摩诃婆罗多 · 章 14.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.19.1
शुभानामशुभानां च नेह नाशोस्ति कर्मणाम् ।
प्राप्यप्राप्यानुपच्यन्ते क्षेत्रेक्षेत्रे तथातथा ॥ १४.१९.१ ॥
此处善恶之业并无消亡;在每一块田中,它们依其所应,屡次获得果报而成熟。
14.19.2
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु ।
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ॥ १४.१९.२ ॥
如同结果的树木结出丰硕的果实,以清净之心所作之业也会带来巨大的功德。
14.19.3
पापं चापि तथैव स्यात्पापेन मनसा कृतम् ।
पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ॥ १४.१९.३ ॥
以罪恶之心所作的罪业,也是如此。在此,灵魂将心置于前而投入行动。
14.19.4
यथा कर्मसमाविष्टः काममन्युसमावृतः ।
नरो गर्भं प्रविशति तत्रापि शृणु चोत्तरम् ॥ १४.१९.४ ॥
如同沉溺于业行、被欲望与愤怒所笼罩的人进入母胎一样,请听关于此事的进一步回答。
14.19.5
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् ।
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाऽशुभम् ॥ १४.१९.५ ॥
与血液混合的精液进入女子的胞宫,便获得由业所生的身体——无论善或恶。
14.19.6
सौक्ष्म्यादव्यक्तयावाच्च न च क्वचन सज्जति ।
सम्प्राप्य ब्राह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् ॥ १४.१९.६ ॥
因其微妙且不显现,它不执着于任何处;婆罗门(自我)即使获得身体——因此那梵是永恒的。
14.19.7
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ॥ १४.१९.७ ॥
彼乃一切众生之种子,众生由此而生存。
14.19.8
स जीवः सर्वभूतानां गर्भमाविश्य भागशः ।
दधाति चेतना सद्यः प्राणस्थानेष्ववस्थितः।
ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ॥ १४.१९.८ ॥
众生之那个生命,进入子宫,分部分地赋予知觉;安住于气息之处,立即赋予知觉。然后它使肢体动起来;那胎便具有了知觉。
14.19.9
यथा लोहस्य विष्यन्दो निषिक्तो बिम्बविग्रहम् ।
उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम् ॥ १४.१९.९ ॥
如熔铁之流注入模具,便成像之形,同样应知灵魂进入子宫亦是如此。
14.19.10
लोहपिण्डं यथा वह्निः प्रविश्य ह्यतितापयेत् ।
तथा त्वमपि जानीहि गर्भे जीवोपपादनम्। ॥ १४.१९.१० ॥
如火进入铁块,使其极度炽热,你也应知道灵魂在子宫中的生成。
14.19.11
यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् ।
एवमेव शरीराणि प्रकाशयति चेतनः ॥ १४.१९.११ ॥
如灯在其所处之处燃烧而发光,有知觉者也如此照亮诸身。
14.19.12
यद्यच्च कुरुते कर्म शुभं वा यदि वाऽशुभम् ।
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ॥ १४.१९.१२ ॥
人所作之业,无论善恶,凡前身所作,必定要受用。
14.19.13
ततस्तु क्षीयते चैव पुनश्चान्यत्प्रचीयते ।
यावत्तु मोक्षयोगस्थं धर्मं नैवावबुध्यते ॥ १४.१९.१३ ॥
于是它减少,又有别的积累起来,直到人领悟处于解脱相应之中的法为止。
14.19.14
तत्ते धर्मं प्रवक्ष्यामि सुखी भवति येन वै ।
आवर्तमानो जातीषु यथाऽन्योन्यासु सत्तम ॥ १४.१९.१४ ॥
因此,善人中的最优者啊,我将向你宣说那使人幸福的法,给那在诸生中轮转的人。
14.19.15
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् ।
दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ॥ १४.१९.१५ ॥
布施、誓愿、梵行、依规而持守誓愿、克制、寂静,以及对众生的慈悲。
14.19.16
संयमश्चानृशंस्य च परस्वादानवर्जनम् ।
व्यलीकानामकरणं भूताना मनसा भुवि ॥ १४.१९.१६ ॥
克制与不残忍,不取他人之物,以及即使在心中也不伤害大地上的众生。
14.19.17
मातापित्रोश्च शुश्रूषा देवतातितिपूजनम् ।
गुरुपूजा घृणा शौचं नित्यमिन्द्रयसंयमः ॥ १४.१९.१७ ॥
侍奉父母,供养天神与客人,尊敬师长,知耻,清净,以及时时克制诸根。
14.19.18
प्रवर्तनं शुभानां च तत्सतां व्रतमुच्यते ।
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ॥ १४.१९.१८ ॥
推行善行,称为善人之誓愿;由此产生那保护永恒众生的法。
14.19.19
सद्भिराचरितो धर्मः सदाचारे प्रतिष्ठितः ।
उभयार्थो भवत्येव स्वर्गार्थो मोक्षतस्तथा॥ ॥ १४.१९.१९ ॥
由善人奉行、立于良好行为之中的法,确实同时成就两种目的:天界与解脱(解脱)。
14.19.20
एवं सत्सु सदा पश्येत्तत्रछाप्येषा ध्रुवा स्थितिः ।
आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ॥ १४.१९.२० ॥
因此应当常在善人之中看到这一点;这一稳固的秩序就在那里。正是行为宣说了善人所安住的法。
14.19.21
तेषु तत्कर्म निक्षिप्तं यः स धर्मः सनातनः ।
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ॥ १४.१९.२१ ॥
那行为就安置在他们之中,那便是永恒之法;谁归依它,就不会坠入恶趣。
14.19.22
अतो नियम्यते लोकः प्रच्यवन्धर्मवर्त्मसु ।
यश्च योगी च मुक्तश्च स ऐतेभ्यो विशिष्यते ॥ १४.१९.२२ ॥
因此,当世间偏离法的道路时,便受到约束;瑜伽士与解脱者则高于这些人。
14.19.23
वर्तमानस्य धर्मेण पुरुषस्य यथा तथा ।
संसारतारणं ह्यस्य कालेन महता भवेत् ॥ १४.१९.२३ ॥
对于遵循法而行的人,无论他是怎样的,他超越轮回必定要经过很长的时间。
14.19.24
एवं पूर्वकृतं कर्म सर्वो जन्तुः प्रपद्यते ।
सर्वं तत्कारणं येन निकृतोऽप्यमिहागतः ॥ १४.१९.२४ ॥
如此,每个众生都会遭遇其先前所作的行为;这便是一切的原因,正是由于它,这些人尽管受伤,仍来到此处。
14.19.25
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् ।
इत्येवं संशये लोके तच्च वक्ष्याम्यतः परम् ॥ १४.१९.२५ ॥
这灵魂的得身,是谁最初所定?世间有此疑惑。此后我将说明。
14.19.26
शरीरमात्मनः कृत्वा सर्वलोकपितामहः ।
त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ॥ १४.१९.२६ ॥
梵天作为一切世界的祖父,以自身为身体,创造了三界以及全部动与不动之物。
14.19.27
ततः प्रधानमसृजच्चेतनां तु शरीरिणाम् ।
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ॥ १४.१९.२७ ॥
随后他创造了原初本性(prakṛti)以及有形众生的觉知,一切皆由其所遍及;世人称之为至上。
14.19.28
इदं तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् ।
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ॥ १४.१९.२८ ॥
此称为可灭者(kṣara);而至上者乃是不死、不灭者。三者之对偶存在于一切之中,各各不同。
14.19.29
असृजत्सर्वभूतानि पूर्वदृष्टः प्रजापतिः ।
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ॥ १४.१९.२९ ॥
古时所见的生主(Prajāpati)创造了一切众生,包括不动之物与有情;此乃古老的传承。
14.19.30
तस्य कालपरीमाणमकरोत्स पितामहः ।
भूतेषु परिवृत्तिं च पनरावृत्तिमेव च ॥ १४.१९.३० ॥
那位祖父为之确定了时间的尺度,以及众生之间的轮转与再来。
14.19.31
यथा तु कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि ।
यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ॥ १४.१९.३१ ॥
如同一位在前世见过自我的智者,我将要宣说的一切都恰如其分。
14.19.32
सुखदुःखे यथा सम्यगनित्ये यः प्रपश्यति ।
कायं चामेध्यसंस्थानं विनाशं कर्मसंहितम् ॥ १४.१९.३२ ॥
能正确地看到苦乐无常,身体是不净之构造、受业所缚而终将毁灭的人。
14.19.33
यच्च किञ्चित्सुखं तच्च दुःखं दृष्टमिति स्मरन् ।
संसारसागरं घोरं तरिष्यति सुदुस्तरम् ॥ १४.१९.३३ ॥
忆及凡是乐也都被视为苦,他将渡过可怖而极难渡越的轮回之海。
14.19.34
जनीमरणरोगैश्च समाविष्टः प्रधानवित् ।
चेतनाव्तसु चैतन्यं समं भूतेषु पश्यति ॥ १४.१९.३४ ॥
虽被生、死、病所缠绕,通晓本初原理者在有情众生中看见同一的觉性,遍及一切众生。
14.19.35
निर्विद्यते ततः कश्चिन्मार्गमाणः परं पदम् ।
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ॥ १४.१९.३५ ॥
于是有人寻求最高之境,便生厌离。善中之最,我将如实宣说他的教导。
14.19.36
शाश्वतस्याव्ययस्याथ् यदस्य ज्ञानमुत्तमम् ।
प्रोच्यमानं मया विप्र निबोधदमशेषतः ॥ १४.१९.३६ ॥
我所宣说的关于常恒不灭者的最上智慧,婆罗门啊,请完整地领会它。