Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.76

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.76.1

ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः ।
इदमन्तरमित्येवमभ्यगात्तमथाश्रमम् ॥ १३.७६.१ ॥

于是某时,天神之主因灵身而持神妙之形,心想“此即良机”,便来到那处修道之所。

13.76.2

रूपमप्रतिमं कृत्वा लोभनीयं जनाधिपः ।
दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम् ॥ १३.७६.२ ॥

化作无与伦比、令人倾心的形貌,这位人主变得极其俊美,走入了那处修道之所。

13.76.3

स ददर्श तमासीनं विपुलस्य कलेबरम् ।
निश्चेष्टं स्तब्धनयनं यताऽऽलेख्यगतं तथा ॥ १३.७६.३ ॥

他看见毗布罗的身体端坐在那里,纹丝不动,目光凝滞,仿佛画中之像。

13.76.4

रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम् ।
पद्मपत्रविशालाक्षीं सम्पूर्णेन्दुनिभाननाम् ॥ १३.७६.४ ॥

还有容光妩媚的鲁芝,腰臀丰满,乳房饱满,双眼宽大如莲瓣,面容如满月。

13.76.5

सा तमालोक्य सहसा प्रत्युत्तातुमियेष ह ।
रूपेण विस्मिता कोऽसीत्यथ वक्तुमिवेच्छती ॥ १३.७६.५ ॥

她一见他,便忽然想要起身;为他的容貌所惊,仿佛想要问道:“你是谁?”

13.76.6

उत्थातुकामा तु सती विष्टव्धा विपुलेन सा ।
निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् ॥ १३.७६.६ ॥

那欲起身的贞妇却被毗布罗所制,不能动弹。人中之主啊,她连身体也无法移动。

13.76.7

तामाबभाषे देवेन्द्रः साम्ना परमवल् ।
त्वदर्थमागतं विद्धि देवेन्द्र मां शुचिस्मिते ॥ १३.७६.७ ॥

众神之主以极温柔的话语对她说:“纯净微笑的你,要知道我是为你而来。”

13.76.8

क्लिश्यमानमनङ्गेन त्वत्सङ्कल्पभवेन ह ।
तत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते ॥ १३.७६.८ ॥

我被由你的心念所生的无身者(爱神)折磨。因此,美眉的人啊,满足我吧,时间正在流逝。

13.76.9

तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः ।
गुरुपत्नयाः शरीरस्थो ददर्श त्रिदसाधिपम् ॥ १३.७६.९ ॥

仙人毗补罗听见帝释如此说话,他栖身于师母的身中,看见了诸神之主。

13.76.10

न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता ।
वक्तुं च नाशकद्राजन्विष्टब्दा विपुलेन सा ॥ १३.७६.१० ॥

国王啊,那位无可指责的女子既不能起身,也不能说话,因为她被毗补罗所制,国王啊。

13.76.11

आकारं गुरुपत्न्यास्तु स विज्ञाय भृगूद्वहः ।
निजय्नाह महातेजा योगेन बलवत्प्रभो।
बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः ॥ १३.७६.११ ॥

这位婆粒古族的俊杰、大威光者,了解了师母的情状,便凭借瑜伽的力量强力制止了她;主啊,他以瑜伽之缚束缚了她的一切感官。

13.76.12

तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः ।
उवाच व्रीहितो राजंस्तां योगबलमोहिताम् ॥ १३.७६.१२ ॥

看见她纹丝不动,舍招的夫君又开口说话了。国王啊,他有些羞愧,对被瑜伽之力迷惑的她说道。

13.76.13

एह्येहीति ततः सा तु प्रतिवक्तुमियेष तम् ।
स तां वाच्यं गुरोः पत्न्या विपुलः पर्यवर्तयत् ॥ १३.७६.१३ ॥

“来吧,来吧”——那时她想回答他;但毗布罗改变了师母应说的话。

13.76.14

भोः किमागमने कृत्यमिति तस्यास्तु निःसृता ।
वक्त्राच्छशाङ्कसदृशाद्वाणी संस्कारभूषणा ॥ १३.७६.१४ ॥

“哦,你来的目的是什么?”——这样的话从她如月亮般的面容中吐出,带着礼仪的修饰。

13.76.15

वीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा ।
पुरन्दरश्च संत्रस्तो बभूव विमना भृशम् ॥ १३.७६.१५ ॥

她感到羞愧,说完那些话后便为他人所controlled;摧毁城堡的因陀罗也极为惊恐,心中十分沮丧。

13.76.16

स तद्वैकृतमालक्ष्य देवराजो विशांपते ।
अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा ॥ १३.७६.१६ ॥

人主啊,诸天之王千眼者察觉了那异常,便以天眼望去。

13.76.17

स ददर्श मुनिं तस्याः शरीरान्तरगोचरम् ।
प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगम् ॥ १३.७६.१७ ॥

他看见那位仙人在她的身体之内,如镜中的影像,居于师母的身体之中。

13.76.18

स तं घोरेण तपसा युक्तं दृष्ट्वा पुरंदरः ।
प्रावेपत सुसंत्रस्तो व्रीडितश्च तदा विभो ॥ १३.७६.१८ ॥

见他具足可怕的苦行,摧毁城堡的因陀罗极为惊恐而颤抖;啊,大能者,那时他也感到羞愧。

13.76.19

विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः ।
स्वकलेबरमाविश्य शक्रं भीतमथाब्रवीत् ॥ १३.७६.१९ ॥

维普罗释放了上师之妻,这位大苦行者进入自己的身体,对受惊的因陀罗说道。

13.76.20

अजितेन्द्रिय दुर्बुद्धे पापात्मक पुरंदर ।
न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा ॥ १३.७६.२० ॥

无自制的、心术不正的、罪恶的补兰达罗啊!天神与凡人不会长久地尊崇你。

13.76.21

किन्नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम् ।
गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः ॥ १३.७६.२१ ॥

帝释天啊,你是否忘记了?你不记得被乔达摩释放,身上带着阴门之印记的事吗?

13.76.22

जाने त्वां बालिशमतिमकृतात्मानमस्थिरम् ।
मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् ॥ १३.७६.२२ ॥

我知道你心智愚昧、不能自制、反复无常。此女由我守护。愚蠢的罪人啊,照你来时的路回去吧。

13.76.23

नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा ।
कृपायमानस्तु न ते दग्धुमिच्छामि वासव ॥ १३.७६.२३ ॥

愚蠢的心啊,我今日不会以我的光辉焚烧你。但因怜悯所动,婆薮啊,我不愿焚烧你。

13.76.24

स च घोरतमो धीमान्गुरुर्मे पापचेतसम् ।
दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा ॥ १३.७६.२४ ॥

我那位最为可怖、睿智的上师,见你心怀罪恶,今日必以怒火燃烧的眼睛将你焚尽。

13.76.25

नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः ।
मा गमः ससुतामात्यः क्षयं ब्रह्मबलार्दितः ॥ १३.७६.२५ ॥

帝释啊,你不应再如此;你应当尊敬婆罗门。不要被梵力所困,与你的儿子和大臣一同走向毁灭。

13.76.26

अमरोस्मीति यद्बुद्धिं समास्थाय प्रवर्तते ।
मावमंस्था न तपसा न साध्यं नाम किञ्चन ॥ १३.७६.२६ ॥

你以'我是不死者'的念头行事,不要轻视苦行;凭借苦行,没有什么是不可成就的。

13.76.27

तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः ।
न किञ्चिदुक्त्वा व्रीडार्तस्तत्रैवान्तरधीयत ॥ १३.७६.२७ ॥

帝释听了大心的毗puła的这番话,因羞愧而痛苦,什么也没说,就在那里消失了。

13.76.28

मुहूर्तयाते तस्मिंस्तु देवशर्मा महातपाः ।
कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम् ॥ १३.७६.२८ ॥

过了片刻,大苦行者提婆沙尔曼按自己的心愿完成祭祀后,回到了他的修行处。

13.76.29

आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत् ।
रक्षितां गुरेव भार्यां न्यवेदयदनिन्दिताम् ॥ १३.७६.२९ ॥

王啊,老师回来后,行善事的毗补罗将受他守护、无可指摘的妻子交还给了老师。

13.76.30

अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः ।
विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः ॥ १३.७६.३० ॥

毗补罗心性平和、敬爱老师,向老师恭敬行礼后,像从前一样毫无畏惧地侍奉他。

13.76.31

विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया ।
निवेदयामास तदा विपुलः शक्रकर्म तत् ॥ १३.७६.३१ ॥

于是,毗布罗向正在休息、与妻子同坐的他禀报了帝释天的那件事。

13.76.32

तच्छुत्वा स मुनिस्तुष्टों विपुलस्य प्रतापवान् ।
बभूव शीलवृत्ताभ्यां तपसा नियमेन च ॥ १३.७६.३२ ॥

闻此,那位威严的仙人因毗布罗的品性、行为、苦行与戒律而心生欢喜。

13.76.33

विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि तत्प्रभुः ।
धर्मे च स्थिरतां दृष्ट्वा साधुसाध्वित्यभाषत ॥ १३.७६.३३ ॥

那位主人见毗布罗对师尊的行为、内心的虔诚与对法的坚定,便说道:“善哉,善哉!”

13.76.34

प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम् ।
वरेण च्छन्दयामास देवशर्मा महामतिः ॥ १३.७६.३४ ॥

德瓦夏尔曼,正直而智慧宏大,赞叹奉行法的弟子后,以一项恩赐相赠。

13.76.35

स्थितिं च धर्मे जग्राह स तस्माद्गुरुवत्सलः ।
अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः ॥ १३.७६.३५ ॥

从此,他敬爱师尊,安住于法;得到师尊允许后,他修习无上的苦行。

13.76.36

तथैव देवशर्मापि सभार्यः स महातपाः ।
निर्भयो बलवृत्रघ्नाच्चचार विजने वने ॥ १३.७६.३६ ॥

同样,大苦行者德瓦夏尔曼即使不畏惧杀死弗栗多的因陀罗之力,也与妻子在荒僻的森林中漫游。