Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.68

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.68.1

किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह ।
कुर्वन्किं कर्म नृपतिरुभौ लोकौ समश्रुते ॥ १३.६८.१ ॥

祖父啊,在国王的一切职责中,什么最为重要?国王行何事便能获得两个世界?

13.68.2

एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत ।
ब्राह्मणानां रक्षणं च पूजा च सुखमिच्छतः ॥ १३.६८.२ ॥

婆罗多之后啊,对于渴望幸福的受灌顶之王而言,最重要的职责便是:保护婆罗门并尊敬他们。

13.68.3

कर्तव्यं पार्थिवेन्द्रेण तथैव भरतर्षभ ।
श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत् ॥ १३.६८.३ ॥

婆罗多中的雄牛啊,诸王之主也应如此行事:应当始终尊敬精通吠陀的婆罗门和年长者。

13.68.4

पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् ।
सांत्वेन भोगदानेन नमस्कारैः सदाऽर्चयेत् ॥ १३.६८.४ ॥

他应当始终以安抚、赐予财物和礼敬来尊重城镇居民与乡村居民,以及博学的婆罗门。

13.68.5

एतत्कृत्यतमं राज्ञो नित्यमेवोपलक्षयेत् ।
यथाऽऽत्मानं यथा पुत्रांस्तथैतान्प्रतिपालयेत् ॥ १३.६८.५ ॥

国王应当始终将此视为最重要的职责:如同保护自己与儿子们那样,也要保护这些人。

13.68.6

ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत् ।
तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते ॥ १३.६८.६ ॥

其中最值得尊敬的人,他应当坚定地予以回敬;当他们安宁之时,整个国家便焕发光彩。

13.68.7

ते पूज्यास्ते नमस्कार्या मान्यास्ते पितरो यथा ।
तेष्वेव यात्रा लोकानां भूतानामिव वासवे ॥ १३.६८.७ ॥

他们值得尊崇,值得礼拜,如父亲般受人敬重。世界的生存之路依赖于他们,正如众生依赖于因陀罗(婆娑婆)。

13.68.8

अभिचारैरुपायैश्च दहेयुरपि चेतसा ।
निःशेपं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः। ॥ १३.६८.८ ॥

若被激怒,他们能以咒术和计谋,甚至以心念焚毁一切;他们凶猛而真正勇武,怒中便能将一切彻底毁灭。

13.68.9

नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः ।
कुपिताः समुदीक्षन्ते दावेषअवग्निशिखा इव ॥ १३.६८.९ ॥

我看不到他们的尽头,四方对他们也并非封闭。他们愤怒时注视,如同森林大火的火焰。

13.68.10

मान्यास्तेषां साधवो ये न निन्द्याश्चाप्यसाधवः ।
बिभ्यत्येषां साहसिका गुणास्तेषामतीव हि।
कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे ॥ १३.६८.१० ॥

他们中的善者值得尊敬,恶者也不值得指责。人们畏惧他们大胆的品质。有些人如被草覆盖的井,另一些则如清澈的天空。

13.68.11

प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे ।
सन्ति चैषामतिशठास्तथैवान्ये तपस्विनः ॥ १३.६८.११ ॥

其中有人以强力行事,有人柔软如棉。有些人极其狡诈,另一些人则是苦行者。

13.68.12

कृषिगोरक्ष्यमप्येके भैक्ष्यमन्येऽप्यनुष्ठिताः ।
चोराश्चान्येऽनृताश्चान्ये तथाऽन्ये नटनर्तकाः ॥ १३.६८.१२ ॥

有人从事耕种与牧牛,有人乞讨为生。有人是盗贼,有人是说谎者,另有人是演员与舞者。

13.68.13

सर्वकर्मसहाश्चान्ये पार्थिवेष्वितरेषु च ।
विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ ॥ १३.६८.१३ ॥

婆罗多族中的雄牛啊,有些婆罗门能胜任各种职业,无论是在国王之中还是在其他人之中;他们具备各种不同的行为规范。

13.68.14

नानाकर्मसु रक्तानां बहुकर्मोपजीविनाम् ।
धर्मज्ञानां सतां तेषां नित्यमवोनुकीर्तयेत् ॥ १३.६८.१४ ॥

应当始终称赞那些专注于各种职业、依靠多种工作为生、通晓法的善人。

13.68.15

पितॄणां देवतानं च मनुष्योरगरक्षसाम् ।
पुराऽप्येते महाभागा ब्राह्मणा वै जनाधिप ॥ १३.६८.१५ ॥

人民之主啊,古时这些大福之婆罗门,也曾受到祖先、诸神、人类、蛇族与罗刹的尊崇。

13.68.16

नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः ।
नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः ॥ १३.६८.१६ ॥

这些再生者,无论诸神、祖先、乾达婆、罗刹、阿修罗还是毕舍遮,都无法战胜。

13.68.17

अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् ।
यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत् ॥ १३.६८.१७ ॥

他们能使非神者成为神,也能使神者变为非神。他们所愿意的人便能成为国王;他们所憎恨的人必遭毁灭。

13.68.18

परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः ।
सत्यं ब्रवीमि ते राजन्विनश्येयुर्न संशयः ॥ १३.६८.१८ ॥

那些不明事理而诽谤婆罗门的人,大王啊,我说的是实话:他们必将灭亡,毫无疑问。

13.68.19

निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरायणाः ।
परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः ॥ १३.६८.१९ ॥

啊,国王,精通毁誉、专注于名声与恶名的再生者(婆罗门),总是对憎恨他们的人发怒。

13.68.20

ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते ।
ब्राह्मणैर्यः पराकृष्टः पराभूयात्क्षणाद्धि सः ॥ १३.६८.२० ॥

婆罗门所赞扬的人便会兴盛;被婆罗门拉下的人,片刻之间便会败亡。

13.68.21

शका यवनकाम्भोजास्तास्ताः क्षत्रियजातयः ।
वृषलत्वं परिगता ब्राह्मणानामदर्शनात् ॥ १३.६८.२१ ॥

塞种、希腊人与甘博阁人——这些与那些刹帝利族——因未见婆罗门,已沦为首陀罗之列。

13.68.22

द्राविडाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः ।
कोलिसर्पा महिपकास्तास्ताः क्षत्रियजातयः ॥ १३.६८.२२ ॥

达罗毗荼人、羯陵伽人、补罗陀人,还有乌尸那罗人;科利萨尔巴人与摩希沙迦人——这些与那些刹帝利族。

13.68.23

वृपलत्वं परिगता ब्राह्मणानामदर्शनात् ।
श्रेयान्पराजयस्तेभ्यो न जयो जयतांवर ॥ १३.६८.२३ ॥

因未见婆罗门,他们已沦为首陀罗。啊,胜利者中最优秀的,被他们击败胜过战胜他们。

13.68.24

यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम् ।
ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः ॥ १३.६८.२४ ॥

纵然杀尽这一切,也不等同于杀一位婆罗门。杀婆罗门是大罪,至上的圣贤如此说。

13.68.25

परिवादो द्विजातीनां न श्रोतव्यः कथञ्चन ।
आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा ॥ १३.६८.२५ ॥

绝不可听信对再生者的诽谤;应低头沉默而坐,或起身离去。

13.68.26

न स जातो जनिष्यो वा पृथिव्यामिह कश्चन ।
यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत् ॥ १३.६८.२६ ॥

在这片大地上,没有人曾经出生,也不会有人出生,敢于与婆罗门为敌而安乐生活。

13.68.27

दुर्ग्राह्यो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी ।
दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि ॥ १३.६८.२७ ॥

用拳头抓住风很难,用手触摸月亮很难,用头顶承地很难,而在这大地上战胜婆罗门也很难。