Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.74

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.74.1

इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः ।
मोहेन परमाविष्टा देवदृष्टेन कर्मणा ॥ १३.७४.१ ॥

世间的人们一再执著于女人,深深为迷惑所controlled,因天神所定的业力。

13.74.2

स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम् ।
अत्र मे संशयस्तीव्रो हृदि सम्परिवर्तते ॥ १३.७४.२ ॥

女人对男人也是如此——这是世人亲眼所见的事实。此事在我心中翻腾着强烈的疑惑。

13.74.3

कथमासां नराः सङ्गं कुर्वते कुरुनन्दनः ।
स्त्रियो वातेषु रज्यन्ते विरज्यन्ते च ताः पुनः ॥ १३.७४.३ ॥

俱卢的喜悦者啊!人们如何与这些女人结合?女人如风般被染着,然后又再次离弃。

13.74.4

इति ताः पुरुषव्याघ्र कथं शक्यास्तु रक्षितुम् ।
प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि ॥ १३.७४.४ ॥

人中之虎啊!男人如何能守护这样的女人?请你在此为我解说。

13.74.5

एत्वा हि स्वीयमायाभिर्वञ्चयन्तीह मानवान् ।
न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः ॥ १३.७४.५ ॥

她们来到此间,以自身的幻术欺骗世人;落入她们掌中的男子,没有一人能够脱身。

13.74.6

गावो नवतृणानीव गृह्णन्त्येता नवन्नवम् ॥ १३.७४.६ ॥

如同母牛反复取食新草,这些女人也反复接纳一个又一个新的男人。

13.74.7

शम्बरस्य च या माया माया या नमुचेरपि ।
बलेः कुम्भीनसेश्चैव सर्वास्तां योषितो विदुः ॥ १३.७४.७ ॥

无论是商跋罗的幻术、那穆吉的幻术,还是钵利与鸠槃那西的幻术,女人都知道这一切。

13.74.8

हसन्तं प्रहसन्त्येता रुद्रन्तं प्ररुदन्ति च ।
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः ॥ १३.७४.८ ॥

对笑者,她们便随之而笑;对哭者,她们便随之而哭。对于不喜欢的人,她们也以甜言蜜语,随着时机的推移将其拉拢。

13.74.9

यदि जिह्वासहस्रं स्याज्जीवेच्च शरदां शतम् ।
अनन्यकर्मा स्त्रीदोषाननुक्त्वा निधनं व्रजेत् ॥ १३.७४.९ ॥

即使有千条舌头、活到百岁,专心致志之人也会在未说尽女人的过失之前便死去。

13.74.10

उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ।
स्त्री बुद्ध्या न विशिष्येत तास्तु रक्ष्याः कथं नरैः ॥ १३.७४.१० ॥

即便是乌莎纳斯所知的学问,与毗诃娑帕蒂所知的,也无法胜过女人的智慧。那么男人又如何能守护她们呢?

13.74.11

अनृतं सत्यमित्याहुः सत्यं चापि तथाऽनृतम् ।
इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह।
दोषास्पदेऽशुचौ देहे ह्यासां सक्तास्त्वहो नराः ॥ १३.७४.११ ॥

人们说虚假即是真实,真实也同样是虚假。英雄啊,这样的女人,人们如何能好好守护?唉,人们却迷恋于这充满过失、污秽不净的身体。

13.74.12

स्त्रीणां बुद्ध्यर्थनिष्कर्षादर्थशास्त्राणि शत्रुहन् ।
बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै ॥ १३.७४.१२ ॥

灭敌者啊,我认为,正是以毗诃娑帕蒂等贤人为首的智者,编写了治国之论,专为探明女子智慧中的真意。

13.74.13

संपूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु ।
अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रियः ॥ १३.७४.१३ ॥

受男人尊敬时,她们扰乱男人的心;大王啊,被轻慢时,女人同样扰乱人心。

13.74.14

इमाः प्रजा महापाहो धार्मिक्य इति नः श्रुतम् ॥ १३.७४.१४ ॥

大力者啊,我们听说这些女人是有德行的。

13.74.15

सत्कृतासत्कृताश्चापि विकुर्वन्ति मनः सदा ।
कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान् ॥ १३.७४.१५ ॥

无论受尊敬还是被轻慢,她们总是扰乱人心。谁能保护她们?这是我的大疑惑。

13.74.16

तथा ब्रूहि महाभाग कुरूणां वंशवर्धन ।
यदि शक्या कुरुश्रेष्ठ रक्षा तासां कदाचन। ॥ १३.७४.१६ ॥

那么请说吧,大福者,增益库鲁家族的人。库鲁之最,如果保护她们曾经可能,就请说。

13.74.17

कर्तुं वा कृतपूर्वं वा तन्मे व्याख्यातुमर्हसि ॥ १३.७४.१७ ॥

无论这件事能否去做,或从前是否做过,你都应该为我解释。