Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.77

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.77.1

विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः ।
तपोयुक्तमथात्मानममन्यत स वीर्यवान् ॥ १३.७७.१ ॥

毗富罗遵从师尊之言,修习严酷的苦行。具足苦行的这位有力者,自认为已经圆满。

13.77.2

स तेन कर्मणा स्वर्गं पृथिवीं पृथिवीपते ।
चचार गतभीः प्रीतो लब्धकीर्तिवरो नृप ॥ १३.७७.२ ॥

凭着那一善行,他无畏而欢喜地行于天界与大地,获得了名声与恩赐。大王啊!

13.77.3

उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः ।
कर्मणा तेन कौरव्य तपसा विपुलेन च ॥ १३.७७.३ ॥

凭着那一善行与广大的苦行,这位有力者自认为征服了两个世界。俱卢后裔啊!

13.77.4

अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन ।
रुच्या भगिन्या आदानं प्रभूतदनधान्यवत् ॥ १३.७७.४ ॥

此后过了一段时间,俱卢之喜啊!在如基的姐妹家中,收受了许多食物与谷物。

13.77.5

एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना ।
बिभ्रती परमं रूपं जगामाथ विहायसा ॥ १३.७७.५ ॥

就在此时,一位天界的绝色女子,显现至上的美貌,凌空而行。

13.77.6

तस्याः शरीरात्पुष्पाणि पतितानि महीतले ।
तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत ॥ १३.७७.६ ॥

她身上落下了带着神圣香气的花朵,落在地上,离那隐修处不远。婆罗多啊!

13.77.7

तान्यगृह्णात्ततो राजन्रुचिर्ललितलोचना ।
तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत् ॥ १३.७७.७ ॥

大王啊,于是美目的卢遮取了那些花;此时,那位被邀请的客人从她的肢体中迅速出现。

13.77.8

तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती ।
भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै ॥ १३.७७.८ ॥

孩子啊,她的长姐名叫波罗跋婆提,成为了盎伽之主持车王的妻子。

13.77.9

पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी ।
आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहम् ॥ १३.७७.९ ॥

她把那些花插在发间,这位肤色姣好的女子受邀后,便前往盎伽之主的府邸。

13.77.10

पुष्पाणि तानि दृष्ट्वा तु तदाङ्गेन्द्रवराङ्गना ।
भगिनीं चोदयामास पुष्पार्थे चारुलोचना ॥ १३.७७.१० ॥

那位盎伽之主的优秀王后见了那些花,这位美目女子便催促她的妹妹去为她取花。

13.77.11

सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना ।
भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत ॥ १३.७७.११ ॥

面容姣好的卢遮将一切告诉了丈夫;仙人也欣然认可了妹妹所说的一切。

13.77.12

ततो विपुलमानाय्य देवशर्मा महातपाः ।
पुष्पार्थे चोदयामास गच्छगच्छेति भारत ॥ १३.७७.१२ ॥

于是大苦行者提婆沙摩带来了大量(花朵),催促她去取花,说道:“去吧,去吧”,婆罗多啊。

13.77.13

विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः ।
स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह ॥ १३.७७.१३ ॥

大苦行者毗富罗不加思索地遵从师命,说道:“就这样吧。”王啊,他便前往那个地方。

13.77.14

यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात् ।
अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि ॥ १३.७७.१४ ॥

在那些花从天空坠落的地方,还有其他未曾枯萎的花。

13.77.15

स ततस्तानि जग्राह दिव्यानि रुचिराणि च ।
प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत ॥ १३.७७.१५ ॥

于是他取了那些天界的美丽之花,它们由他自己的苦行而得,散发着天界的香气,婆罗多啊。

13.77.16

सम्प्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः ।
तदा जगाम तूर्णं च चम्पां चम्पकमालिनीम् ॥ १३.७७.१६ ॥

他心中欢喜,遵从师长之命,得到那些花后,迅速前往以金色花环装饰的占婆城。

13.77.17

स वने निर्जने तात ददर्श मिथुनं नृणाम् ।
चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम् ॥ १३.७७.१७ ॥

在那片荒寂的森林里,亲爱的,他看见一对男人像车轮一样旋转,手牵着手。

13.77.18

तत्रैकस्तूर्णमगमत्तत्पदे च विवर्तयन् ।
एकस्तु न तदा राजंश्चक्रतुः कलहं ततः ॥ १३.७७.१८ ॥

其中一人急速离去,循着另一人的足迹旋转;而另一人,王啊,当时并未引起任何争吵。

13.77.19

त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथाऽपरः ।
पतितेति च तौ राजन्परस्परमथोचतुः ॥ १३.७७.१९ ॥

一人说:“你走得很快。”另一人说:“不是。”王啊,他们两人彼此说:“它已经坠落了。”

13.77.20

तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा ।
सहसोद्दिश्य विपुलं ततो वाक्यमथोचतुः ॥ १३.७७.२० ॥

两人这样争执时,当时便立下了这个誓言。随后,他们突然对毗浦罗说了这些话。

13.77.21

आवयोरनृतं प्राह यस्तस्याभूद्द्विजस्य वै ।
विपुलस्य परे लोके या गतिः सा भवेदिति ॥ १३.७७.२१ ॥

“我们两人中谁说了假话,那个婆罗门在来世所得的归宿,就让毗浦罗也得到吧。”

13.77.22

एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत् ।
एवं तीव्रतपाश्चाहं कष्टश्चायं परिश्रमः ॥ १३.७७.२२ ॥

毗浦罗听后,面容变得沮丧。“我的苦行如此严厉,这番辛劳也如此痛苦。”

13.77.23

मिथुनस्यास्य किं मे स्यात्कृतं पापं यथा गतिः ।
अनिष्टा सर्वभूतानां कीर्तिताऽनेन मेऽद्य वै ॥ १३.७७.२३ ॥

“我对这一对夫妇犯了什么罪,以致我的归宿如此?今天他为我宣告了一个对众生都不吉祥的归宿。”

13.77.24

एवं सञ्चिन्तयन्नेव विपुलो राजसत्तम ।
अवाङ्मुखो दीनमना दध्यौ दुष्कृतमात्मनः ॥ १३.७७.२४ ॥

王中之最,他这样思量时,毗浦罗低着头,心情沮丧,反思自己的恶行。

13.77.25

ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः ।
अपश्यद्दीव्यमानान्वै लोभामर्षान्वितांस्तथा ॥ १३.७७.२५ ॥

随后他看见另外六人正用金银骰子博弈,他们充满贪欲与怨恨。

13.77.26

कुर्वतः शपथं तेन यः कृतो मिथुनेन तु ।
विपुलं वै समुद्दिश्य तेपि वाक्यमथाब्रुवन् ॥ १३.७७.२६ ॥

当那对夫妇针对毗布罗立下誓言时,他们也说出了这些话。

13.77.27

लोभमास्थाय योऽस्माकं विषमं कर्तुमुत्सहेत् ।
विपुलस्य परे लोके या गतिस्तामवाप्नुयात्। ॥ १३.७७.२७ ॥

我们之中若有人贪恋贪欲而胆敢不公地对待毗布罗,愿他在彼世获得毗布罗所遭受的那种归宿。

13.77.28

एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसङ्करम् ।
जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः ॥ १३.७७.२८ ॥

毗布罗听了这话,却看不到自己从出生以来所犯的任何破坏法度之事,哦,俱卢之子。

13.77.29

स प्रदध्यौ तथा राजन्नग्नावग्निरिवाहितः ।
दह्यमानेन मनसा शापं श्रुत्वा तथाविधम् ॥ १३.७७.२९ ॥

君王啊,他陷入沉思,如同火中燃起的火;听到这样的诅咒,他的心如焚烧一般。

13.77.30

तस्य चिन्तयतस्तात बह्वीर्वाचो निशम्य तु ।
इदमासीन्मनसि च रुच्या रक्षणकारितम् ॥ १३.७७.३० ॥

亲爱的,他沉思之时,听了许多话,心中便生出此念:出于自愿,要加以守护。

13.77.31

लक्षणं लक्षणेनैव वदनं वदनेन च ।
विधाय न मया चोक्तं सत्यमेतद्गुरोस्तथा ॥ १३.७७.३१ ॥

以印记认出印记,以面容认出面容,我没有把这件事告诉老师;这是真的。

13.77.32

एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा ।
अमन्यत महाभाग तथा तच्च न संशयः ॥ १३.७७.३२ ॥

俱卢的后裔啊,大福者啊,那时他在心中把此事视为大罪;确实如此,毫无疑问。

13.77.33

स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ ।
पूजयामास च गुरुं विधिवत्स गुरुप्रियः ॥ १३.७७.३३ ॥

他来到瞻波城,向老师奉上花朵;他深得老师喜爱,依照规矩恭敬地礼拜了老师。