ ॥

凡人中谁会不侍奉恒河呢?知过去、现在、未来的大仙和与因陀罗同在的诸神都亲近她。

13.65.74

वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः ।
विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत् ॥ १३.६५.७४ ॥

凡人中谁不会皈依恒河呢?林居者、居家者、苦行者、梵行学生和学者都依止她。

13.65.75

उत्कामद्बिश्च यः प्राणैः प्रयतः शिष्टसम्मतः ।
चिन्तयेन्मनसा गङ्गां स गतिं परमांलभेत् ॥ १३.६५.७५ ॥

自我克制、为贤人所赞许的人,在生命之气离去时若以心念想恒河,便能得到最高的归宿。

13.65.76

न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः ।
आदेहपतनाद्गङ्गामुपास्ते यः पुमानिह ॥ १३.६५.७६ ॥

此人若在此间崇拜恒河直至身体倒下,则不会因任何恐惧而恐惧,不因罪过而惧,也不因国王而惧。

13.65.77

गगनाद्गां पतन्तीं वै महापुण्यां महेश्वरः ।
दधार शिरसा गङ्गां तामेव दिवि सेवते ॥ १३.६५.७७ ॥

那从天空落向大地的大圣恒河,大自在天以头顶接住了她;在天界他也侍奉她。

13.65.78

अलङ्कृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः ।
यस्तु तस्या जलं सेवेत्क्रतकृत्यः पुमान्भवेत्। ॥ १३.६५.७८ ॥

三界因三条清净之路而庄严;谁侍奉她的水,谁就成为已完成使命的人。

13.65.79

दिवि ज्योतिर्यथाऽऽदित्यः पितॄणां चैव चन्द्रमाः ।
देवेश यथा नृणां गङ्गा च सरितां तथा ॥ १३.६५.७९ ॥

如天上的太阳是光明,祖先的月亮是慰藉,天神之主啊,恒河之于世人,正如此于众河。

13.65.80

मात्रा पित्रा सुतैर्दारैर्विमुक्तस्य धनेन वा ।
न भवेद्धि तथा दुःखं यथा गङ्गा वियोगजम् ॥ १३.६५.८० ॥

即使与母亲、父亲、儿子、妻子或财富分离之人,也不会如因离开恒河而生的痛苦那样悲伤。

13.65.81

नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः ।
तथा प्रसादो भवति गङ्गां वीक्ष्य यथा भवेत् ॥ १३.६५.८१ ॥

无论森林、所爱之物、儿子或财富所得,都不能带来如见恒河时那样的喜悦。

13.65.82

पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति ।
तथा त्रिपथगां दृष्ट्वा नृणां दृष्टिः प्रसीदति ॥ १३.६५.८२ ॥

人们见到满月,目光便会明朗;同样,见到三径之恒河,人们的目光也会明朗。

13.65.83

तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः ।
गङ्गांयोऽनुगतो भक्त्यास तस्याः प्रियतां व्रजेत् ॥ १३.६५.८३ ॥

若人心意专注于她,以她为最终归宿,怀着虔诚追随恒河,便会成为她所钟爱的人。

13.65.84

भूस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि ।
गङ्गा विगाह्या सततमेतत्कार्यतमं सताम् ॥ १३.६५.८४ ॥

居于大地、空中与天界的众生,无论高低,都应常在恒河中沐浴;这正是善人最重要的职责。

13.65.85

विश्वलोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः ।
दुर्मृताननपत्यांश्च सा मृताननयद्दिवम्।
यत्पुत्रान्सगरस्येतो भस्माख्याननयद्दिवम् ॥ १३.६५.८५ ॥

因恒河的圣洁,她的美名传遍一切世界。她把早夭者、无子嗣者和死者引向天界;她也把被称为灰烬的萨伽罗之子引向天界。

13.65.86

वाय्वीरिताभिः सुमनोहराभि-
र्द्रुताभिरत्यर्थसमुत्थिताभिः।
गङ्गोर्मिभिर्भानुमतीभिरिद्धाः ।
सहस्ररश्मिप्रतिमा भवन्ति ॥ १३.६५.८६ ॥

被风吹动、极其美妙、迅疾、高高涌起的恒河波浪所照亮,他们便如千道光芒的太阳一般。

13.65.87

पयस्विनीं घृतिनीमत्युदारां ।
समृद्धिनीं वेगिनीं दुर्विगाह्याम्।
गङ्गां गत्वा यैः शरीरं विसृष्टं ।
गता धीरस्ते विबुधैः समत्वम् ॥ १३.६५.८७ ॥

那些坚毅之人前往恒河——富有水流,如酥油般滋养,极其慷慨,使人昌盛,急速而难以深入——在那里舍弃身体,便获得了与诸天相等的地位。

13.65.88

अन्धाञ्चडान्द्रव्यहीनांश्च गङ्गा ।
यशस्विनी बृहती विश्वरूपा।
देवैः सेन्द्रैर्मुनिभिर्मानवैश्च ।
निषेविता सर्वकामैर्युनक्ति ॥ १३.६५.८८ ॥

即使盲人、残暴者和贫乏者,那荣耀、广大、具一切形相的恒河,受诸天与因陀罗、诸仙及众人侍奉,便以满足一切愿望之境(至上之归趣)将他们联结起来。

13.65.89

ऊर्जस्वतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम् ।
त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः ॥ १३.६५.८९ ॥

凡皈依恒河——充满活力、甘甜、极其神圣、流经三道、守护三界之恒河——的人,都升往天界。

13.65.90

यो वत्स्यति द्रक्ष्यति वाऽपि मर्त्य-
स्मस्मै प्रयच्छन्ति सुखानि देवाः।
तद्भाविताः स्पर्शनदर्शनेन ।
इष्टां गतिं तस्य सुरा दिशन्ति ॥ १३.६५.९० ॥

凡居住于恒河之畔或仅仅见到恒河者,诸神赐予其幸福;诸神因触及与观看恒河而得净化,便赐予他所愿的归宿。

13.65.91

दक्षां पृश्निं बृहतीं विप्रकृष्टां ।
शिवामृद्धां भागिनीं सुप्रसन्नाम्।
विभावरीं सर्वभूतप्रतिष्ठां ।
गङ्गां गता ये त्रिदिवं गतास्ते ॥ १३.६५.९१ ॥

凡前往恒河者——灵巧的、斑点的、广大的、远及的、吉祥的、昌盛的、赐予份额的、极其慈悯的、光辉的、一切众生之所依的恒河——皆升往天界。

13.65.92

ख्यातिर्यस्याः खं दिवं गां च नित्या-
मूर्ध्वं दिशो विदिशश्चावतस्थे।
तस्या जलं सेव्य सरिद्वराया ।
मर्त्याः सर्वे कुतकृत्या भवन्ति ॥ १३.६५.९२ ॥

其名声永远遍布天空、天界、大地、上方与诸隅——饮用这最殊胜河流之水,一切凡人皆功德圆满。

13.65.93

इयं गङ्गेति नियतं प्रतिष्ठा ।
गुहस्य स्क्मस्य च गर्भयोषा।
प्रातस्त्रिवर्गा घृतवहा विपाप्मा ।
गङ्गाऽवतीर्णा वियतो विश्वतोया ॥ १३.६५.९३ ॥

此恒河确是鬼宿(Guha)与斯坎达(Skanda)的根基,也是怀育他们的母体。清晨,她分为三流,携带酥油,无罪无垢,从天空降临,水流遍满一切。

13.65.94

दिवो भुवश्चापि वीक्ष्यानुरूपा ॥ १३.६५.९४ ॥

既观照天界与大地,她便与之相称。

13.65.95

सुताऽवनीध्रस्य हरस्य भार्या ।
दिवो भुवश्चापि कृतानुरूपा।
भव्या पृथिव्यां भागिनी चापि राज-
न्गङ्गा लोकानां पृण्यदा वै त्रयाणाम् ॥ १३.६५.९५ ॥

她是阿瓦尼陀罗(喜马拉雅)之女,哈罗(湿婆)之妻。她与天与地相配,在大地上吉祥且有份,大王啊;恒河是赐予三界功德者。

13.65.96

मधुस्रवा घृतधारा घृतार्चि-
र्महोर्मिभिः शोभिता ब्राह्मणैश्च।
दिवश्च्युता शिरसाऽऽप्ता शिवेन ।
गङ्गाऽवनीध्रात्त्रिदिवस्य माता ॥ १३.६५.९६ ॥

流淌蜜汁,酥油之流,焰如酥油,被大波浪和婆罗门所庄严;从天而降,被湿婆以头承受,恒河来自阿瓦尼陀罗,是天界之母。

13.65.97

योनिर्वरिष्ठा विरजा वितन्वी ।
शय्याऽचिरा वारिवहा यशोदा।
विश्वावती चाकृतिरिष्टसिद्धा ।
गङ्गोक्षितानां भुवनस्य पन्थाः ॥ १३.६५.९७ ॥

最上的源头,清净,纤细;床榻,迅疾,负载水流,光荣;遍在,有形,成就所愿——恒河是为被其水洒浴者所行的世界之路。

13.65.98

क्षान्त्या मह्या गोपने धारणे च ।
दीप्त्य कृशानोस्तपनस्य चैव।
तुल्या गङ्गा सम्मता ब्राह्मणानां ।
गृहस्य ब्रह्मण्यतया च नित्यम् ॥ १३.६५.९८ ॥

忍耐如大地,护持与承载如大地,光辉如火与太阳;恒河为婆罗门所敬视为等同,且因家中对婆罗门的虔敬,永远如此。

13.65.99

ऋषिष्टुतां विष्णुपदीं पुराणां ।
सुपुण्यतोयां मनसाऽपि लोके।
सर्वात्मना जाह्नवीं ये प्रवन्ना ।
स्ते ब्रह्मणः सदनं सम्प्रयाताः ॥ १३.६५.९९ ॥

在世间,凡以全部身心、哪怕只是以心念,皈依被仙人赞颂、出自毗湿奴之足、古老而水极具功德的恒河者,都会到达梵天的居所。

13.65.100

लोकानिमान्नयति या जननीव पुत्रा-
न्सर्वात्मना सर्वगुणोपपन्ना।
तत्स्थानकं ब्राह्ममभीप्समानै-
र्गङ्गा सदैवात्मवशैरुपास्या ॥ १३.६५.१०० ॥

恒河如母亲引导子女一般引领这些世界,具备一切美德。渴望梵天之境的自制之人,应当始终崇拜她。

13.65.101

गंङ्गां श्रयेदात्मवान्सिद्धिकामः ॥ १३.६५.१०१ ॥

自制且渴望成就者,应当皈依恒河。

13.65.102

प्रसाद्य देवान्सविभून्समस्ता-
न्भगीरथस्तपसोग्रेण गङ्गाम्।
गामानयत्तामभिगम्य शश्व-
त्पुंसां भयं नेह चामुत्र विद्यात् ॥ १३.६५.१०२ ॥

婆吉罗陀使诸神与诸大能者皆得欢喜,以严苛的苦行将恒河引至大地。应当知道,常常亲近她的人,今生与来世都不会有恐惧。

13.65.103

उदाहृतः सर्वथा ते गुणानां ।
मयैकदेशः प्रसमीक्ष्य बृद्ध्या।
शक्तिर्न से काचिदिहास्ति वक्तुं ।
गुणान्सर्वान्परिमातुं तथैव ॥ १३.६५.१०३ ॥

我以智慧思量之后,只将恒河德性的一部分全面地告诉了你。我没有能力说尽、衡量她的全部德性。

13.65.104

मेरोः समुद्रस्य च सर्वयत्नैः ।
सङ्ख्योपलानामुदकस्य वाऽपि।
शक्यं वक्तुं नेह गङ्गाजलानां ।
गुणाख्यानं परिमातुं तथैव ॥ १३.६५.१०४ ॥

即使竭尽全力,也无法说尽须弥山、大海、石子之数或水量;同样,这里也无法述说并衡量恒河之水的功德。

13.65.105

तस्मादेतान्परया श्रद्धयोक्ता-
न्गुणान्सर्वाञ्जाह्नवीयान्सदैव।
भवेद्वाचा मनसा कर्मणा च ।
भक्त्या युक्तः श्रद्धया श्रद्दधानः ॥ १३.६५.१०५ ॥

因此,对这些以至高敬意所说的恒河(Jāhnavī)功德,应当始终以言语、心意和行为,怀着虔诚与信心去信受奉行。

13.65.106

लोकानिमांस्त्रीन्यशसा वितत्य ।
सिद्धिं प्राप्य महतीं तां दुरापाम्।
गङ्गाकृतानचिरेणैव लोका-
न्यथेष्टमिष्टान्विहरिष्यसि त्वम् ॥ १३.६५.१०६ ॥

你将以名声遍传三界,获得那难以获得的大成就,不久便能借恒河之力,随意游历你所愿的诸界。

13.65.107

तव मम च गुणैर्महानुभावा ।
जुषतु भतिं सततं स्वधर्मयुक्तैः।
अभिमतजनवत्सला हि गङ्गा ।
जगति युनक्ति सुखैश्च भक्तिमन्तम् ॥ १३.६५.१०७ ॥

愿如你我一般具足功德的大德之人,常以奉行自身之法而专注心念;因为恒河对所爱之人慈爱,在世间能使虔信者与安乐相连。

13.65.108

इति परममतिर्गुणानशेषा-
ञ्शिलरतये त्रिपथानुयोगरूपान्।
बहुविधमनुशास्य तथ्यरूपा-
न्गगनतलं द्युतिमान्विवेश सिद्धः ॥ १३.६५.१०८ ॥

如是,这位至智的悉陀以多种方式,依真实之相,为石床宣说了三道河(恒河)的一切功德之后,光辉焕发地进入了天空。

13.65.109

शिलवृत्तिस्तु सिद्धस्य वाक्यैः सम्बोधितस्तदा ।
गङ्गामुपास्य विधिवत्सिद्धिं प्राप सुदुर्लभाम् ॥ १३.६५.१०९ ॥

于是,拾石者受圆满仙人的教诲,依规矩供奉恒河,获得了极难得的成就。

13.65.110

तथा त्वमपि कौन्तेय भक्त्या परमया युतः ।
गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम् ॥ १३.६५.११० ॥

你也是如此,贡提之子,以至上的虔敬之心,应当常常亲近恒河;你将获得最高的成就。

13.65.111

श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम् ।
युधिष्ठिरः परां प्रीतिमगच्छद्धातृभिः सह ॥ १३.६५.१११ ॥

听到毗湿摩所讲、与赞颂恒河相连的那段古史,坚战与诸弟一同获得了至上的喜悦。