摩诃婆罗多 · 章 13.91
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.91.1
अवश्यं कथनीयं मे तवैतन्नरपुङ्गव ।
यदर्थं त्वाहमुच्छेत्तुं सम्प्राप्तो मनुजाधिप ॥ १३.९१.१ ॥
人中之雄啊,人主啊!我来毁灭你的原因,必须告诉你。
13.91.2
भूगूणां क्षत्रिया याज्या नित्यमेतज्जनाधिप ।
ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना ॥ १३.९१.२ ॥
人主啊!刹帝利永远应由婆利古族人主持祭祀;但由于天命所系的缘故,他们将与之决裂。
13.91.3
क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप ।
आगर्भादनुकृन्तन्तो दैतदण्डनिपीडिताः ॥ १३.९१.३ ॥
人主啊!刹帝利将杀尽所有婆利古族人,甚至在胎中就将他们割裂,他们被这一刑罚所逼迫。
13.91.4
तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः ।
और्वो नाम महातेजा ज्वलितार्कसमद्युतिः ॥ १३.९१.४ ॥
那时,我们家族中将诞生一位名叫仰尔婆的人,他能增益家族血脉,大光明,光辉如炽热的太阳。
13.91.5
स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति ।
महीं सपर्वतवनां यः करिष्यति भस्मसात्। ॥ १३.९१.५ ॥
为毁灭三界,他将生出愤怒之火,使大地连同山林化为灰烬。
13.91.6
कञ्चित्कालं तु वह्निं च स एव शमयिष्यति ।
समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः। ॥ १३.९१.६ ॥
然而过了一段时间,那位最优秀的圣人将把那火投入大海,抛入牝马口中,使之平息。
13.91.7
पुत्रं तस्य महाराज ऋचीकं भृगुनन्दनम् ।
साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ ॥ १३.९१.७ ॥
大王啊,他的儿子将是婆粒古之子利格卡;无垢者啊,整个弓箭之学将亲自侍奉于他。
13.91.8
क्षत्रियाणामभावाय दैवयुक्तेनु हेतुना ।
स तु तं प्रतिगृह्यैव पुत्रे संक्रामयिष्यति ॥ १३.९१.८ ॥
为了使刹帝利灭绝,出于天命所定的缘由,他将接受它,并把它传给他的儿子。
13.91.9
जमदग्नौ महाभागे तपसा भावितात्मनि ।
स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति ॥ १३.९१.९ ॥
在以苦行净化了自我的大福德者遮摩达格尼身上,那位婆粒古的猛虎也将持有那部知识。
13.91.10
कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति ।
उद्भावनार्थं भवतो वंशस्य भरतर्षभ ॥ १३.९१.१० ॥
正法之心的大王啊,他将从你的家族中获得一位少女,为了延续你的世系,婆罗多族的雄牛啊。
13.91.11
क्षत्रहन्ता भवेद्धिंस्र इति दैवं सनातनम् ।
नारायणमुपास्यास्य वरात्तं पुत्रमृच्छति ॥ १३.९१.११ ॥
“他将成为杀害刹帝利者,且残暴”——这是永恒的天命。礼拜那罗延之后,他凭其恩赐而得到那个儿子。
13.91.12
गाधेर्दुहितरं प्राप्यि पौत्रीं तव महातपाः ।
ब्राह्मणं क्षत्रधर्माणं पुत्रमुत्पादयिष्यति ॥ १३.९१.१२ ॥
他得到了伽提之女后,将通过你的孙女,生下一个虽为婆罗门却奉行刹帝利之法的儿子,那位大苦行者啊。
13.91.13
क्षत्रियं विप्रधर्माणं बृहस्पतिमिवौजसा ।
विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम्।
तपसा महता युक्तं प्रदास्यति महाद्युते ॥ १३.९१.१३ ॥
虽为刹帝利,却奉行婆罗门之法,光辉堪比辛苏巴提(Bṛhaspati),是迦提之子、极为虔敬的毗首弥多罗,他将在你的家族中以大苦行赐予,光耀者啊。
13.91.14
स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः ।
पितामहनियोगाद्वै नान्यथैतद्भविष्यति ॥ १३.९१.१४ ॥
此事之因将在于两位女子;唯有依祖父之命方能成就,否则不会如此。
13.91.15
तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति ।
भविता त्वं च सम्बन्धी भृगूणां भावितात्मनाम् ॥ १३.९१.१५ ॥
至第三代,婆罗门身份将归于你,你将成为心地纯净的婆利古族的姻亲。
13.91.16
कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः ।
श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह।
एवमस्त्विति धर्मात्मा तदा भरतसत्तम ॥ १३.९१.१६ ॥
迦吠阇之子闻听大仙遮遍(Cyavana)之言,心中欢喜;于是这位正法之王说道:“就这样吧。”婆罗多族中最优秀的人啊。
13.91.17
च्यवनस्तु महातेजाः पुनरेव नराधिपम् ।
वरार्थं चोदयामास तमुवाच स पार्थिवः ॥ १३.९१.१७ ॥
于是光辉的遮遍又催促人主求取恩惠,那位国王便对他说道。
13.91.18
बाढमेवं ग्रहीष्यामि कामांस्त्वत्तो महामुने ।
ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत् ॥ १३.९१.१८ ॥
“很好,就这样吧。大仙啊,我将从您那里接受我的愿望:愿我的家族成为婆罗门,愿此人之心安于正法。”
13.91.19
एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः ।
अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा ॥ १३.९१.१९ ॥
国王如此说完,仙人遮那回答道:“就这样吧。”随后他向国王告辞,便踏上朝圣之旅。
13.91.20
एतत्ते कथितं सर्वमशेषेण मया नृप ।
भृगूणां कुशिकानां च अभिसम्बन्धकारणम् ॥ १३.९१.२० ॥
国王啊,我已将婆利古族与俱尸迦族结缘的原因,全部向你讲述完毕。
13.91.21
यथोक्तमृषिणा चापि तदा तदभवन्नृप ।
जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव हि ॥ १३.९१.२१ ॥
国王啊,正如仙人所说,当时便是如此实现的;罗摩和仙人毗湿伐蜜多罗的出生,也正是这样发生的。