Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.14

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.14.1

एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः ।
समाश्वस्त राजर्षिर्हितबन्धुर्युधिष्ठिरः ॥ १४.१४.१ ॥

那些以苦行为财富的仙人以种种言辞安慰了这位善意的亲族、王仙尤帝士提罗,他由此得到了宽慰。

14.14.2

सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम् ।
द्वैपायनेन कृष्णेनि देवस्थानेन चाभिभूः ॥ १४.१४.२ ॥

吉祥的广名仙人毗耶娑亲自、克利须那以及具神性地位者劝慰他,但他仍被悲痛所压倒。

14.14.3

नारदेनाथ भीमेन नकुलेन च पार्थिव ।
कृष्णया सहदेवेन विजयेन च धीमता ॥ १४.१४.३ ॥

国王啊!还有那拉陀、怖军、无种、德劳帕蒂、偕天,以及智慧的胜利者(阿周那)。

14.14.4

अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः ।
व्यजहाच्छोकजं दुःखं सन्तापं चैव मानसम् ॥ १४.१४.४ ॥

还有其他人中的虎杰以及以经典为眼的婆罗门,使他摒弃了由悲伤而生的痛苦与内心的煎熬。

14.14.5

अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः ।
कृत्वाऽथ प्रेतकार्याणि सर्वेषां कुरुनन्दनः।
अन्वशासच्च धर्मात्मा पृथिवीं सागराम्बराम् ॥ १४.१४.५ ॥

尤帝士提罗供养诸天与婆罗门;随后,这位库鲁族之喜乐者为所有人举行了丧葬仪式,这位具正法之心者统治着被海洋环绕如衣的大地。

14.14.6

प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम् ।
व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः ॥ १४.१४.६ ॥

心已平静的俱卢王,完全获得了自己的王国后,对毗耶娑、那拉陀及其他人说道。

14.14.7

आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुङ्गवैः ।
न सूक्ष्ममपि मे किञ्चिद्व्यलीकमिह विद्यते ॥ १४.१४.७ ॥

先前蒙你们这些长者、诸仙中最杰出者的安慰,如今我心中连一丝忧愁也没有。

14.14.8

अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देवताः ।
पुरस्कृत्याद्य भवतः समानेष्यामहे मखम् ॥ १४.१४.८ ॥

我得到了巨大的财富,将以此祭祀诸神;今天请你们走在前面,我们共同举行祭祀。

14.14.9

हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह ।
बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम ॥ १४.१४.९ ॥

祖父啊,在你的护佑下,我们将前往喜马拉雅;听说那个地方充满了奇迹,二生者中最杰出的人啊。

14.14.10

तथा भगवता चित्रं कल्याणं बहु भाषितम् ।
देवर्षिणा नारदेन देवस्थानेन चैव ह ॥ १४.१४.१० ॥

同样,尊贵的天仙那罗陀,以及天神的居所(Devasthāna),也说了许多奇妙而吉祥的话语。

14.14.11

नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून् ।
लभते व्यसनं प्राप्य सुहृदः साधुसम्मतान् ॥ १४.१४.११ ॥

只有有福之人,即使陷入灾难,才能得到这样的尊长和为善者所敬重的朋友。

14.14.12

एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः ।
अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ ॥ १४.१४.१२ ॥

国王如此说后,所有那些大仙向国王告别,也向黑天和法尔古那告别,然后离去。

14.14.13

पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः ।
ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः ॥ १४.१४.१३ ॥

众人看着,他们就在那里消失了。然后,法之子、尊主国王便就地坐下。

14.14.14

एवं नातिमहान्कालः स तेषां संन्यवर्तत ।
कुर्वतां शौचकार्याणि भीष्मस्य निधने तदा।
महादानानि विप्रेभ्यो ददतामौर्ध्वदेहिकम् ॥ १४.१४.१४ ॥

如此过去的时间并不太长。在毗湿摩去世时,他们一边举行净化仪式,一边向婆罗门布施大礼,完成了葬后的仪轨(aurdhvadehika)。

14.14.15

भीष्मकर्णपुरोगाणां कुरूणां कुरुसत्तम ।
सहितो धृतराष्ट्रेण स ददावौर्ध्वदेहिकम् ॥ १४.१४.१५ ॥

众中最优秀的俱卢啊!他与持国一起,为以毗湿摩和迦尔纳为首的俱卢族人举行了葬后仪轨(aurdhvadehika)。

14.14.16

ततो दत्त्वा बहुधनं विप्रेभ्यः पाण्डवर्षभः ।
धृताराष्ट्रं पुरुस्कृत्य विवेश गजसाह्वयम् ॥ १४.१४.१६ ॥

随后,般度族中最优秀的人向婆罗门布施大量财富,让持国走在前面,进入了象城(Hāstinapura,象城/Hastinapura)。