摩诃婆罗多 · 章 13.67
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.67.1
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
त्वत्तोऽहं श्रोतुमिच्छामि धर्मं भरतसत्तम ॥ १३.६७.१ ॥
祖父啊,大智者,精通一切典籍!婆罗多中最优秀的人,我想从您这里听闻法。
13.67.2
शरणागतं ये रक्षन्ति भूतग्रामं चतुर्विधम् ।
किं तस्य भरतश्रेष्ठ फलं भवति तत्त्वतः ॥ १३.६७.२ ॥
婆罗多中最优秀的人啊,那些保护投靠者和四类众生的人,实际上会得到什么果报?
13.67.3
इदं शृणु महाप्राज्ञ धर्मपुत्र महायशः ।
इतिहासं पुरावृत्तं शरणार्थं महाफलम् ॥ १३.६७.३ ॥
聪慧的法之子、大名声者啊,请听:这是一段关于投靠、能带来大果报的古老传说。
13.67.4
प्रपात्यमानः श्येनेन कपोतः प्रियदर्शनः ।
वृषदर्भं महाभागं नरेन्द्रं शरणं गतः ॥ १३.६७.४ ॥
一只被鹰追赶的、外形可爱的鸽子,前来投靠大福的国王伐梨舍达尔bha。
13.67.5
स तं दृष्ट्वा विशुद्धात्मा त्रासादङ्कमुपागतम् ।
आश्वास्याश्वसिहीत्याह न तेऽस्ति भयमण्डज ॥ १३.६७.५ ॥
清净之心的国王看到这只因恐惧而飞到他膝上的鸟,安慰它说:“安心吧,卵生者!你不会有任何恐惧。”
13.67.6
भयं ते सुमहत्कस्मात्कुत्र किं वा कृतं त्वया ।
येन त्वमिह सम्प्राप्तो विसंज्ञो भ्रान्तचेतनः ॥ १३.६७.६ ॥
你的恐惧为何如此之大?因为谁、在哪里、或你做了什么,你才这样惊慌失措、心神迷乱地来到这里?
13.67.7
नवनीलोत्पलापीड चारुवर्ण सुदर्शन ।
दाडिमाशोकपुष्पाक्ष मा त्रसस्वाभयं तव ॥ १३.६७.७ ॥
你佩戴着新鲜的深蓝色睡莲花环,色泽美丽,相貌俊秀,双眼如石榴花与无忧花,不要害怕,你将获得无畏。
13.67.8
मत्सकाशमनुप्राप्तं न त्वां कश्चित्समुत्सहेत् ।
मनसा ग्रहणं कर्तुं रक्षाध्यक्षपुरस्कृतम् ॥ १३.६७.८ ॥
你已来到我的面前,并受到护国之主的庇护,即便在心中,也没有人敢来抓你。
13.67.9
काशिराज्यं तदद्यैव त्वदर्तं जीवितं तथा ।
त्यजेयं भव विस्रब्धः कपोत भयं तव ॥ १३.६७.९ ॥
今日我便为你舍弃迦尸王国与我的性命。鸽子啊,安心吧,愿你的恐惧消散。
13.67.10
ममैतद्विहितं भक्ष्यं न राजंस्त्रातुमर्हसि ।
अतिक्रान्तं च प्राप्तं च प्रयत्नाच्चोपपादितम् ॥ १३.६७.१० ॥
此食物是为我安排的,大王,你不应保护它。先前失去的与现在得到的,都是我以努力获得的。
13.67.11
मांसं च रुधइरं चास्य मज्जा मेदश्च मे हितम् ।
परितोषकरो ह्येष मम माऽस्याग्रतो भव ॥ १३.६७.११ ॥
它的肉、血、骨髓与脂肪对我有益,唯有这些能让我满足。不要挡在它的面前。
13.67.12
तृष्णा मे बाधतेऽत्युग्रा क्षुधा निर्दहतीव माम् ।
मुञ्चैनं नहि शक्ष्यामि राजन्मन्दयितुं क्षुधाम् ॥ १३.६७.१२ ॥
我的渴望极为猛烈地折磨着我,饥饿仿佛要将我焚烧。放了他吧,大王;我将无法平息饥渴。
13.67.13
मया ह्यनुसृतो ह्येष मत्पक्षनखविक्षतः ।
किञ्चिदुच्छ्वासनिःश्वासं न राजन्गोप्तुमर्हसि ॥ १३.६७.१३ ॥
此鸟被我追逐,又被我翅上的爪所伤;哦王啊,你不应当保护它哪怕一丝气息。
13.67.14
यदि स्वविषये राजन्प्रभुस्त्वं रक्षणे नृणाम् ।
खेचरस्य तृषार्तस्य न त्वं प्रभुरथोत्तम ॥ १३.६७.१४ ॥
若你在自己的国土上是保护人民的主宰,哦王啊,那么你并不是这位被饥渴所苦的飞翔者的主宰,哦至上者。
13.67.15
यदि वैरिषु भृत्येषु स्वजनव्यवहारयोः ।
विषयेष्विन्द्रियाणां च आकाशे मा पराक्रम ॥ १३.६७.१५ ॥
若你对敌人、仆从、亲族的交往,以及感官的对象有所掌控,那就不要在天空中显示你的威力。
13.67.16
प्रभुत्वं हि पराक्रम्य सम्यक् पक्षहरेषु ते ।
यदि त्वमिह धर्मार्थी मामपि द्रष्टुमर्हसि ॥ १३.६७.१६ ॥
你的统治应当以勇力施于那些夺人羽翼的人。若你在此追求法与利,你也应当看看我。
13.67.17
श्रुत्वा श्येनस्य तद्वाक्यं राजर्षिर्विस्मयं गतः ।
सम्भाव्य चैनं तद्वाक्यं तदर्थी प्रत्यभाषत ॥ १३.६७.१७ ॥
这位王仙听了鹰的那番话,感到惊异。他思量那番话,并想知道其用意,于是回答了它。
13.67.18
गोवृषो वा वराहो वा मृगो वा महिषोपि वा ।
त्वदथर्मद्य क्रियतां क्षुधाप्रशमनाय ते ॥ १३.६७.१८ ॥
今天为你准备一头牛、或一头野猪、或一只鹿、甚至一头水牛,以平息你的饥饿吧。
13.67.19
शरणागतं न त्यजेयमिति मे व्रतमाहितम् ।
न मुञ्चति ममाङ्गानि द्विजोऽयं पश्य वै द्विज ॥ १३.६७.१९ ॥
凡来投靠者,我绝不舍弃,此誓已牢固立于我心。此再生之鸟不肯放开我的肢体——看吧,鸟啊。
13.67.20
न वराहं न चोक्षाणं न चान्यान्विविधान्द्विजान् ।
भक्षयामि महाराज किमन्नाद्येन तेन मे ॥ १३.६७.२० ॥
我既不吃野猪,也不吃公牛,也不吃其他各种再生之鸟。大王啊,那食物于我有何用?
13.67.21
यस्तु मे विहितो भक्ष्यः स्वयं देवैः सनातनः ।
श्येनाः कपोतान्खादन्ति स्तितिरेषा सनातनी ॥ १३.६७.२१ ॥
诸神自古为我所定的食物乃是:鹰隼食鸽子。这便是永恒的常规。
13.67.22
उशीनर कपोते तु यदि स्नेहस्तवानघ ।
ततस्त्वं मे प्रयच्छाद्य स्वमांसं तुलया धृतम् ॥ १३.६७.२२ ॥
乌尸那罗啊,若你对鸽子怀有慈爱,无罪的人啊,那就现在把你自己的肉,用秤称量后给我。
13.67.23
महाननुग्रहो मेऽद्य यस्त्वमेवमिहात्थ माम् ।
बाढमेव करिष्यामीत्युक्त्वाऽसौ राजसत्तमः ॥ १३.६७.२३ ॥
今日你这样对我说,对我是大恩。那位最优秀的君王说道:“好,我就照你说的去做。”——
13.67.24
उत्कृत्योत्कृत्य मांसानि तुलया समतोलयत् ।
अन्तःपुरे ततस्तस्य स्त्रियो रत्नविभूषिताः ॥ १३.६७.२४ ॥
他一次又一次地割下肉,放在秤上称量。此时,他内宫中佩戴珠宝的妇女们——
13.67.25
हाहाभूता विनिष्क्रान्ताः श्रुत्वा परमदुःखिताः ।
तासां रुदितशब्देन मन्त्रिभृत्यजनस्य च ॥ १३.६७.२५ ॥
他的王后们哀号着,极其悲痛地走了出来;听到哭声后,大臣与仆役也一同出来。
13.67.26
बभूव सुमहान्नादो मेघगम्भीरनिःस्वनः ।
निरुद्धं गगनं सर्वं व्यभ्रं मेघैः समन्ततः ॥ १३.६७.२६ ॥
一阵巨大的声响升起,深沉如雷云的轰鸣;原本无云的整个天空四面八方都被云层覆盖。
13.67.27
मही प्रचलिता चासीत्तस्य सत्येन कर्मणा ॥ १३.६७.२७ ॥
由于他的真实之行,大地震动了。
13.67.28
स राजा पार्श्वतश्चैव बाहुभ्यामूरुतश्च यत् ।
तानि मांसानि सञ्छिद्य तुलां पूरयतेऽशनैः।
तथापि न समस्तेन कपोतेन बभूव ह ॥ १३.६७.२८ ॥
那位国王从两侧、双臂和大腿上割下肉,用肉块填满天平;可是仍不能与那只鸽子相等。
13.67.29
अस्थिभूतो यदा राजा निर्मांसो रुधिरस्रवः ।
तुलां ततः समारूढः स्वं मांसक्षयमुत्सृजन् ॥ १३.६७.२९ ॥
当国王只剩骨架、没有血肉、鲜血淋漓时,他便登上天平,把自己失去的血肉作为献祭。
13.67.30
ततः सेन्द्रास्त्रयो लोकास्तं नरेन्द्रमुपस्थिताः ।
र्भर्यश्चाकाशगैस्तत्र वादिता देवदुन्दुभिः ॥ १३.६७.३० ॥
于是三界连同因陀罗来到那位人主面前;诸Ṛbhu与空中行者在那里敲响了天鼓。
13.67.31
अमृतेनावसिक्तश्च वृषदर्भो नरेश्वरः ।
दिव्यैश्च सुसुखैर्माल्यैरभिवृष्टः पुनःपुनः ॥ १३.६७.३१ ॥
王者伐沙达尔跋,被甘露洒浴,屡次被天界极为悦意的花鬘所覆盖。
13.67.32
देवगन्धर्वसन्घातैरप्सरोभिश्च सर्वतः ।
नृत्तश्चैवोपगीतश्च पितामह इव प्रभुः ॥ १३.६७.३२ ॥
诸天、乾闼婆众与阿布萨拉斯从四面环绕,歌舞不息,主者光耀如同祖父梵天。
13.67.33
हेमप्रासादसम्बाधं मणिकाञ्चनतोरणम् ।
सवैडूर्यमणिस्तम्भं विमानं समधिष्ठितः ॥ १३.६७.३३ ॥
他登上天车,那里金殿林立,宝石与黄金装饰的门楼,琉璃与宝石作柱。
13.67.34
स राजर्षिर्गतः स्वर्गं कर्मणा तेन शाश्वतम् ।
शरणागतेषु चैवं त्वं कुरु सर्वं युधिष्ठिर ॥ १३.६७.३४ ॥
那位王仙因此行而往生永恒的天界。尤incl,你也应当如此,为所有寻求庇护者竭尽所能,坚维德行。
13.67.35
भक्तानामनुरक्तानामाश्रितानां च रक्षिता ।
दयावान्सर्वभूतेषु परत्र सुखमेधते ॥ १३.६७.३५ ॥
护持信徒、忠诚者与依附者,且对一切众生怀有慈悲的君王,在来世享受福乐,日益繁盛。
13.67.36
साधुवृत्तो हि यो राजा सद्वृत्तमनुतिष्ठति ।
किं न प्राप्तं भवेत्तेनि स्वव्याजेनेह कर्मणा ॥ १३.६७.३६ ॥
善行之王遵循善行,此世凭自身之业,又有何所不得?
13.67.37
स राजर्षिर्विशुद्धात्मा धीरः सत्यपराक्रमः ।
काशीनामीश्वरः ख्यातस्त्रिषु लोकेषु कर्मणा ॥ १३.६७.३७ ॥
那位王仙心地纯净、坚定、真正勇武,以其德行在三界闻名,成为迦尸之主。
13.67.38
योऽप्यन्यः कारेयदेवं शरणागतरक्षणम् ।
सोपि गच्छेत तामेव गतिं भरतसत्तम ॥ १३.६७.३८ ॥
若有他人如迦利耶之子,庇护投奔者,他也将到达同样的归宿,婆罗多中最优秀者啊。
13.67.39
इदं वृत्तं हि राजर्षे वृषदर्भस्य कीर्तयन् ।
पूतात्मा वै भवेल्लोके शृणुयाद्यश्च नित्यशः ॥ १३.६७.३९ ॥
王仙啊,颂扬伐沙达尔巴此行之人,并且常常聆听之人,在世间便成为心灵纯净者。