摩诃婆罗多 · 章 13.66
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.66.1
के पूज्या वै त्रिलोकेऽस्मिन्मानवा भरतर्पभ ।
विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यतः ॥ १३.६६.१ ॥
婆罗多族的雄牛啊,在这三界之中,哪些人值得尊敬?请详细告诉我,我听得还不满足。
13.66.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादं वासुदेवस्य चोभयोः ॥ १३.६६.२ ॥
关于此事,人们也讲述这段古老的历史——那罗陀与婆苏提婆的对话。
13.66.3
नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान् ।
केशवः परिपप्रच्छ भगवन्क्रान्नमस्यमि ॥ १३.६६.३ ॥
见那罗陀合掌礼敬诸位优秀的再生者,羯舍婆问道:“尊者啊,你向谁致敬?”
13.66.4
बहुमानपरस्तेषु भगवन्यान्नमस्यसि ।
शक्यं चेच्छ्रोतुमस्माभिर्ब्रूह्येतद्धर्मवित्तम ॥ १३.६६.४ ॥
你对他们怀有极大的敬意,尊者啊,你所礼敬的是谁?若我们可以听闻,请告诉我们,精通法的至尊者!
13.66.5
शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन ।
त्वत्तोऽन्यः कः पुमाँल्लोके श्रोतुमेतदिहार्हति ॥ १३.६६.५ ॥
请听,哥文达,摧敌者啊,关于我所礼敬的这些人。这世上除你之外,还有谁配听闻此事?
13.66.6
वरुणं वायुमादित्यं पर्जन्यं जातवेदसम् ।
स्थाणु स्कन्दं महालक्ष्मीं विष्णुं ब्रह्माणमेव च ॥ १३.६६.६ ॥
还有伐楼那、风神伐由、阿迪提耶、帕尔贾尼亚、遍知者(火神阿耆尼)、斯坦努、塞建陀、大吉祥天、毗湿奴,以及梵天。
13.66.7
वाचस्पतिं चन्द्रमसमपः पृथ्वीं सरस्वतीम् ।
सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो ॥ १३.६६.७ ॥
凡常常礼敬语主、月亮、诸水、大地与萨罗室伐底者,我向他们致敬,哦,伟大者。
13.66.8
तपोधनान्वेदविदो नित्यं वेदपरायणान् ।
महार्हान्वृष्णिशार्दूल सदा सम्पूजयाम्यहम् ॥ १३.६६.८ ॥
我常常尊敬以苦行为财富、通晓吠陀且常年专注于吠陀的大德,哦,毗湿尼族之虎。
13.66.9
अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः ।
सन्तुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो ॥ १३.६६.९ ॥
凡不先自食而行天神之事、不自夸、知足且具忍耐者,我向他们致敬,哦,伟大者。
13.66.10
सम्यग्यजन्ति ये चेष्टीः क्षान्ता दान्ता जितेन्द्रियाः ।
सत्यं धर्मं क्षितिं गाश्च तान्नमस्यामि यादव ॥ १३.६६.१० ॥
凡忍辱、克己、调伏诸根,如法行祭祀,尊敬真实、法、大地与牛者,哦,耶达瓦,我向他们致敬。
13.66.11
ये वै तपसि वर्तन्ते वने मूलफलाशनाः ।
असञ्चयाः क्रियावन्तस्तान्नमस्यामि यादव ॥ १३.६६.११ ॥
凡在林中修苦行、以根茎果实为食、不积聚财物、精进于祭仪者,哦,耶达瓦,我向他们致敬。
13.66.12
ये भृत्यभरणे शक्ताः सततं चातिथिव्रताः ।
भुञ्जते देवशेषाणि तान्नमस्यामि यादव ॥ १३.६६.१२ ॥
凡能养活仆从、常修待客之德、食用诸天祭余者,哦,耶达瓦,我向他们致敬。
13.66.13
ये वेद प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मचारिणः ।
याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम् ॥ १३.६६.१३ ॥
我敬重那些已获得吠陀、不可战胜、善于辩论、梵行修习、并且始终致力于祭祀与教授的人。
13.66.14
प्रसन्नहृदयाश्चैव सर्वसत्वेषु नित्यशः ।
अपृष्ठतापान्स्वाध्याये युक्तास्तान्पूजयाम्यहम् ॥ १३.६६.१४ ॥
我敬重那些心地平和、对一切众生常怀慈悲、不在背后伤人、并专心于自我研习的人。
13.66.15
गुरुप्रसादे स्वाध्याये यतन्तो ये स्थिरव्रताः ।
शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव ॥ १३.६६.१५ ॥
我向那些为求师尊欢心而努力自修、誓愿坚定、乐于侍奉且不生嫉妒的人致敬,哦,耶达瓦。
13.66.16
सुव्रता मुनयो ये च ब्राह्मणाः सत्यसङ्गराः ।
वोढारो हव्यकव्यानां तान्नमस्यामि यादव ॥ १३.६६.१६ ॥
我向那些持守善誓的仙人,以及恪守誓言、为诸神与祖先担负祭物的婆罗门致敬,哦,耶达瓦。
13.66.17
भैक्षचर्यासु निरताः कृशा गुरुकुलाश्रयाः ।
निःसुखा निर्धना ये तु तान्नमस्यामि यादव ॥ १३.६६.१७ ॥
我向那些专心托钵乞食、形容消瘦、寄居师门、缺少欢乐与财富的人致敬,哦,耶达瓦。
13.66.18
निर्ममा निष्प्रतिद्वन्द्वा निष्ठिता निष्प्रयोजनाः ।
ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः ॥ १३.६६.१८ ॥
无我执、无对手、坚定而无私欲之人,他们已获得吠陀,不可战胜,善于辩论,是宣说梵的人。
13.66.19
अहिंसानिरता ये च ये च सत्यव्रता नराः ।
दान्ताः शमपराश्चैव तान्नमस्यामि केशव ॥ १३.६६.१९ ॥
女神之义,我向那些专注于不害、持守真实誓愿、克制自律并一心寻求寂静的人致敬,哦,凯沙瓦。
13.66.20
देवतातिथिपूजायां युक्ता ये गृहमेधिनः ।
कपोतवृत्तयो नित्यं तान्नमस्यामि यादव ॥ १३.६६.२० ॥
我向那些专心供奉诸神与宾客、始终如鸽子般简朴度日的居家者致敬,哦,耶达婆。
13.66.21
येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते ।
शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा ॥ १३.६६.२१ ॥
我永远向那些行事中三目标(法、利、欲)常存而不减,并遵循善人之行的人致敬。
13.66.22
ब्राह्मणाः श्रुतसम्पन्ना ये त्रिवर्गमनुष्ठिताः ।
अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव ॥ १३.६६.२२ ॥
我向那些精通经典、奉行三目标、无贪欲且品性善良的婆罗门致敬,哦,凯沙瓦。
13.66.23
अवन्ध्यकाला येऽलुब्धास्त्रिवर्गे साधनेषु च ।
विशिष्टाचारयुक्ताश्च नारायण नमामि तान् ॥ १३.६६.२३ ॥
我向那些时光从不虚度、在三目标的手段上无贪欲、并具足殊胜行为的人致敬,哦,那罗衍那。
13.66.24
अब्भक्षा वायुभक्षाश्चक सुधाभक्षाश्च ये सदा ।
व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव ॥ १३.६६.२४ ॥
我向那些常以水、风、甘露为食,并奉持种种誓愿的人致敬,哦,摩陀婆。
13.66.25
अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च ।
सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं सदा ॥ १३.६६.२५ ॥
我永远向那些无胎生者、火生者、梵生者,以及从一切众生之我而生者致敬。
13.66.26
नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन् ।
लोकज्येष्ठान्कुलज्येष्ठांस्तमोघ्नँल्लोकभास्करान् ॥ १३.६६.२६ ॥
克里希那啊,我常向这些创造世界的仙人致敬;他们是世界中的长者、家族中的长者,是驱散黑暗者,是世界的太阳。
13.66.27
तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्यदा ।
पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ ॥ १३.६६.२७ ॥
因此,毗瑟尼之后啊,你也应当常常礼敬再生者;无罪者啊,受到敬礼的,值得敬礼者,必定会赐你幸福。
13.66.28
अस्मिँल्लोके सदा ह्येते परत्र च सुखप्रदाः ।
चरन्ते मान्यमाना वै प्रदास्यन्ति सुखं तव ॥ १३.६६.२८ ॥
在此世与来世,他们始终赐人幸福;受到敬重而行走的他们,必定会赐你幸福。
13.66.29
ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च ।
नित्यं सत्ये चाभिरता दुर्गाण्यतितरन्ति ते ॥ १३.६६.२९ ॥
那些始终款待一切客人、始终敬重牛与婆罗门、始终乐于真实的人,他们能渡过困难。
13.66.30
नित्यं शमपरा ये च तथा ये चानसूयकाः ।
नित्यस्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते ॥ १३.६६.३० ॥
那些始终专注于平静的人,同样那些不妒忌的人,始终专心自我研习的人——他们能渡过困难。
13.66.31
सर्वान्देवान्नमस्यन्ति य चैकं वेदमाश्रिताः ।
श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते ॥ १३.६६.३१ ॥
依止一部吠陀、礼敬诸神、怀有信心且克制自己的人,能够度过重重艰难。
13.66.32
तथैव विप्रप्रवरान्नमस्कृत्य यतव्रताः ।
भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते ॥ १३.६६.३२ ॥
同样,礼敬诸位上等婆罗门、坚守誓戒并乐于布施的人,能够度过艰难。
13.66.33
तपस्विनश्च ये नित्यं कौमारब्रह्मचारिणः ।
तपसा भावितात्मानो दुर्गाण्यतितरन्ति ते ॥ १३.६६.३३ ॥
自幼常守梵行的苦行者,以苦行净化自我的人,能够度过艰难。
13.66.34
देवतातिथिभृत्यानां पितॄणां चार्चने रताः ।
शिष्टान्नभोजिनो ये च दुर्गाण्यतितरन्ति ते ॥ १३.६६.३४ ॥
乐于供奉诸神、宾客、仆从与祖先,并食用供奉后剩余之食的人,也能度过艰难。
13.66.35
अग्निमाधाय विधिवत्प्रणता धारयन्ति ये ।
प्राप्तः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते ॥ १३.६६.३५ ॥
依法立火、恭敬守持、并得到苏摩供物的人,能够度过艰难。
13.66.36
मातापित्रोर्गुरुषु च सम्यग्वर्तन्ति ये सदा ।
यथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः ॥ १३.६६.३६ ॥
那些始终善待母亲、父亲与师长的人——"如你一般,吠湿尼族的虎啊"——说完这些,他便沉默了。
13.66.37
तस्मात्त्वमपि कौन्तेय पितृदेवद्विजातिथीन् ।
सम्यक्पूजयसे नित्यं गतिमिष्टामवाप्स्यसि ॥ १३.६६.३७ ॥
因此,昆提之子啊,你也总是恰当地供奉祖先、天神、再生者和客人;你将获得所期望的归宿。