摩诃婆罗多 · 章 13.88
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.88.1
तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा ।
भार्या चास्य महाभागा तन्मे ब्रूहि पितामह ॥ १३.८८.१ ॥
那婆罗门消失之后,国王那时做了什么?他那位大福的妻子又做了什么?祖父,请告诉我。
13.88.2
अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया ।
परिश्रान्तो निववृते व्रीडितो नष्टचेतनः ॥ १३.८८.२ ॥
没有看见那位仙人与他的妻子在一起,国王疲惫、羞愧、神志恍惚地返回了。
13.88.3
स प्रविश्य पुरीं दीनो नाभ्यभाषत किञ्चन ।
तदेव चिन्तयामास च्यवनस्य विचेष्टितम् ॥ १३.८८.३ ॥
他沮丧地走进城中,什么也没说;他只是不断思索着车耀那奇异的举动。
13.88.4
अथ शून्येन मनसा प्रविवेश गृहं नृपः ।
ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम् ॥ १३.८८.४ ॥
于是,国王心神恍惚地走进屋中,看见那位婆利固之子正躺在床上。
13.88.5
विस्मितौ तमृषिं दृष्ट्वा तदाश्चर्यं विचिन्त्य च ।
दर्शनात्तस्य तु तदा विश्रान्तौ सम्बभूवतुः ॥ १३.८८.५ ॥
两人见到那位仙人,都感到惊讶;思索这奇迹,又因见到他,二人这才得以安歇。
13.88.6
यथास्थानं ततो गत्वा तत्पादौ संववाहतुः ।
अथापरेण पार्श्वेन सुष्वाप स महामुनिः ॥ १३.८८.६ ॥
随后,他们回到原处,为他按摩双脚;然后那位大仙转向另一侧睡去了。
13.88.7
तेनैव च स कालेन प्रत्यबुद्ध्यत वीर्यवान् ।
न च तौ चक्रतुः किञ्चिद्विकारं भयशङ्कितौ ॥ १३.८८.७ ॥
就在此时,那位有威力的仙人醒来了;惊恐不安的二人毫无动静。
13.88.8
प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशाम्पते ।
तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत ॥ १३.८८.८ ॥
醒来后,仙人对他们说:“人民之主啊,婆罗多之子啊,请给我涂油,我要沐浴。”
13.88.9
तौ तथेति प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ ।
शतपाकेन तैलेन महार्हेणोपतस्थतुः ॥ १३.८८.९ ॥
二人答应说:“好吧。”饥饿疲惫的他们捧着经过百次熬煮的珍贵油来到他面前。
13.88.10
ततः सुखासीनमृषिं वाग्यतौ संववाहतुः ।
न च पर्याप्तमित्याह भार्गवः सुमहातपाः ॥ १३.८८.१० ॥
接着,他们默默地为安坐的仙人按摩;但那位大苦行的婆咎罗说:“这还不够。”
13.88.11
यदा तौ निर्विकारौ तु लक्षमायास भार्गवः ।
तत उत्थाय सहसा स्नानशालां विवेश ह ॥ १३.८८.११ ॥
婆咎罗见二人毫无变化,便突然起身,走进了浴室。
13.88.12
क्लृप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम् ।
असत्कृत्य च तत्सर्वं तत्रैवान्तरधीयत ॥ १३.८८.१२ ॥
然而那里早已备好了配得上国王的沐浴用品;他却轻慢地对待这一切,一切便在那里消失了。
13.88.13
स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा ।
नासूयां चक्रतुस्तौ च दम्पती भरतर्षभ ॥ १३.८८.१३ ॥
国王注视之时,那位仙人再次;婆罗多的雄牛啊,那对夫妻并未生出嫉妒。
13.88.14
अथ स्नातः स भगवान्सिंहासनगतः प्रभुः ।
दर्शयामास कुशिकं सभार्यं कुरुनन्दन ॥ १३.८८.१४ ॥
此后,那位尊贵的主人沐浴后坐在宝座上,向库希卡及其妻子展示,哦,库鲁之欢。
13.88.15
संहृष्टवदनो राजा सभार्यः कुशिको मुनिम् ।
सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत् ॥ १३.८८.१५ ॥
喜悦面容的国王库希卡与妻子一同谦恭、镇定地向仙人禀告:食物已备好。
13.88.16
आनीयतामिति मुनिस्तं चोवाच नराधिपम् ।
स राजा समुपाजह्रे तदन्नं सह भार्यया ॥ १३.८८.१६ ॥
仙人对那位人主说:“拿来吧。”国王便与妻子一同端来了那食物。
13.88.17
मांसप्रकारान्विविधाञ्शाकानि विविधानि च ।
लेह्यपिष्टविकारांश्च पानकानि लघूनि च ॥ १३.८८.१७ ॥
各式肉类、各样蔬菜、可舔食与磨碎的菜肴,以及清淡的饮品。
13.88.18
रसालापूपकांश्चित्रान्मोदकानथ षड्रसान् ।
रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम् ॥ १३.८८.१८ ॥
甜羹、各式饼食、甜点、六味之食、多种汁液、山林之物以及适合仙人的餐食。
13.88.19
फलानि च विचित्राणि राजभोज्यानि भूरिशः ।
बदरेङ्गुदकाश्मर्यभल्लातकफलानि च ॥ १३.८८.१९ ॥
还有许多适合国王享用的奇异果实:枣、沙枣、石榴类果与毗黎勒之果。
13.88.20
गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम् ।
सर्वमाहारयामास राजा शापभयान्मुनेः ॥ १३.८८.२० ॥
无论是居家者的食物,还是林居者的食物,国王都命人全部取来,因惧怕仙人的诅咒。
13.88.21
अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत् ।
ततः सर्वं समानीय तच्च शय्यासनं मुनिः ॥ १३.८८.२१ ॥
于是这一切都摆在了遮和那面前。随后仙人把所有东西聚集起来,连同床榻与座位。
13.88.22
वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह ।
सर्वमादीपयामास च्यवनो भृगुनन्दनः ॥ १३.८८.२२ ॥
遮和那(婆利固之子)用华美的衣物将一切连同餐具遮盖,然后全部点燃。
13.88.23
न च तौ चक्रतुः क्रोधं दम्पती सुमहाव्रतौ ।
तयोः सम्प्रेक्षतोरेव पुनरन्तर्हितोऽभवत् ॥ १३.८८.२३ ॥
这对发了大愿的夫妇没有生气;就在他们注视之中,他又消失了。
13.88.24
तथैव च स राजर्षिस्तस्थौ तां रजनीं तदा ।
सभार्यो वाग्यतः श्रीमान्न चकोपं समाविशत् ॥ १३.८८.२४ ॥
那位王仙也同样,与妻子一起,守口不语,整夜站立,怒气并未侵入他的心中。
13.88.25
नित्यसंस्कृतमन्नं तु विविधं राजवेश्मनि ।
शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः ॥ १३.८८.२५ ॥
王宫中常备各种食物,有上好的床榻,还有许多香水的洒浇。
13.88.26
वस्त्रं च विविधाकारमभवत्समुपार्जितम् ।
न शशाक ततो द्रष्टमन्तरं च्यवनस्तदा ॥ १३.८८.२६ ॥
还收集了各式各样的衣物,那时车耀找不到其中任何不妥之处。
13.88.27
पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम् ।
सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् ॥ १३.८८.२७ ॥
那位婆罗门仙人又对俱舍迦王说:"带着我和妻子,乘你的车快速送我到我所指之处。"
13.88.28
तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम् ।
क्रीडारथोस्तु भगवन्नुत साङ्ग्रामिको रथः ॥ १३.८८.२८ ॥
国王毫不犹豫地对那位苦行富足者说:"好吧。尊者,是要游乐的车,还是战车?"
13.88.29
इत्युक्तः स मुनी राज्ञा तेन हृष्टेन तद्वचः ।
च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम् ॥ १३.८८.२९ ॥
国王这样说后,那位征服敌城的仙人车耀听了这位欢喜之王的话,欢喜地回答道。
13.88.30
सज्जीकुरु रथं क्षिप्रं यस्ते साङ्ग्रामिको मतः ।
सायुधः सपताकश्च शक्तीकनकयष्टिमान् ॥ १३.८८.३० ॥
快速准备好你那被视为战车的车子,配备武器、旗帜、长矛和金杖。
13.88.31
किंकिणीस्वननिर्घोषो युक्तस्तोरणकल्पनैः ।
गदास्वङ्गनिबद्धश्च परमेषुशतान्वितः ॥ १३.८८.३१ ॥
铃铛叮当作响,套好车驾,饰以拱形装饰,缚有铁锤与长剑,并配备百支上等箭矢。
13.88.32
ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम् ।
भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा ॥ १३.८८.३२ ॥
于是他说“就这样吧”,备好了大车,将妻子置于左侧车辕座位,自己则坐于右侧。
13.88.33
त्रिदण्डं वज्रसूच्यग्रं प्रतोदं तत्र चादधत् ।
सर्वमेतत्तथा दत्त्वा नृपो वाक्यमऽथाब्रवीत् ॥ १३.८८.३३ ॥
他还在那里放置了一根三段的刺棒,尖端如金刚石。把这一切交付之后,国王便说了这些话。
13.88.34
भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दन ।
यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः ॥ १३.८८.३४ ॥
“尊者,车应往何处去?请说吧,婆利古之子。婆罗门仙人,您说往哪里,您的车便往哪里去。”
13.88.35
एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम् ।
इतः प्रभृति यातव्यं पदकम्पदकं शनैः ॥ १३.८८.३५ ॥
被这样询问之后,尊者回答那位国王说:“从此以后,要一步一步地、慢慢地前行。”
13.88.36
श्रमो मम यथा न स्यात्तथा मच्छन्दचारिणौ ।
सुसुखं चैव वोढव्यो जनः सर्वश्च पश्यतु ॥ १३.८८.३६ ॥
为使我不致疲劳,请让那些听从我心意而行走的(牲畜)十分安稳地拉载我,并让所有人都看见这一切。
13.88.37
नोत्सार्याः पथिकाः केचित्तेभ्योदास्ये वसु ह्यहम् ।
ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्तिमां पथि ॥ १३.८८.३७ ॥
不可驱赶路上的任何行人;我要把财富赐予他们,也赐予在此路上请求满足心愿的婆罗门。
13.88.38
सर्वान्दास्याम्यशेषेण धनं रत्नानि चैव हि ।
क्रियतां निखिलेनैतन्मा विचारय पार्थिव ॥ १३.८८.३८ ॥
我要把财富和珠宝全部赐予每一个人,毫无遗漏。国王啊,请完全照办,不要犹豫。
13.88.39
तस्य तद्वचनं श्रुत्वा राजा भृत्यांस्तथाऽब्रवीत् ।
यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः ॥ १३.८८.३९ ॥
国王听了他的话,便对仆人们说:凡是仙人所要求的,都应毫不犹豫地给予。
13.88.40
ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम् ।
कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः ॥ १३.८८.४० ॥
随后又赐予许多珠宝、女子、挽畜、山羊绵羊、成品与半成品的货物、黄金,以及如山一般的大象。
13.88.41
अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः ।
हाहाभूतं च तत्सर्वमासीन्नगरमार्तवत् ॥ १३.८८.४१ ॥
国王和所有大臣都跟随那位仙人而去;整座城市充满哀号,仿佛陷入了悲痛之中。
13.88.42
तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रतोदितौ ।
पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः ॥ १३.८८.४२ ॥
那两者突然被尖锐的刺棒刺赶;背部与腰侧被刺穿,它们却毫不动摇地拉着前行。
13.88.43
वेपमानौ निराहारौ पञ्चाशद्रात्रकर्शितौ ।
कथंचिदूहतुर्धैर्याद्दम्पती तं रथोत्तमम् ॥ १३.८८.४३ ॥
二人颤抖着,禁食,历经五十夜而消瘦,凭借坚毅勉强拉动那辆上好的战车。
13.88.44
बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम् ।
ददृशाते महाराज पुष्पिताविव किंशुकौ ॥ १३.८८.४४ ॥
大王啊,二人多次重伤,伤口流血,看起来就像盛开的金索树。
13.88.45
तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकसमाकुलः ।
अभिशापभयत्रस्तो न तं किञ्चिदुवाच ह ॥ १३.८८.४५ ॥
城中之人见到他们,极为悲痛,因惧怕诅咒,竟一言未对他说。
13.88.46
द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम् ।
क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नेह शुक्नुमः ॥ १३.८८.४६ ॥
众人两两相议道:“看那苦行的力量!我们虽然愤怒,却连看这位最优秀的仙人一眼都不敢。”
13.88.47
अहो भगवतो वीर्यं महर्षेर्भावितात्मनः ।
राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम् ॥ १३.८८.४७ ॥
啊,看那位尊贵的大仙人,自制其心,其威力何等;与妻同在的那位国王,其坚毅又是何等!
13.88.48
श्रान्तावपि हि कच्छ्रेण रथमेनं समूहतुः ।
न चैतयोर्विकारं वै ददर्शं भृगुनन्दनः ॥ १३.८८.४८ ॥
二人虽已疲惫,仍艰难地拉着这辆战车,婆利古之子却未在他们身上看出丝毫异样。
13.88.49
ततः स निर्विकारौ तु दृष्ट्वा भृगुकुलोद्वहः ।
वसु विश्राणयामास यथा वैश्रवणस्तथा ॥ १३.८८.४९ ॥
于是婆利古族的翘楚见二人毫无变化,便如毗沙门(俱毗罗)一般施予财富。
13.88.50
तत्रापि राजा प्रीतात्मा यथादिष्टमथाकरोत् ।
ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः ॥ १३.८८.५० ॥
那里的国王也心怀喜悦,按所吩咐的去做。于是那位尊贵的圣者中的最上者对他感到满意。
13.88.51
अवतीर्य रथश्रेष्ठाद्दम्पती तौ मुमोच ह ।
विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह ॥ १३.८८.५१ ॥
他从最好的战车上下来,释放了那对夫妇;依照礼仪释放二人之后,便说了这番话。
13.88.52
स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया ।
ददामि वां वरं श्रेष्ठं तं ब्रूतामिति भारत ॥ १३.८८.५२ ॥
婆利古后裔以温和而深沉的声音,十分慈悯地说道:“婆罗多之子啊,我赐予你们二人一个殊胜的恩惠,请说吧。”
13.88.53
सुकुमारौ च तौ विद्धौ कराभ्यां मुनिसत्तमः ।
पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसतम ॥ १३.८८.५३ ॥
那位圣者中的最上者,出于慈爱,以如甘露般的双手触摸那二位娇嫩而受伤之人。婆罗多的最优秀者啊!
13.88.54
अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह ।
विश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेह भार्गव ॥ १३.८८.५४ ॥
于是国王说:“在此我们二人并无疲劳。婆利伽婆啊,我们在此得以休息,全凭您的威力与禅定。”
13.88.55
अथ तौ भगवान्प्राह प्रहृष्टश्च्यनस्तदा ।
न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति ॥ १३.८८.५५ ॥
于是尊贵的遮耀仙欢喜地对他们说:我先前所说的不会落空,它必将实现。
13.88.56
रमणीयः समुद्देशो गङ्गातीरमिदं शुभम् ।
किञ्चित्कालं व्रतपरो निवत्स्यामीह पार्थिव ॥ १३.८८.५६ ॥
这里是恒河岸边一处优美而吉祥的地方。国王啊,我将在此居住一段时间,专心持守誓愿。
13.88.57
गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि ।
इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप ॥ १३.८८.५७ ॥
孩子,回你的城去吧。休息之后你会再来。人主啊,明天你将与妻子一同在此见到我。
13.88.58
न च मन्युस्त्वया कार्यः श्रेयस्त्वां समुपस्थितम् ।
यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं हि भविष्यति ॥ १३.८८.५८ ॥
你不应当生气或忧伤,福祉已经临近你身边。你心中所愿的一切,必定都会实现。
13.88.59
इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना ।
प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत् ॥ १३.८८.५९ ॥
被这样告知后,俱舍迦怀着欢喜的心对那位圣仙中的猛虎说了这些有意义的话。
13.88.60
न मे मन्युर्महाभाग पूतौ स्वो भगवंस्त्वया ।
संवृतौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ ॥ १३.८८.६० ॥
大福之人啊,我并无忧愁。尊贵的大人,您使我们二人得以清净;我们二人如今恢复青春,身体美好,充满力量。
13.88.61
प्रतोदेन व्रणा ये मे सभार्यस्य त्वया कृताः ।
तान्न पश्यामि गात्रेषु स्वस्थोस्मि सह भार्यया ॥ १३.८८.६१ ॥
你用刺棒伤害我与妻子所留的伤痕,我如今已不再见于肢体;我与妻子都安好。
13.88.62
इमां च देवीं पश्यामि वपुषाऽप्सरसोपमाम् ।
श्रिया परमया युक्ता तथा दृष्टा पुरा मया ॥ १३.८८.६२ ॥
我看见这位如女神般、容貌如天女的妇人,具足至上的光彩,正如我从前所见。
13.88.63
तव प्रसादसंवृत्तमिदं सर्वं महामुने ।
नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम ॥ १३.८८.६३ ॥
大仙啊,这一切都是因你的恩惠而成。尊者啊,具真实威力的你,此事并不奇怪。
13.88.64
इत्युक्तः प्रत्युवाचैनं कुशिकं च्यवनस्तदा ।
आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप ॥ १३.८८.६४ ॥
被如此告知后,车耶那便回答俱尸迦:人主啊,你可与妻子一同来此。
13.88.65
इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम् ।
प्रययौ वपुषा युक्तो नगरं देवराजवत् ॥ १३.८८.६५ ॥
受此告知并获准后,王仙向他行礼,身具美好之躯,如天帝一般前往城中。
13.88.66
तत एनमुपाजग्मुरमात्याः सपुरोहिताः ।
बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा ॥ १३.८८.६६ ॥
于是大臣与祭司前来,统兵将领与妓女同来,一切臣民也都来到他跟前。
13.88.67
तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन् ।
प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः ॥ १३.८८.६७ ॥
国王俱深伽被他们簇拥,以至高的光辉照耀,欢喜地进入城中,并受到游吟者的赞颂。
13.88.68
ततः प्रविश्य नगरं कृत्वा पौर्वाह्णिकीः क्रियाः ।
भुक्त्वा सभार्यो रजनीमुवास स महाद्युतिः ॥ १३.८८.६८ ॥
随后他进入城中,完成午前的祭礼,用餐后,与妻子一同度过了那夜,那位大光辉者。
13.88.69
ततस्तु तौ नवमभिवीक्ष्य यौवनं ।
परस्परं विगतजराविवामरौ।
ननन्दतुः शयनगतौ वपुर्धरौ ।
श्रिया युतौ द्विजवरदत्तया तदा ॥ १३.८८.६९ ॥
那时二人彼此看到新生的青春,如同无老的不死者,躺卧在床上,身体焕发光彩,由最优秀的婆罗门所赐的光辉相结合,欢喜不已。
13.88.70
अथाप्युषिर्भृगुकुलकीर्तिवर्धन-
स्तपोधनो वनमभिराममृद्धिमत्।
मनीषया बहुविधरत्नभूषितं ।
ससर्ज यन्न पुरि शतक्रतोरपि ॥ १३.८८.७० ॥
随后,以苦行为财富、增益婆利古家族声誉的那位仙人,也凭借其智慧造出了一片宜人而富饶的森林,以多种宝石装饰,即便在因陀罗(百祭)的城中也没有这样的景象。