Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.101

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.101.1

श्रुत्वा यमपुराध्वानं जीवानां गमनं तथा ।
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ॥ १४.१०१.१ ॥

闻说通往阎摩城的道路以及众生前往之事,法之子心中欢喜,又对毗湿奴(Keśava)说道。

14.101.2

देवदेवेश दैत्यघ्न ऋषिसङ्घैरभिष्टुत ।
भगवन्भवहञ्श्रीमन्सहस्रादित्यसन्निभ ॥ १४.१०१.२ ॥

诸神之神啊,斩杀达伊提亚的主啊,为众仙人集会所赞颂,世尊,除去轮回有之主,光荣者,如千日般光辉者!

14.101.3

सर्वसंभव धर्मज्ञ सर्वधरमप्रवर्तक ।
सर्वदानफलं सौम्य कथयस्व ममाच्युत ॥ १४.१०१.३ ॥

一切之源,知法者,一切法的推动者,温和者,不坏的阿周那啊,请告诉我一切布施的果报!

14.101.4

दानं देयं कथं कृष्ण कीदृशाय द्विजाय वै ।
कीदृशं वा तपः कृत्वा तत्फलं कुत्र भुज्यते ॥ १४.१०१.४ ॥

克里希那啊,布施应当如何进行,应施于何种婆罗门?或者行何种苦行,其果报在何处享受?

14.101.5

एवमुक्तो हृषीकेशो धर्मपुत्रेण धीमता ।
उवाच धर्मपुत्राय पुण्यान्धर्मान्महोदयान् ॥ १४.१०१.५ ॥

智慧的法之子如此说后,希利基什(Hṛṣīkeśa)为法之子宣说了功德殊胜、果报广大的诸法。

14.101.6

शृणुष्वावहितो राजन्पूतं पापघ्नमुत्तमम् ।
सर्वदानफलं सौम्य न श्राव्यं पापकर्मणम् ॥ १४.१०१.६ ॥

大王啊,请专心听着:此法清净、灭罪、至上,乃一切布施之果报。温和者啊,不应向作恶之人宣说此法。

14.101.7

यच्छ्रुत्वा पुरुषः स्त्री वा नष्टपापः समाहितः ।
तत्क्षणात्पूततां याति पापकर्मरतोपि वा ॥ १४.१०१.७ ॥

无论男女,闻此者若罪业消除、心志专一,便当下即得清净,即使曾沉溺于恶业之中。

14.101.8

एकाहमपि कौन्तेय भूमावुत्पादितं जलम् ।
सप्त तारयते पूर्वान्वितृष्णा यत्र गौर्भवेत् ॥ १४.१०१.८ ॥

贡蒂之子啊,从地中掘出的水,即使只一日,只要母牛在那里饮足,便能度脱七代祖先。

14.101.9

पानीयं परमं लोके जीवानां जीवनं स्मृतम् ।
पानीयस्य प्रदानेन तृप्तिर्भवति पाण्डव।
पानीयस्य गुणा दिव्याः परलोके गुणावहाः ॥ १४.१०१.९ ॥

世间饮水最为尊贵,被视为众生之命。般度之子啊,施水能令人得到满足。水的神圣功德在来世也带来福利。

14.101.10

तत्र पुष्पोदकी नाम नदी परमपावनी ।
कामान्ददाति राजेन्द्र तोयदानां यमालये ॥ १४.१०१.१० ॥

彼处有一条名为花水的河,极其清净。诸王之主啊,它在阎摩之所为施水者满足其所愿。

14.101.11

शीतलं सलिलं ह्यत्र ह्यक्षय्यममृतोपमम् ।
शीततोयप्रदादॄणां भवेन्नित्यं सुखावहम् ॥ १४.१०१.११ ॥

此处的清凉之水确实取之不尽,如同甘露。施予清凉之水者,它永远带来安乐。

14.101.12

ये चाप्यतोयदातारः पूयस्तेषां विधीयते। ॥ १४.१०१.१२ ॥

而不施水者,则注定堕入充满脓血的地狱。

14.101.13

प्रणश्यत्यंबुपानेन बुभुक्षा च युधिष्ठिर ।
तृपीषस्य न चान्नेन पिपासाऽपि प्रणश्यति।
तस्मात्तोयं सदा देयं तृषितेभ्यो विजानता। ॥ १४.१०१.१३ ॥

Yudhiṣṭhira啊,饮水可以消除饥饿,即使已经吃饱的人,口渴也会消失。因此,明智的人应当总是把水施给口渴的人。

14.101.14

अग्नेर्मूर्तिः क्षितेर्योनिरमृतस्य स संभवः ।
अतोंभः सर्वभूतानां मूलमित्युच्यते बुधैः ॥ १४.१०१.१४ ॥

水是火的形体,是大地的源头,也是甘露的起源。因此智者说,水是一切众生的根本。

14.101.15

अद्भिः सर्वाणि भूतानि जीवन्ति प्रभवन्ति च ।
तस्मात्सर्वेषु दानेषु तोयदानं विशिष्यते ॥ १४.१०१.१५ ॥

一切众生依水而生存,依水而产生。因此在一切布施中,施水最为殊胜。

14.101.16

सर्वदानतपोयज्ञैर्यत्प्राप्यं फलमुत्तमम् ।
तत्सर्वं तोयदानेन प्राप्यते नात्र संशयः ॥ १४.१०१.१६ ॥

凡通过一切布施、苦行和祭祀所能获得的殊胜果报,都可以通过施水获得,这一点毫无疑问。

14.101.17

ये प्रयच्छन्ति विप्रेभ्यस्त्वन्नदातं सुसंस्कृतम् ।
तैस्तु दत्ताः स्वयं प्राणा भवन्ति भरतर्षभ ॥ १४.१०१.१७ ॥

凡是把精心烹调的食物布施给婆罗门的人,就等于把自己的生命之气施舍出去了,哦,婆罗多中的雄牛。

14.101.18

अन्नाद्रक्तं च शुक्लं च अन्ने जीवः प्रतिष्ठितः ।
इन्द्रियाणि च बुद्धिश्च पुष्णन्त्यन्नेन नित्यशः।
अन्नहीनानि सीदन्ति सर्वभूतानि पाण्डव ॥ १४.१०१.१८ ॥

食物产生血和精,生命之我安住于食物之中。感官与智慧常常靠食物滋养。哦,般度之子,一切失去食物的众生都会衰败。

14.101.19

तेजो बलं च रूपं च सत्वं वीर्यं धृतिर्द्युतिः ।
ज्ञानं मेधा तथाऽऽयुश्च सर्वमन्ने प्रतिष्ठितम् ॥ १४.१०१.१९ ॥

光辉、力量、形貌、本性、勇力、坚定、光彩、智慧、慧根与寿命,一切皆立足于食物之中。

14.101.20

देवमानवर्तिर्यक्षु सर्वलोकेषु सर्वदा ।
सर्वकालं हि सर्वेषां सर्वमन्ने प्रतिष्ठितम् ॥ १४.१०१.२० ॥

在诸天、人类、畜生与夜叉之中,在一切世界,常时、一切时中,一切众生的一切,皆立足于食物之中。

14.101.21

अन्नं प्रजापते रूपमन्नं प्रजननं स्मृतम् ।
सर्वभूतमयं चान्नं जीवश्चान्नमयः स्मृतः ॥ १४.१०१.२१ ॥

食物即是生主的形相,食物被称为生育。食物由一切众生所成;命我也被称为食物所成。

14.101.22

अन्नेनाधिष्ठितः प्राण अपानो व्यान एव च ।
उदानश्च समानश्च धारयन्ति शरीरिणम् ॥ १४.१०१.२२ ॥

气息——命气、下行气、遍行气、上行气与平行气——由食物所持,正是它们承载着有身之者。

14.101.23

शयनोत्थानगमनग्रहणाकर्षणानि च ।
सर्वसत्वकृतं क्रम चान्नादेव प्रवर्तते ॥ १४.१०१.२३ ॥

卧、起、行、取、引——以及一切众生所作的全部活动,都唯由食物而生起。

14.101.24

चतुर्विधानि भूतानि जङ्गमानि स्थिराणि च ।
अन्नाद्भवन्ति राजेन्द्र सृष्टिरेषा प्रजापतेः ॥ १४.१०१.२४ ॥

四类众生,动者与不动者,皆从食物而生,王中之王啊;这便是生主的创造。

14.101.25

विद्यास्थानानि सर्वाणि सर्वयज्ञाश्च पावनाः ।
अन्नाद्यस्मात्प्रवर्तन्ते तस्मादन्नं परं स्मृतम् ॥ १४.१०१.२५ ॥

一切学问之支与一切净化的祭祀皆由食物而生,故食物被称为至上。

14.101.26

देवा रुद्रादयः सर्वे पितरोऽप्यग्नयस्तथा ।
यस्मादन्नेन तुष्यन्ति तस्मादन्नं विशिष्यते ॥ १४.१०१.२६ ॥

楼陀罗等诸神、祖先以及诸火,皆因食物而得满足,故食物最为殊胜。

14.101.27

यस्मादन्नात्प्रजाः सर्वाः कल्पेकल्पेऽसृजत्प्रभुः ।
तस्मादन्नात्परं दानं न भूतं न भविष्यति ॥ १४.१०१.२७ ॥

主在每一劫中以食物创造一切众生,因此没有比施食更大的布施,过去未有,未来也不会有。

14.101.28

यस्मादन्नात्प्रवर्तन्ते धर्मार्थौ काम एव च ।
तस्मादन्नात्परं दानं नामुत्रेह च पाण्डव ॥ १४.१०१.२८ ॥

法、利与欲皆由食物而生,故施食之布施,无论今世或来世,皆无可超越,般度之子啊。

14.101.29

यक्षरक्षोग्रहा नागा भूतान्यन्ते च दानवाः ।
तुष्यन्त्यन्नेन यस्मात्तु तस्मादन्नं परं भवेत् ॥ १४.१०१.२९ ॥

夜叉、罗刹、星神、龙蛇、众生,乃至最后的檀那婆,皆因食物而得满足,故食物应当最为殊胜。

14.101.30

परान्नमुपभुञ्जनो यत्कर्म कुरुते शुभम् ।
तच्छुभस्यैकभागस्तु कर्तुर्भवति भारत ॥ १४.१०१.३० ॥

若人食他人之食而行善业,善报之中只有一分归于作者,婆罗多啊。

14.101.31

अन्नदस्य त्रयो भागा भन्ति पुरुषर्षभ ।
तस्यादन्नं प्रदातव्यं ब्राह्मणेभ्यो विशेषतः ॥ १४.१०१.३१ ॥

施食者得三份,人中之牛啊。因此应当施食,尤其要施给婆罗门。

14.101.32

ब्राह्मणाय दरिद्राय योऽन्नं संवत्सरं नृप ।
श्रोत्रियाय प्रयच्छेद्वै पाकभेदविवर्जितः ॥ १४.१०१.३२ ॥

国王啊,若有人整整一年,不分烹煮之别,将食物施予贫穷而精通吠陀的婆罗门……

14.101.33

डंभानृतविमुक्तस्तु परां भक्तिमुपागतः ।
स्वधर्मेणार्जितफलं तस्य पुण्यफलं शृणु ॥ १४.१०१.३३ ॥

然而,请听那摆脱了虚伪与谎言、达到至上虔诚者,因自身之法所得的果报与功德之果。

14.101.34

शतवर्षसहस्राणि कामगः कामरूपधृत् ।
मोदतेऽमरलोकस्थः पूज्यमानोप्सरोगणैः।
ततश्चापि च्युतः कालान्नरलोके द्विजो भवेत् ॥ १४.१०१.३४ ॥

他随意游行,随意变化形体,在天界居住数十万年,受众天女的供奉而欢乐。之后经过时日,从天界堕落,在人间生为再生者(婆罗门)。

14.101.35

अग्नभिक्षां च यो दद्याद्दरिद्राय द्विजातये ।
षण्मासान्वार्षिकं श्राद्दं तस्य पुण्यफलं शृणु ॥ १४.१०१.३५ ॥

若有人施食于贫穷的再生者,便得到六个月行年度祭祀(śrāddha)的功德。请听那功德之果。

14.101.36

गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम् ।
तत्प्रण्यफलमाप्नोति नरो वै नात्र संशयः ॥ १४.१०१.३६ ॥

所说布施千头牛所得的功德,人便得到那同样的功德果报;此事毫无疑问。

14.101.37

अथ संवत्सरं दद्यादग्रभिक्षामयाचते ।
प्रच्छद्यैव स्वयं नीत्वा तस्य पुण्यफलं शृणु ॥ १४.१०१.३७ ॥

若有人一年间将第一份施食施于乞者,并亲自遮盖携带,请听其功德之果。

14.101.38

कपिलानां सहस्रैस्तु यद्देयं पुण्यमुच्यते ।
तत्सर्वमखिलं प्राप्य शक्रलोके महीयते ॥ १४.१०१.३८ ॥

获得所谓施予千头赤褐色母牛的全部功德后,他在因陀罗世界受到尊崇。

14.101.39

स शक्रभवने रम्ये र्षिकोटिशतं नृप ।
यथाकामं महातेजाः क्रीडत्यप्सरसांगणैः ॥ १४.१०१.३९ ॥

大王啊,在因陀罗美妙的宫殿中,此大光明者与百亿圣仙及众阿帕萨拉斯随心嬉戏。

14.101.40

अन्नं च यस्तु वै दद्याद्द्विजाय नियतव्रतः ।
दशवर्षामि राजेन्द्र तस्य पुण्यफलं शृणु ॥ १४.१०१.४० ॥

若有人持守誓戒,十年间向婆罗门布施食物,大王啊,请听其功德之果。

14.101.41

कपिला शतसहस्रस्य विधिदत्तस्य यत्फलम् ।
तत्पुण्यफलमासाद्य पुरन्दरपुरं व्रजेत् ॥ १४.१०१.४१ ॥

按规则布施十万头赤褐色母牛的果报已经获得,他便前往补兰达罗(因陀罗)之城。

14.101.42

स शक्रभवने रम्ये कामरूपी यथासुखम् ।
शतकोटिसमा राजन्क्रीडतेऽमरपूजितः ॥ १४.१०१.४२ ॥

大王啊,他在因陀罗美妙的宫殿中,随意变化形体,安乐自在,受诸天礼敬,嬉戏百亿年。

14.101.43

शक्रलोकावतीर्णश्च इह लोके महाद्युतिः ।
चतुर्वेदी द्विजः श्रीमाञ्जायते राजपूजितः ॥ १४.१०१.४३ ॥

若从因陀罗之界降临此世,生为大光明、通晓四吠陀、吉祥的婆罗门,便受诸王尊奉。

14.101.44

अध्वश्रान्ताय विप्राय क्षुधितायान्नकाङ्क्षिणे ।
देशकालाभियाताय दीयते पाण्डुनन्दन ॥ १४.१०१.४४ ॥

般度之子啊,对于路途疲乏、饥饿、渴望食物、适时适地而来的婆罗门,应当施舍。

14.101.45

याचतेऽन्नं न दद्याद्यो विद्यामाने धनागमे ।
स लुब्धो नरकं याति कृमीणां कालसूत्रकम् ॥ १४.१०१.४५ ॥

财富已至却不给求食者,那贪婪之人将堕入充满蛆虫的迦罗苏特罗迦地狱。

14.101.46

तत्र नरके घोरे लोभमोहविचेतनः ।
दशरव्षसहस्राणि क्लिश्यते वेदनार्दितः ॥ १४.१०१.४६ ॥

在那可怕的地狱中,他被贪欲与迷惑所蒙蔽,因痛苦折磨而受苦一万年。

14.101.47

तस्माच्च नरकान्मुक्तः कालेन महता हि सः ।
दरिद्रो मानुषे लोके चण्डालेष्वपि जायते। ॥ १४.१०१.४७ ॥

经过很长时间,他从那地狱中解脱,在人间生为贫穷之人,甚至生于旃陀罗之中。

14.101.48

यस्तु पांसुलपादश्च दूराध्वश्रमकर्शितः ।
क्षुत्पिपासाश्रमश्रान्त आर्तः खिन्नगतिर्द्विजः ॥ १४.१०१.४८ ॥

然而,那双足沾满尘土、因长途跋涉而消瘦、被饥渴与劳累困乏、痛苦、步履蹒跚的婆罗门——

14.101.49

पृच्छन्वै ह्यन्नदातारं गृहमभ्येत्य याचयेत् ।
तं पूजयेत्तु यत्नेन सोऽतिथिः स्वर्गसंक्रमः।
तस्मिंस्तुष्टे नरश्रेष्ठ तुष्टाः स्युः सर्वदेवताः ॥ १४.१०१.४९ ॥

若有人先问过施食者,然后来到家中乞求,应当恭敬地款待他;此客人是通往天界的桥梁。人中之杰啊,他满意时,诸神皆满意。

14.101.50

न तथा हविषा होमैर्न पुष्पैर्नानुलेपनैः ।
अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिपूजनात् ॥ १४.१०१.५० ॥

帕尔塔啊,诸火并不像因供奉酥油、焚烧祭品、鲜花或香膏那样,因敬拜客人而如此欢喜。

14.101.51

कपिलायां तु दत्तायां विधिवज्ज्येष्ठपुष्करे ।
न तत्फलमवाप्नोति यत्फलं विप्रबोजनान्। ॥ १४.१०१.५१ ॥

即便依规则在 Jyeṣṭha-Puṣkara 布施了一头褐色的迦毗罗牛,也得不到供养婆罗门所得的果报。

14.101.52

द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ।
तावत्पुष्करपत्रेण पिबन्ति पितरो जलम् ॥ १४.१०१.५२ ॥

只要大地被洗过婆罗门双足的水所浸润,祖先们便以莲叶饮水。

14.101.53

देवमाल्यापनयनं द्विजोच्छिष्टापमार्जनम् ।
श्रान्तसंवाहनं चैव तथा पादावसेचनम् ॥ १४.१०१.५३ ॥

除去诸神的花环,擦拭婆罗门所遗之物,为疲惫者按摩,以及同样洗足。

14.101.54

प्रतिश्रयप्रदानं च तथा शय्यासनस्य च ।
एकैकं पाण्डवश्रेष्ठ गोप्रदानाद्विशिष्यते ॥ १४.१०१.५४ ॥

供给住所,以及同样供给床榻与座位——班达瓦中的至上者啊,其中每一项都胜过布施一头牛。

14.101.55

पादोदकं पादघृतं दीपमन्नं प्रतिश्रयम् ।
ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम् ॥ १४.१०१.५५ ॥

凡向婆罗门奉上洗足水、足油、灯火、食物与住处者,不会走近阎摩。

14.101.56

विप्रातिथ्ये कृते राजन्भक्त्या शुश्रूषितेऽपि च ।
देवाः शुश्रूषिताः सर्वे त्रयस्त्रिंशदरिन्दम ॥ १४.१०१.५६ ॥

大王,敌人的降伏者啊,若对婆罗门行待客之礼并虔诚侍奉,则三十三神皆得侍奉。

14.101.57

अभ्यागतो ज्ञातपूर्वो ह्यज्ञातोऽतिथिरुच्यते ।
तयोः पूजां द्विजः कुर्यादिति पौराणिकी श्रुतिः ॥ १४.१०१.५७ ॥

先前已识之客称为“阿比雅伽塔”,未曾相识者称为“阿提提”。婆罗门应当礼敬此二者,这是往世书的传统。

14.101.58

पादाभ्यङ्गन्नपानैस्तु योऽतिर्थिं पूजयेन्नरः ।
पूजितस्तेन राजेन्द्र भवामीह न संशयः ॥ १४.१०१.५८ ॥

若人以足油、饮食供养客人,王中之王啊,我受其供养,便在此显现于他面前,此无疑也。

14.101.59

शीघ्रं पापाद्विनिर्मुक्तो मया चानुग्रहीकृतः ।
विमानेनेन्दुकल्पेन मम लोकं स गच्छति ॥ १४.१०१.५९ ॥

他迅速脱离罪恶,得我恩典;乘坐如月亮般的天车,他前往我的世界。

14.101.60

अभ्यागतं श्रान्तमनुव्रजन्ति ।
देवाश्च सर्वे पितरोऽग्नयश्च।
तस्मिन्द्विजे पूजिते पूजिताः स्यु-
र्गते निराशाः पितरो व्रजन्ति ॥ १४.१०१.६० ॥

凡疲惫而来的客人,诸神、祖先与圣火皆随其后。那位婆罗门受到礼敬,他们也受礼敬;他若离去,祖先便失望而去。

14.101.61

अतिर्थिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
पितरस्तस्य नाश्नन्ति दशवर्षणि पञ्च च ॥ १४.१०१.६१ ॥

若客人怀着破灭的希望从某人家中离去,其祖先十五年不进食。

14.101.62

वर्जितः पितृभिर्लुब्धः स देवैरग्निभिः सह ।
निरयं रौरवं गत्वा दशवर्षाणि पञ्च च।
ततश्चापि च्युतः कालादिह चोच्छिष्टभुग्भवेत् ॥ १४.१०१.६२ ॥

被祖先、诸神和诸火所弃的贪婪之人,堕入罗罗婆地狱,在那里停留十五年;时限届满后,他从那里坠落,在此世成为吃剩饭的人。

14.101.63

वैश्वदेवान्तिके प्राप्तमतिथिं यो न पूजयेत् ।
चण्डालत्वमवाप्नोति सद्य एव न संशयः ॥ १४.१०१.६३ ॥

若不礼敬在吠湿婆提婆供奉之际到来的客人,他立即堕为旃陀罗,此事无疑。

14.101.64

निर्वासयति यो विप्रं देशकालगतं गृहात् ।
पतितस्तत्क्षणादेव जायते नात्र संशयः ॥ १४.१०१.६४ ॥

若将在适当地点与时机到来的婆罗门逐出家门,他当下即堕落,并以堕落之身受生,此事无疑。

14.101.65

नरके रौरवे घोरे वर्षकोटिं स पच्यते ।
ततश्चापि च्युतः कालादिह लोके नराधमः।
श्वा वै द्वादशजन्मानि जायते क्षुत्पिपासितः ॥ १४.१०१.६५ ॥

他在可怖的罗罗婆地狱中被煮烧千万年;然后时限届满,他从那里坠落,在此世受生为最卑贱之人,并在十二世中以狗身受生,饱受饥渴之苦。

14.101.66

चण्डालोप्यतिथिः प्राप्तो देशकालेऽन्नकाङ्क्षयाः ।
अभ्युद्गम्यो गृहस्थेन पूजनीयश्च सर्वदा ॥ १४.१०१.६६ ॥

即使是旃陀罗,若作为客人在适当的地点与时机求食而来,家主也应起身迎接,并始终加以礼敬。

14.101.67

अनर्चयित्वा योऽश्नाति लोभमोहविचेतनः ।
स चण्डालत्वमापन्नो दश जन्मानि पाण्डव ॥ १४.१०१.६७ ॥

若有人不礼敬客人便因贪欲与迷妄而失去心智地进食,哦,般度之子,他便陷入旃陀罗的境地,并在十世中保持这种状态。

14.101.68

निराशमतिथिं कृत्वा भुञ्जनो यः प्रहृष्टवान् ।
न जानाति किलात्मानं विष्ठकूपे निपातितं ॥ १४.१०१.६८ ॥

使客人失望却欢喜地进食的人,不知道自己已被投入粪坑之中。

14.101.69

मोघं ध्रुवं प्रोर्णयति मोघमस्य तु पच्यते ।
मोघमन्नं सदाऽश्नाति योतिथिं न च पूजयेत् ॥ १४.१०१.६९ ॥

他的付出必然徒劳,他所煮的食物也徒劳。那总是吃着徒劳之食、又不礼敬客人的人,便是如此。

14.101.70

साङ्गोपाङ्गांस्तु यो वेदान्पठतीह दिनेदिने ।
न चातिथिं पूजयति वृथा भवति स द्विजः ॥ १४.१०१.७० ॥

在此每日诵读带支分与附支的吠陀,却不礼敬客人的人,那位再生者便成为徒劳。

14.101.71

पाकयज्ञमहायज्ञैः सोमसंस्थाभिरेव च ।
ये यजन्ति न चार्चन्ति गृहेष्वतिथिमागतम् ॥ १४.१०१.७१ ॥

以家祭、大祭及苏摩祭供奉的人,却不礼敬来到家中的客人。

14.101.72

तेषां यशोभिकामानां दत्तमिष्टं च यद्भवेत् ।
वृथा भवति तत्सर्वमाशया हि तया हतम् ॥ १४.१०१.७२ ॥

那些渴求名声者所行的布施与祭祀,全都变得徒劳,因为已被那欲望所毁。

14.101.73

देशं कालं च पात्रं च स्वशक्तिं च निरीक्ष्य च ।
अल्पं समं महद्वापि कुर्यादातिथ्यमात्मवान् ॥ १४.१०१.७३ ॥

自制之人应审视地点、时机、受者之资格与自己的能力,无论少、相当或丰厚,都应行待客之礼。

14.101.74

सुमुखः सुप्रसन्नात्मा धीमानतिथिमागतम् ।
स्वागतेनासनेनाद्भिरन्नाद्येन च पूजयेत् ॥ १४.१०१.७४ ॥

智者应以笑容满面、心情愉悦之态,以欢迎之辞、座位、水与食物礼敬到来的客人。

14.101.75

हितः प्रियो वा द्वेष्यो वा मूर्खः पण्डित एव वा ।
प्राप्तो यो वैश्वदेवान्ते सोतिथिः स्वर्गसंक्रमः ॥ १४.१०१.७५ ॥

无论是益友、所爱之人、仇敌、愚人还是学者,凡在吠舍婆提婆祭之末到来者,皆为客人,他是通向天堂的桥梁。

14.101.76

क्षुत्पिपासाश्रमार्ताय देशकालगताय च ।
सत्कृत्यान्नं प्रदातव्यं यज्ञस्य फलमिच्छता ॥ १४.१०१.७६ ॥

对于饥渴疲惫、远道而来的人,希求祭祀功德者应当恭敬地施与食物。

14.101.77

भोजयेदात्मनः श्रेष्ठान्विधइवद्धव्यकव्ययोः ।
अन्नं प्राणो मनुष्यणामन्नदः प्राणदो भवेत्।
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता ॥ १४.१०१.७७ ॥

应依礼仪,以食供养自家的尊长,于献给天神与祖先的祭供中行之。食物是人的生命,施食者即是施生者。因此,欲求兴盛者尤应施食。

14.101.78

अन्नदः सर्वकामैस्तु सुतृप्तः सुष्ट्वलङ्कृतः ।
पूर्णचन्द्रप्रकाशेन विमानेन विराजते ॥ १४.१०१.७८ ॥

施食者,诸愿皆满,心满意足,装饰华美,在如满月光辉的天车中光彩照人。

14.101.79

सेव्यमानो वरस्त्रीभिर्मम लोकं स गच्छति ।
क्रीडित्वा तु ततस्तस्मिन्वर्षकोटिं यथाऽमरः ॥ १४.१०१.७९ ॥

他被优秀的女子侍奉,前往我的世界,在那里像神一样游戏千万年。

14.101.80

ततस्चापि च्युतः कालादिह लोके महायशाः ।
वेदशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत् ॥ १४.१०१.८० ॥

此后,时限既尽,这位大名者从彼处坠落于此世,成为通晓吠陀与经典真义的富足婆罗门。

14.101.81

यथाश्रद्धं तु यः कुर्यान्मनुष्येषु प्रजायते ।
महाधनपतिः श्रीमान्वेदवेदाङ्गपारगः।
सर्वशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत् ॥ १४.१०१.८१ ॥

凡依信心而行布施者,生于人间,成为大富之主、尊贵之人,精通吠陀与吠陀支分,通晓一切经典真义,成为富足的婆罗门。

14.101.82

सर्वातिथ्यं तु यः कुर्याद्वर्षमेकमकल्मषः ।
धर्मार्जितधनो भूत्वा पाकभेदविवर्जितः ॥ १४.१०१.८२ ॥

若有人一年之中无罪,行尽一切款待,拥有以法获得的财富,并不分别熟食的种类。

14.101.83

देवानिव स्वयं विप्रानर्चयित्वा पितॄनपि ।
विप्रानग्राशनाशी यस्तस्य पुण्यफलं शृणु ॥ १४.१०१.८३ ॥

请听那人的功德果报:他亲自礼敬婆罗门与祖先如同礼敬诸神,并愿先供养婆罗门。

14.101.84

वर्षेणैकेन यावन्ति पिण्डान्यश्नन्ति ये द्विजाः ।
तावद्वर्षाणि राजेन्द्र मम लोके महीयते ॥ १४.१०१.८४ ॥

在一年之中,这些再生者所食的供饼有多少,他便在我的世界中受尊敬多少年,啊,诸王之主。

14.101.85

ततश्चापि च्युतः कालादिह लोके महायशाः ।
वेदसास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत् ॥ १४.१०१.८५ ॥

此后,他按时从此世界陨落,大名远扬,通晓吠陀与典籍之义理,将成为富足的婆罗门。

14.101.86

सर्वातिथ्यं तु यः कुर्याद्यथाश्रद्धं नरेश्वर ।
अकालनियमेनापि सत्यवादी जितेन्द्रियः ॥ १४.१०१.८६ ॥

人主啊,凡依其信心款待一切客人,即便无固定时限之规,仍然诚实、克制诸根者,

14.101.87

सत्यसन्धो चितक्रोधः शाखाधर्मविवर्जितः ।
अधर्मभीरुर्धर्मिष्ठो मायामात्सर्यवर्जितः ॥ १४.१०१.८७ ॥

守信誓,制怒,不拘泥于本支之祭仪,畏惧非法,笃守法度,无欺诈与嫉妒者,

14.101.88

श्रद्दधानः सुचिर्नित्यं पाकबेदविवर्जितः ।
स विमानेन दिव्येन दिव्यरूपी महायशाः ॥ १४.१०१.८८ ॥

心存信仰、常保清净、不涉烹饪之祭仪者,此大名之人乘天界之车,具神圣之形而去。

14.101.89

पुरन्दरपुरं याति गीयमानोप्सरोगणैः ।
मन्वन्तरं तु तत्रैव क्रीडित्वा देवपूजितः।
मानुष्यलोकमागम्य भोगवान्ब्राह्मणो भवेत् ॥ १४.१०१.८९ ॥

他前往富兰达罗之城,诸群天女在那里歌唱赞颂;在那里嬉戏一个摩noun(曼凡塔罗)之久,受诸神尊崇,然后来到人间,成为富足的婆罗门。

14.101.90

दशजन्मानि विप्रत्वमाप्नुयाद्राजपूजितः ।
जातिस्मरश्च भवति यत्रयत्रोपजायते ॥ १४.१०१.९० ॥

历经十世而得婆罗门之身,受诸王尊崇;无论生于何处,皆能忆念前世。