摩诃婆罗多 · 章 14.103
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.103.1
वासुदेवेन दानेषु कथितेषु यथाक्रमम् ।
अवितृप्तश्च धर्मेषु केशवं पुनरब्रवीत् ॥ १४.१०३.१ ॥
婆修提婆依次讲述了布施之法之后,仍对诸法不感满足,于是又对罗摩之友(克舍婆)说道。
14.103.2
देव धर्मामृतमिदं शृण्वतोपि परंतप ।
न विद्यते सुरश्रेष्ठ मम तृप्तिर्हि माधव ॥ १४.१०३.२ ॥
神啊,灭敌者啊,我聆听这法之甘露,仍不感满足。诸神之首,摩陀婆啊!
14.103.3
अनडुत्संप्रदानस्य यत्फलं तु विधीयते ।
तत्फलं कथयस्वेह तव भक्तस्य मेऽच्युत ॥ १४.१०३.३ ॥
无堕者啊,关于布施公牛所规定的果报,请对我这位虔诚的信徒在此说明。
14.103.4
यानिचान्यानिदानानित्वया नोक्तानि कानिचित् ।
तान्याचक्ष्व सुरश्रेष्ठ तेषां चानुक्रमात्फलम् ॥ १४.१०३.४ ॥
诸神之首啊,你未曾提及的其他布施,请一一讲述,并依次说明其果报。
14.103.5
पवित्रत्वात्सुपुण्यत्वात्पावनत्वात्तथैव च ।
शृणु धर्मामृतं श्रेष्ठं दत्तस्यानडुहः फलम् ॥ १४.१०३.५ ॥
因其清净、大功德及能净化之力,且听这殊胜的法甘露:布施公牛的果报。
14.103.6
दशधेनुसमोऽनड्वानेकोपि कुरुपुङ्गव ।
मेदोमांसविपुष्टाङ्गो नीरोगः कोपवर्जितः ॥ १४.१०३.६ ॥
库鲁之首啊,即便一头公牛,若其身体肥壮丰满,健康无病,无有愤怒,也可与十头母牛等同。
14.103.7
युवा भद्रः सुशीलश्च सर्वदोषविवर्जितः ।
धुरं धारयति क्षिप्रं दत्तो विप्राय पाण्डव ॥ १४.१०३.७ ॥
年轻、温顺、品性良好且无任何缺陷的公牛能迅速负轭;般度之子啊,应将它施予婆罗门。
14.103.8
स तेन पुण्यदानेन वर्षकोटिं युधिष्ठिर ।
यथाकामं महादेजा गवां लोके महीयते ॥ १४.१०३.८ ॥
瑜提希adhira啊,凭借那功德之施,这位大光辉者在牛的世界中随其所愿地受到尊崇千万年。
14.103.9
यश्च दद्यादनडुहौ द्वौ युक्तौ च धुरंधरौ ।
सुवृत्ताय दरिद्राय श्रोत्रियाय विशेषतः।
तस्य यत्पुण्यमाख्यातं तच्छृणुष्व युधिष्ठिर ॥ १४.१०३.९ ॥
瑜提希adhira啊,请听:对于将两头可负轭的牛施予品行良好的贫穷婆罗门,尤其是通晓吠陀者,所宣说的功德。
14.103.10
सहस्रगोप्रदानेन यत्प्रोक्तं फलमुत्तमम् ।
तत्पुण्यफलमाप्नोति याति लोकान्स मामकान् ॥ १४.१०३.१० ॥
他获得所宣说的施予千头牛的至上果报,得到那功德之果,并前往我的世界。
14.103.11
यावन्ति चैव रोमाणि तयोरनुडुहोर्नृप ।
तावद्वर्षसहस्राणि मम लोके महीयते ॥ १४.१०३.११ ॥
国王啊,那两头牛有多少根毛,他便在我的世界中受到尊崇多少千年。
14.103.12
दरिद्रायैव दातव्यं न समृद्धाय पाण्डव ।
वर्षाणां हि तटाकेषु फलं नैव पयोधिषु ॥ १४.१०३.१२ ॥
般度之子啊,布施只应给予贫穷者,不应给予富足者;雨水之果实在池塘中,而不在大海中。
14.103.13
यस्तु दद्यादनडुहं दरिद्राय द्विजातये ।
स तेन पुण्यदानेन पुतात्मा कुरुपुङ्गव ॥ १४.१०३.१३ ॥
施舍一头牛给贫穷的再生者之人,因此善施而灵魂得以清净,哦,俱卢之牛。
14.103.14
विमानं दिव्यमारूढो दिव्यरूपी यथासुखम् ।
मम लोकेषु रमते यावदाभूतसंप्लुवम् ॥ १४.१०३.१४ ॥
乘坐天界神车,具神圣之形,随意在我的诸界中欢享,直至众生劫灭。
14.103.15
गृहं दीपप्रभायुक्तं शय्यासनविभूषितम् ।
भाजनोपस्करैर्युक्तं धनधान्यैरलङ्कृतम्।
दासीगोभूमिसंयुक्तमन्यूनं सर्वसाधनैः ॥ १४.१०३.१५ ॥
屋宇灯火通明,床榻座席装饰,器皿用具齐备,财富粮食充盈,兼有婢仆、牛群与田地,一切所需无缺。
14.103.16
ब्राह्मणाय दरिद्राय श्रोत्रियाय युधिष्ठिर ।
दद्यात्सदक्षिणं यस्तु तस्य पुण्यफलं शृणु ॥ १४.१०३.१६ ॥
犹迪湿铁啊,请听那以布施(含礼金)施于贫穷而精通吠陀的婆罗门者所得的功德果报。
14.103.17
देवाः पितृगणाश्चैव ह्यग्नयो ऋषयस्तथा ।
प्रयच्छन्ति प्रहृष्टा वै यानमादित्यसन्निभम् ॥ १४.१०३.१७ ॥
诸天神、祖灵群、火神与仙人,也欣然赐予如太阳般光耀的车乘。
14.103.18
तेन गच्छेच्छ्रिया युक्तो ब्रह्मलोकमनुत्तमम् ।
स्त्रीसहस्रावृते रम्ये भवने तत्र काञ्चने।
मोदते ब्रह्मलोकस्थो यावदाभूतसप्लवम् ॥ १४.१०३.१८ ॥
乘此车而获得光辉,愿他前往无上的梵界;在那里,于被千名女子环绕的美丽金殿中,居于梵界,欢享直至众生劫灭。
14.103.19
शय्यं प्रस्तरणोपेतां यः प्रयच्छति पाण्डव ।
अर्चयित्वा द्विजं भक्त्या वस्त्रमाल्यानुलेपनैः।
भोजयित्वा विचित्रान्नं तस्य पुण्यफलं शृणु ॥ १४.१०३.१९ ॥
哦,般度之子,请听那人的功德果报:他以虔敬之心,用衣服、花环和香膏敬奉婆罗门,供给他各色饮食,并布施带有铺垫的卧床。
14.103.20
धेनुदानस्य यत्पुण्यं विधिदत्तस्य पाण्डव ।
तत्पुण्यं तमनुप्राप्य पितृलोके महीयते ॥ १४.१०३.२० ॥
哦,般度之子,获得依仪轨所施之牛的功德后,他在祖先的世界中受到尊崇。
14.103.21
शिल्पमध्ययनं वाऽपि विद्यां मन्त्रौषधानि च ।
यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु ॥ १४.१०३.२१ ॥
请听那人的功德果报:他把工艺、学习、知识、咒语和药物施予婆罗门。
14.103.22
आहिताग्निसहस्रस्य पूजितस्यैव यत्फलम् ।
तत्पुण्यफलमाप्नोति यस्तु शय्यां प्रयच्चति ॥ १४.१०३.२२ ॥
施予卧床者,所获得的果报正如受尊敬的千位火祭者所得。
14.103.23
छन्दोभिः संप्रयुक्तेन विमानेन विराजता ।
सप्तर्षिलोकान्व्रजति पूज्यते ब्रह्मवादिभिः ॥ १४.१०३.२३ ॥
他乘着与吠陀韵律相连、光辉灿烂的天车,前往七仙的世界,并受到梵之宣说者的尊崇。
14.103.24
चतुर्युगानि वै त्रिंशत्क्रीडित्वा तत्र देववत् ।
इह मानुष्यके लोके विप्रो भवति वेदवित् ॥ १४.१०३.२४ ॥
在那里如天神一般享乐三十个四大时代之后,他在这人间世界成为通晓吠陀的婆罗门。
14.103.25
विश्रामयति यो विप्रं श्रान्तमध्वनि कर्शितम् ।
कविनश्यति तदा पापं तस्य वर्षकृतं नृप ॥ १४.१०३.२५ ॥
若使途中疲惫羸弱的婆罗门得到休息,其多年积累的罪业便会立即消除,大王。
14.103.26
अथ प्रक्षालयेत्पादौ तस्य तोयेन भक्तिमान् ।
दशवर्षकृतं पापं व्यपोहति न संशयः ॥ १४.१०३.२६ ॥
若以虔诚之心以水洗其双足,便能消除十年所积之罪,此无疑问。
14.103.27
घृतेन वाऽथ तैलेन पादौ तस्य तु पूजयेत् ।
तद्द्वादसमारूढं पापमाशु व्यपोहति ॥ १४.१०३.२७ ॥
或以酥油或油供养其双足,他便迅速消除十二年所积之罪。
14.103.28
धेनुकाञ्चनदत्तस्य यत्पुण्यं समुदाहृतम् ।
तत्पुण्यफलमाप्नोति यस्त्वेनं विप्रमर्चयेत् ॥ १४.१०३.२८ ॥
所说施予牛与金者的福德,凡礼敬此婆罗门者,即能获得那福德之果。
14.103.29
स्वागतेन तु यो विप्रं पूजयेदासनेन च ।
प्रत्युत्थानेन वा राजन्स देवानां प्रियो भवेत् ॥ १४.१०३.२९ ॥
若以问候、奉座或起身相迎礼敬婆罗门,大王,他便为诸天所喜爱。
14.103.30
स्वागतेनाग्नयो राजन्नासनेन शतक्रतुः ।
प्रत्युत्थानेन पितरः प्रीति यान्त्यतिथिप्रियाः ॥ १४.१०३.३० ॥
以问候,诸火欢喜;以奉座,百祭之因陀罗欢喜;以起身,祖灵欢喜——爱宾客的祖灵,大王,得到欢喜。
14.103.31
अग्निशक्रपितॄणां च तेषां प्रीत्या नराधिप ।
संवत्सरकृतं पापं तस्य सद्यो विनश्यति ॥ १४.१०३.३१ ॥
人主啊,以喜悦火神、因陀罗与祖先,一年所作之罪立即消灭。
14.103.32
यः प्रयच्छति विप्राय आसनं माल्यभूषितम् ।
स याति मणिचित्रेण रथेनेन्द्रनिकेतनम् ॥ १४.१०३.३२ ॥
若以花环装饰之座施于婆罗门,则乘饰以宝珠的车前往因陀罗之居。
14.103.33
पुरन्दरासने तत्र दिव्यनारीविभूषितः ।
षष्टिं वर्षसहस्राणि क्रीडत्यप्सरसां गणैः ॥ १४.१०३.३३ ॥
在彼,因陀罗之座上,为天女所庄严,与阿普萨罗斯群游戏六万年。
14.103.34
वाहनं यः प्रयच्छेत ब्राह्मणाय युधिष्ठिर ।
स याति रत्नचित्रेण वाहनेन सुरालयम् ॥ १४.१०३.३४ ॥
俱卢子啊,施予婆罗门车乘者,乘饰以宝珠之车前往天界。
14.103.35
स तत्र कामं क्रीडित्वा सेव्यमानोप्सरोगणैः ।
इह राजा भवेद्राजन्नात्र कार्या विचारणा ॥ १४.१०३.३५ ॥
彼在彼处随意嬉戏,受阿普萨罗斯群侍奉;王啊,他在此世将成为国王,此事毫无疑问。
14.103.36
पादपं पल्लवाकीर्णं पुष्पतिं फलितं तथा ।
गन्धमाल्यैरथाभ्यर्च्य वस्त्राभरणभूषितम् ॥ १४.१०३.३६ ॥
以香料与花环供养满布嫩芽、开花结果之树,并以衣饰庄严之……
14.103.37
यः प्रयच्छति विप्राय श्रोत्रियाय सदक्षिणम् ।
भोजयित्वा यथाकामं तस्य पुण्यफलं शृणु ॥ १४.१०३.३७ ॥
施与博学婆罗门以布施,并依其所愿供给饮食者,请听他的功德果报。
14.103.38
जांबूनदविचित्रेण विमानेन विराजता ।
पुरन्दरपुरं याति जयशब्दरवैर्युतः ॥ १४.१०३.३८ ॥
乘坐以黄金精美装饰、光辉灿烂的天车,在欢呼胜利的声浪中,他前往补兰陀罗(因陀罗)之城。
14.103.39
ततः शक्रपुरे रम्ये तस्य कल्पकपादपः ।
ददाति चेप्सितं सर्वं मनसा यद्यदिच्छति ॥ १४.१०३.३९ ॥
此后,在可爱的帝释天城中,他的如意树会给予他一切所求,凡心中所愿,无不满足。
14.103.40
यावन्ति तस्य पत्राणि पुष्पाणि च फलानि च ।
तावद्वर्षसहस्राणि शक्रलोके महीयते ॥ १४.१०३.४० ॥
其上有多少叶、花与果,他便在帝释天界受享尊崇多少千年。
14.103.41
शक्रलोकावतीर्णश्च मानुष्यं लोकमागतः ।
रथाश्वगजसंपूर्णं पुरं राज्यं च वक्ष्यति ॥ १४.१०३.४१ ॥
他降生于帝释天界之后来到人间,将获得充满战车、骏马与象群的城邑与王国。
14.103.42
स्थापयित्वा तु मद्भक्त्या यो मत्प्रतिकृति नरः ।
आलयं विधिवत्कृत्वा पूजाकर्म च कारयेत्।
स्वयं वा पूजयेद्भक्त्या तस्य पुण्यफलं शृणु ॥ १४.१०३.४२ ॥
请听那人的功德果报:他出于对我的虔信,设立我的像,依法建造殿宇,并令人行供养之礼,或亲自以虔敬之心礼拜。
14.103.43
अश्वमेधसहस्रस्य यत्पुण्यं समुदाहृतम् ।
तत्फलं समवाप्नोति मत्सालोक्यं प्रपद्यते।
न जाने निर्गमं तस्य मम लोकाद्युधिष्ठिर ॥ १४.१०३.४३ ॥
所宣称的千次马祀之功德,他获得那果报,并抵达与我同居之界。哦,坚战,我不知他离开我界之事。
14.103.44
देवालये विप्रगृहे गोवाटे चत्वरेऽपि वा ।
प्रज्वालयति यो दीपं तस्य पुण्यफलं शृणु ॥ १४.१०३.४४ ॥
请听那在神庙、婆罗门家、牛栏,甚至十字路口点灯者的功德果报。
14.103.45
आरुद्य काञ्चनं यानं द्योतयन्सर्वतो दिशम् ।
गच्छेदादित्यलोकं स सेव्यमानः सुरोत्तमैः॥छ ॥ १४.१०३.४५ ॥
乘坐金车,照耀四方,受诸天中最优者侍奉,他前往日天之界。
14.103.46
तत्र प्रकामं क्रीडित्वा वर्षकोटिं महातपाः ।
इह लोके भवेद्विप्रो वेदवेदाङ्गपारगः ॥ १४.१०३.४६ ॥
在彼处随心嬉戏千万年后,哦大苦行者,他在此世成为精通吠陀及其支分的婆罗门。
14.103.47
देवालयेषु वा राजन्ब्राह्मणावसथेषु वा ।
चत्वरे वा चतुष्के वा रात्रौ वा यदि वा दिवा ॥ १४.१०३.४७ ॥
哦国王,无论在神庙、婆罗门的住处、十字路口或广场,无论夜晚或白天。
14.103.48
नानागन्धर्ववाद्यानि धर्मश्रावणिकानि च ।
यस्तु कारयते भक्त्या मद्गतेनान्तरात्मना ॥ १४.१०३.४८ ॥
凡以虔敬之心,内在自我专注于我,令人演奏种种乾闼婆乐器并举行闻法之事者。
14.103.49
तस्य देवा नरश्रेष्ठ पितरश्चापि हर्षिताः ।
सुप्रीताः संप्रयच्चन्ति विमानं कामगं सुखम् ॥ १४.१०३.४९ ॥
人中之最!诸神与祖先因此欢喜,十分满意,便将随心所欲而行的天车欣然赐予他,使他快乐。
14.103.50
स च तेन पिमानेन याति देवपुरं नरः ।
तत्र दिव्याप्सरोभिस्तु सेव्यमानः प्रमोदते ॥ १४.१०३.५० ॥
那人乘此天车前往诸神之城,在那里被天上的阿普萨拉斯服侍,心中欢喜。
14.103.51
देवलोकावतीर्णस्तु सोस्मिँल्लोके नराधिप ।
वेदवेदाङ्गतत्वज्ञो भोगवान्ब्राह्मणो भवेत् ॥ १४.१०३.५१ ॥
人主啊,他从天界降生,在此世成为精通吠陀及其支分之义、富足的婆罗门。
14.103.52
चत्वरे वा सभायां वा विस्तीर्णि वा सभाङ्गणे ।
कृत्वाऽग्निकुण्डं विपुलं स्थण्डिलं वा युधिष्ठिर ॥ १४.१०३.५२ ॥
युधिष्ठिर啊,在十字路口、会堂中或会堂宽敞的庭院里,建一个大型火坑或高台祭坛——
14.103.53
तत्राग्निं चतुरो मासाञ्ज्वालयेद्यस्तु भक्तिमाम् ।
समाप्तेषु च मासेषु पौष्यादिषु ततो द्विजान् ॥ १४.१०३.५३ ॥
若有虔诚之人在彼处连续四个月燃火,待自补月起的诸月圆满之后,便请来诸再生者——
14.103.54
भोजयेत्पायसं मृष्टं मद्गतेनान्तरात्मना ।
दक्षिणां च यथाशक्ति ब्राह्म्णेभ्यो निवेदयत् ॥ १४.१०३.५४ ॥
以内心专注于我,应以甘美的乳糜饭供养他们,并依自己的能力向婆罗门奉献布施。
14.103.55
एवमग्निं तु यः कुर्यान्नित्यमेवार्चयेत्तु माम् ।
तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर ॥ १४.१०३.५५ ॥
若有人如此立火并常常敬拜我,其功德之果报如何,你当听好,坚战。
14.103.56
तेनाहं शङ्करश्चैव पितरो ह्यग्नयस्तथा ।
यास्यामः परमां प्रीतिं नात्र कार्याविचारणा ॥ १४.१०३.५६ ॥
因此,我、湿婆、祖先与众火都将获得至高的喜悦,此事无须怀疑。
14.103.57
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च ।
सोस्मत्प्रीतिकरः श्रीमान्मम लोके महीयते ॥ १४.१०३.५७ ॥
六万年又六百年,那使我们欢喜的光荣者在我的世界中受到尊崇。
14.103.58
मम लोकावतीर्णश्च अस्मिँल्लोके महायशाः ।
वेदवेदाङ्गविद्विप्रो जायते राजपूजितः ॥ १४.१०३.५८ ॥
降生于我的世界之中,在这世间生出一位大名之婆罗门,通晓吠陀与吠陀支分,受国王尊敬。
14.103.59
यः करोति नरश्रेष्ठ भरणं ब्राह्मणस्य तु ।
श्रोत्रियस्याभिजातस्य दरिद्रस्य विशेषतः।
तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर ॥ १४.१०३.५९ ॥
人中之最,坚战,你当听好:凡供养婆罗门者,尤其是博学、出身高贵而贫穷的婆罗门,其功德之果报如何。
14.103.60
गवां कोटिप्रदानेन यत्पुण्यं समुदाहृतम् ।
तत्सर्वफलमाप्नोति वर्षेणैकेन पाण्डव ॥ १४.१०३.६० ॥
凡布施千万头牛所宣说的功德,般遮之子啊,他在一年之内便能获得全部这些果报。
14.103.61
काञ्चनेन विचित्रेण विमानेनार्कशोभिना ।
स याति मामकं लोकं दिव्यस्त्रीगणसेवितः ॥ १४.१०३.६१ ॥
他乘坐由金子制成、奇异且如太阳般光辉的天车,前往我的世界,那里有众多天界女子侍奉他。
14.103.62
गीयमानो वरस्त्रीभिर्वर्षाणां कोटिविंशतिम् ।
क्रीडित्वा मामके तत्र सर्वदेवैरभिष्टुतः।
मानुष्यमवतीर्णस्तु वेदविद्ब्राह्मणो भवेत् ॥ १४.१०३.६२ ॥
在那里,他受到优秀女子的歌颂,并被诸神赞美,在我的世界中嬉戏二十个俱胝年。随后降生为人,便成为通晓吠陀的婆罗门。
14.103.63
करकां कर्णिकां वाऽपि महद्वा जलभाजनम् ।
यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु ॥ १४.१०३.६३ ॥
现在请听那向婆罗门布施一个小水壶、一个小器皿,或甚至一个大水器的人所得的功德果报。
14.103.64
ब्रह्मकूर्चे तु यत्पीते फलं प्रोक्तं नरादिप ।
तत्पुण्यफलमाप्नोति जलभाजनदो नरः।
सुतृप्तः सर्वसौगन्धः प्रहृष्टेन्द्रियमानसः ॥ १४.१०३.६४ ॥
人王啊,饮用梵之饮(brahma-kūrca)所得之果,已被宣说;施予水器者所获得的,正是这同样的功德果报:他得到充分的满足,具备一切芳香,诸根与心意皆欢喜。
14.103.65
हंससारसयुक्तेन विमानेन विराजता ।
स याति वारुणं लोकं दिव्यगन्धर्वसेवितम् ॥ १४.१०३.६५ ॥
他乘坐以天鹅和仙鹤驾驭的光耀天车,前往伐楼那的世界,那里有天界乾闼婆侍奉他。
14.103.66
पानीयं यः प्रयच्छेद्वै जीवानां जीवनं परम् ।
ग्रीष्मे च त्रिषु मासेषु तस्य पुण्यफलं शृणु ॥ १४.१०३.६६ ॥
现在请听那向众生施予饮水——众生至上的生命——尤其是在夏季三个月中施予者的功德果报。
14.103.67
कपिलाकोटिनानस्य यत्पुण्यं तु विधीयते ।
तत्पुण्यफलमाप्नोति पानीयं यः प्रयच्छति ॥ १४.१०३.६७ ॥
凡以千万头迦毗罗牛沐浴所规定的功德,施予清水者即获此功德之果。
14.103.68
पूर्णचन्द्रप्रकासेन विमानेन विराजता ।
स गच्छेच्चन्द्रभवनं सेव्यमानोप्सरोगणैः ॥ १४.१०३.६८ ॥
乘坐如满月般光辉的天车,他前往月亮之宫,有众多天女侍奉。
14.103.69
त्रिंशत्कोटियुगं तत्र दिव्यगन्धर्वसेवितः ।
क्रीडित्वा मानुषे लोके चतुर्वेदी द्विजो भवेत् ॥ १४.१०३.६९ ॥
在那里,由神圣的乾达婆侍奉三十亿个时代,尽情享乐之后,他在人间成为通晓四吠陀的再生婆罗门。
14.103.70
शिरोभ्यङ्गप्रदानेन तेजस्वी प्रियदर्शनः ।
सुभगो रूपवाञ्शूरः पण्डितश्च भवेद्द्विजः ॥ १४.१०३.७० ॥
因布施头油,他成为光辉、令人喜悦、有福、美貌、勇敢而博学的再生婆罗门。
14.103.71
वस्त्रदायी तु तेजस्वी सर्वत्र प्रियदर्शनः ।
सुभगो भवति श्रीमान्स्त्रीणां नित्यं मनोरमः ॥ १४.१०३.७१ ॥
施予衣服者变得光辉;处处令人喜悦、有福、尊贵,并且对女子永远迷人。
14.103.72
उपानहौ च च्छत्रं च यो ददाति नरोत्तमः ।
स याति रथमुख्येन काञ्चनेन विराजता।
शक्रलोकं महातेजाः सेव्यमानोप्सरोगणैः ॥ १४.१०३.७२ ॥
施予鞋履与伞盖的人中之最,乘坐灿烂的金色上等车驾前往因陀罗之界;这位大光辉者有天女群侍奉。
14.103.73
काष्ठपादुकदा यान्ति विमानैर्वृक्षनिर्मितैः ।
धर्मराजपुरं रम्यं सेव्यमानाः सुरोत्तमैः ॥ १४.१०३.७३ ॥
布施木屐者乘树木所造的天车,前往法王的美丽城市,受到诸天中最优者的侍奉。
14.103.74
दन्तकाष्ठप्रादनेन प्रियवाक्यो भवेन्नरः ।
सुगन्धवदनः श्रीमान्मेदासौभाग्यसंयुतः ॥ १४.१०३.७४ ॥
施舍齿木的人,会言辞柔和,面容芬芳,富有,并具足智慧与福运。
14.103.75
क्षीरं दधि घृतं वाऽपि गुडं मधुरसं तथा ।
ये प्रयच्छन्ति विप्रेभ्यः परां भक्तिमुपागताः ॥ १४.१०३.७५ ॥
以最高虔诚,向婆罗门布施牛奶、酸奶、酥油、红糖或甜汁的人——
14.103.76
ते वृषैरश्वयानैश्च श्वेतस्रग्दामभूषिताः ।
उपगीयमाना गन्धर्वैर्यान्तीश्वरपुरं नराः ॥ १४.१०३.७६ ॥
这些人饰以白色花环,乘坐牛马所驾之车,在乾闼婆的歌咏声中前往主宰者之城。
14.103.77
तत्र दिव्याप्सरोभिस्तु सेव्यमाना यथासुखम् ।
षष्टिवर्षसहस्राणि मोदन्ते देवसन्निभाः ॥ १४.१०३.७७ ॥
在那里,由天界的阿布沙拉斯悠然侍奉,他们如诸神般欢乐六万年。
14.103.78
ततः कालावतीर्णाश्च जायन्ते त्विह मानवाः ।
प्रभूतधनधान्याश्च भोगवन्तो नरोत्तमाः ॥ १४.१०३.७८ ॥
待时限已尽,他们便在此降生为人,富有财物与谷物,享受欲乐,是人中之最优者。
14.103.79
वैशाखे मासि वैशाखे दिवसे पाण्डुनन्दन ।
वैवस्वतं समुद्दिश्य परां भक्तिमुपागताः ॥ १४.१०३.७९ ॥
般度之子啊,在吠舍佉月,吠舍佉日,向毗婆娑多(阎摩)致意而达到至高虔敬的人们。
14.103.80
अभ्यर्च्य विधिवद्विप्रांस्तिलान्गुडसमन्वितान् ।
ये प्रयच्छन्ति विप्रेभ्यस्तेषां पुण्यफलं शृणु ॥ १४.१०३.८० ॥
现在听听那些依法礼敬婆罗门、并把芝麻与糖蜜施给婆罗门的人所得的福报。
14.103.81
गोप्रदानेन यत्पुण्यं विधिवत्पाण्डुनन्दन ।
तत्पुण्यं समनुप्राप्तो यमलोके महीयते।
ततश्चापि च्युतः कालादिह राजा भविष्यति ॥ १४.१०३.८१ ॥
般度之子啊,依法布施牛所得的功德,使他在阎摩界受到尊崇;之后随时间堕落,他将在此地成为国王。
14.103.82
तस्मिन्नेव दिने विप्रान्भोजयित्वा सुदक्षिणम् ।
तोयपूर्णानि दिव्यानि भाजनानि दिशन्ति ये ॥ १४.१०३.८२ ॥
那些在同一天里,供养婆罗门并给予丰厚的布施,奉献盛满清水的神圣器皿的人。
14.103.83
ते यान्त्यादित्यवर्णाभैर्विमानैर्वरुणालयम् ।
तत्र दिव्याङ्गनाभिस्तु रमन्ते कामकामिनः ॥ १४.१०३.८३ ॥
他们乘坐如太阳般光辉的天车前往水神伐楼那的居所;在那里,随心所欲,与天界的神女同享欢乐。
14.103.84
ततोऽवतीर्णाः कालेन ते चास्मिन्मानुषे पुनः ।
भोगवन्तो द्विजश्रेष्ठ भविष्यन्ति न संशयः ॥ १४.१०३.८४ ॥
之后,他们在时机成熟时再次降生于这个人间世界,成为享受富足的人,啊,再生者中的最优者;此事无疑。
14.103.85
अनन्तराशी यश्चापि वर्तते व्रतवत्सदा ।
सत्यवाक्क्रोधरहितः शुचिः स्नानरतः सदा।
स विमानेन दिव्येन याति शक्रपुरं नरः ॥ १४.१०३.८५ ॥
常持誓戒、唯于斋后方食、言语诚实、无有忿怒、清净、常乐沐浴之人,乘天界飞车往因陀罗之城。
14.103.86
तत्र दिव्याप्सरोभिस्तु वर्षकोटिं महातपाः ।
क्रीडित्वा मानुषे लोके जायते वेदविद्द्विजः ॥ १४.१०३.८६ ॥
彼于彼处与天界阿普萨拉斯游戏千万年后,这位大苦行者在人间生为通晓吠陀的婆罗门。
14.103.87
एकभुक्तेन यश्चापि वर्षमेकं तु वर्तते ।
ब्रह्मचारी जितक्रोधः सत्यशौचसमन्वितः।
स विमानेन दिव्येन याति शक्रपुरं नरः ॥ १४.१०३.८७ ॥
一年之中每日只食一次,行梵行、胜怒、具足真实与清净之人,乘天界飞车往因陀罗之城。
14.103.88
दशकोटिसहस्राणि क्रीडित्वाऽप्सरसां गणैः ।
इह मानुष्यके लोके वेदविद्ब्राह्मणो भवेत् ॥ १४.१०३.८८ ॥
与众阿普萨拉斯游戏万亿(万乘千万)年后,他在此人间成为通晓吠陀的婆罗门。
14.103.89
चतुर्थकाले यो भुङ्क्ते ब्रह्मचारी जितेन्द्रियः ।
वर्तते चैकवर्षं तु तस्य पुण्यफलं शृणु ॥ १४.१०३.८९ ॥
请听那位梵行者的福报:他制伏诸根,于第四时食用,如此过一年。
14.103.90
चित्रबर्हिणयुक्तेन विचित्रध्वजशोभिना ।
याति यानेन दिव्येन स महेन्द्रपुरं नरः ॥ १४.१०३.९० ॥
此人乘天界之车,以羽色斑斓的孔雀牵引,饰以五彩旌旗,往大因陀罗之城。
14.103.91
अकृशाभिर्वरस्त्रीभिः सेव्यमानो यथासुखम् ।
ततो द्वादशकोटिं स समाः सम्यक्प्रमोदते ॥ १४.१०३.९१ ॥
他由丰满优美的女子安适地侍奉,然后充分欢乐了一千二百万年。
14.103.92
शक्रलोकावतीर्णस्तु लोके चास्मिन्नराधिप ।
भवेद्वै ब्राह्मणो विद्वान्क्षमावान्वेदपारगः ॥ १४.१०३.९२ ॥
君主啊,他从帝释天的世界降生,在此世成为博学、忍耐、精通吠陀的婆罗门。
14.103.93
षष्ठकाले तु योऽश्नाति वर्षमेकमकल्मषः ।
ब्रह्मचर्यव्रतैर्युक्तः शुचि क्रोधविवर्जितः।
तपोयुक्तस्य तस्याथ शृणुष्व फलमुत्तमम् ॥ १४.१०३.९३ ॥
现在听那具足苦行者的殊胜果报:他在第六时进食整整一年,无罪,持守梵行誓愿,清净,远离愤怒。
14.103.94
अत्यादित्यप्रकाशेन विमानेनार्कसंनिभः ।
स याति मम लोकान्वै दिव्यनारीनिषेवितः ॥ १४.१०३.९४ ॥
他乘坐光芒胜过太阳的天车,如太阳般光辉,受天女侍奉,前往我的世界。
14.103.95
तत्र साध्यैर्मरुद्भिस्तु पूज्यमानो यथासुखम् ।
पश्यन्नेव सदा मां तु क्रीडत्यप्सरसां गणैः ॥ १४.१०३.९५ ॥
他在那里受到萨陀耶与风神们的安乐供养,常常见到我,与阿普萨拉斯的群体嬉戏。
14.103.96
पक्षोपवासं यश्चापि कुरुते मद्गतात्मना ।
समाप्ते तु व्रते तस्मिंस्तर्पयेच्छ्रोत्रियान्द्विजान् ॥ १४.१०३.९६ ॥
若有人一心念我,行半月断食,待此誓圆满时,应当供养精通吠陀的再生婆罗门。
14.103.97
सोपि गच्छति दिव्येन विमानेन महातपाः ।
द्योतयनप्रभया व्योम मम लोकं प्रपद्यते।
स तत्र मोदते कामं कामरूपी यथासुखम् ॥ १४.१०३.९७ ॥
这位大苦行者也乘着天界的车驾前往,以光辉照亮天空,抵达我的世界。在那里,他随心所欲地变化形体,安然喜乐。
14.103.98
त्रिंशत्कोटिसमा राजन्क्रीडित्वा तत्र देववत् ।
इह मानुष्यके लोके पूजनीयो द्विजो भवेत्।
त्रयाणामपि वेदानां साङ्गानां पारगे भवेत् ॥ १४.१०३.९८ ॥
大王啊,他在那里如天神般嬉戏三十亿年。随后,在这人间世界,他成为值得尊敬的婆罗门,精通三部吠陀及其支分。
14.103.99
यश्च मासोपवासं वै कुरुते मद्गतात्मना ।
जितेन्द्रियो जितक्रोधोजितधीः स्नानतत्परः ॥ १४.१०३.९९ ॥
若有人一心念我,禁食一月,克制感官与愤怒,心智守正,专心沐浴。
14.103.100
समाप्ते नियमे तत्र भोजयित्वा द्विजोत्तमान् ।
दक्षिणां च ततो दद्यात्प्रहृष्टेनान्तरात्मना ॥ १४.१०३.१०० ॥
誓戒圆满之后,应在那里供养最优秀的婆罗门,然后以欢喜之心布施酬礼。
14.103.101
स गच्छति महातेजा ब्रह्मलोकमनुम् ।
सिंहयुक्तेन यानेन दिव्यस्त्रीगणसेवितः ॥ १४.१०३.१०१ ॥
这位大光明者随后前往梵天世界,乘坐由狮子牵引的车驾,受到众天女的侍奉。
14.103.102
स तत्र ब्रह्मणो लोके दिव्यर्षिगणसेवितः ।
शतकोटिसमा राजन्यथाकामं प्रमोदते ॥ १४.१०३.१०२ ॥
大王啊,他在梵天世界中,受到众天神仙人的侍奉,随心所欲地喜乐,历时一百亿年。
14.103.103
ततः कालावतीर्णश्च सोस्मिँल्लोके द्विजो भवेत् ।
षडङ्गविच्चतुर्वेदी त्रिंशज्जन्मान्यरोगवान् ॥ १४.१०३.१०३ ॥
其后时至,他便在此世间生为再生者(婆罗门),通晓六吠檀多支与四吠陀,三十次生世无病。
14.103.104
यस्त्यक्त्वा सर्वकर्माणि शुचिः क्रोधविवर्जितः ।
महाप्रस्तानमेकाग्नो याति मद्गतमानसः ॥ १४.१०३.१०४ ॥
若有人舍弃一切业行,清净无怒,专一心念,心意系于我,而行大往生之路。
14.103.105
स गच्छेदिन्द्रसदनं विमानेन महातपाः ।
महामणिविचित्रेण सौवर्णन विराजता ॥ १४.१०३.१०५ ॥
此大苦行者乘以大宝珠装饰、金光闪耀的天车,前往因陀罗的居所。
14.103.106
शतकोटिसमास्तत्र सुराधिपतिपूजितः ।
नाकपृष्ठे निवसति दिव्यस्त्रीगणसेवितः ॥ १४.१०३.१०६ ॥
在那里,历经百亿年,受天主敬奉,居于天界之背,有诸天女众侍奉。
14.103.107
शक्रलोकावतीर्णश्च मानुषेषूपजायते ।
राज्ञां राजा महातेजाः सर्वलोकार्चितः प्रभुः ॥ १४.१०३.१०७ ॥
自因陀罗之界降临,他生于人间,为诸王之王,大光明,受一切世界尊崇,为主宰。
14.103.108
प्रायोपवेशं यश्चापि कुरुते मद्गतात्मना ।
नमो ब्रह्मण्यदेवायेत्युक्त्वा मन्त्रं समाहितः।
अन्तःस्वस्थो जितक्रोधस्तस्य पुण्यफलं शृणु ॥ १४.१०३.१०८ ॥
若有人以心意系于我而行绝食至死,诵念「敬礼护持婆罗门之神」之咒,专注安定,内心坚固,胜过愤怒——请听其功德果报。
14.103.109
कामगः कामरूपी च बालसूर्यसमप्रभः ।
स विमानेन दिव्येन याति लोकाननामयान् ॥ १४.१०३.१०९ ॥
他随意而行,随意变化形象,光辉如初升之日,乘坐天上的车驾前往无病苦的世界。
14.103.110
स्वर्गत्स्वर्गं महातेजा गत्वा चैव यथासुखम् ।
मम लोकेषु रमते यावदाभूतसंप्लवम् ॥ १४.१०३.११० ॥
这位大光明者从一天界到另一天界,安乐自在,在我的世界中欢娱,直到众生的大劫。
14.103.111
अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना ।
सोपि यानेन दिव्येन मम लोकं प्रपद्यते ॥ १४.१०३.१११ ॥
心念专注于我而投入火中的人,也乘神圣的车驾到达我的世界。
14.103.112
तत्र सर्वगुणोपेतः पश्यन्नेव स मां सदा ।
त्रिंशत्कोटिसमा राजन्मोदते मम संनिधौ।
ततोऽवतीर्णः कालेन वेदविद्ब्राह्मणो भवेत् ॥ १४.१०३.११२ ॥
在那里,他具备一切美德,常常见到我,大王啊,在我的近前欢喜三千万年;之后时机到来,他降生为通晓吠陀的婆罗门。
14.103.113
कर्षणं साधयन्यस्तु मां प्रपन्नः शुचिव्रतः ।
नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रमुदाहरन् ॥ १४.१०३.११३ ॥
若有人在耕作之时,持守清净誓愿,皈依于我,并诵念此咒:“敬礼爱护婆罗门的神。”
14.103.114
बालसूर्यप्रकाशेन विमानेन विराजता ।
मम लोकं समासाद्य वर्षकोटिं प्रमोदते।
मम लोकावतीर्णश्च सोस्मिँल्लोके नृपो भवेत् ॥ १४.१०३.११४ ॥
乘着如初升朝阳般明亮的天车,他到达我的世界,欢喜一千万年;之后从我的世界降下,在此世界成为国王。
14.103.115
निवेशयति मन्मूर्त्यामात्मानं मद्गतः शुचिः ।
रुद्रदक्षिणमूर्त्यां वा चतुर्दश्यां विशेषतः ॥ १४.१०३.११५ ॥
心向于我、清净的人,在我的形象中,或在楼陀罗的南面形象中安置自己的自我,尤其是在第十四日。
14.103.116
सिद्धैर्ब्रह्मर्षिभिश्चैव देवलोकैश्च पूजितः ।
गन्धर्वैर्भूतसङ्घैश्च गीयमानो महातपाः ॥ १४.१०३.११६ ॥
受成就者、梵仁仙人和天界所敬拜,被乾闥婆和众生群所歌颂的大苦行者。
14.103.117
प्रविशेत्स महातेजा मां वा शङ्करमेव वा ।
न स्यात्पुनर्भवो राजन्नात्र कार्या विचारणा ॥ १४.१०३.११७ ॥
大光明者若入于我或湿婆,则不再轮回,大王;此事不必疑虑。
14.103.118
गोकृते स्त्रीकृते चैव गुरुविप्रकृतेऽपि वा ।
हन्यन्ते ये तु राजेन्द्र शक्रलोकं व्रजन्ति ते ॥ १४.१०३.११८ ॥
为牛、为女人、为师长或婆罗门而被杀者,大王中的王啊,他们往生因陀罗界。
14.103.119
तत्र जांबूनदमये विमाने कामगामिनि ।
मन्वन्तरं प्रमोदन्ते दिव्यनारीनिषेविताः ॥ १४.१०३.११९ ॥
在那里,乘坐金制、随意而行的天车,受天女侍奉,他们喜乐一个曼凡塔拉。