Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.21

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.21.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
दंपत्योः पार्थ संवादो योऽभवद्भरतर्षभ ॥ १४.२१.१ ॥

这里的人也讲述这个古老的故事——丈夫与妻子之间的对话,哦,普利塔之子,婆罗多族的雄牛。

14.21.2

ब्राह्मणी ब्राह्मणं कंचिज्ज्ञानविज्ञानपारगम् ।
दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् ॥ १४.२१.२ ॥

一位婆罗门妻子看见一位精通知识与智慧的婆罗门独自静坐,便对她的丈夫说道。

14.21.3

कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता ।
न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् ॥ १४.२१.३ ॥

我以你为夫而依靠你,将前往哪一个世界呢?你放下了职责而坐着,不明事理。

14.21.4

भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम् ।
त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् ॥ १४.२१.४ ॥

我们听说,妻子能得到丈夫所成就的世界;我以你为夫,将到达怎样的归宿呢?

14.21.5

एवमुक्तः स शान्तात्मा तामुवाच हसन्निव ।
सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे ॥ १४.२१.५ ॥

她这样说了,那位心境平和的人仿佛微笑着对她说:善良的女子啊,无瑕的人啊,我不因你这些话而生气。

14.21.6

ग्राह्यं दृश्यं तथा श्राव्यं यदिदं कर्म विद्यते ।
एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः ॥ १४.२१.६ ॥

凡是可以把握、可以看见、可以听闻的行为,这便是行动者所确定的所谓“行为,行为”。

14.21.7

मोहमेव निगच्छन्ति कर्मिणो ज्ञानवर्जिताः ।
नैष्कर्म्य न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते ॥ १४.२१.७ ॥

无知的行动者只会陷入迷惑;在此世间,无为并不以具体形态被人所见。

14.21.8

कर्मणा मनसा वाचा शुभं वा यदि वाऽशुभम् ।
जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते ॥ १४.२१.८ ॥

无论善恶,以行为、意念或言语,业力存在于由生至起的各种形体众生之中。

14.21.9

रक्षोभिर्वध्यमानेषु दृश्यश्राव्येषु कर्मसु ।
आत्मस्थमात्मना तेन दृष्टमायतनं मया ॥ १४.२१.९ ॥

在被罗刹所阻的可见可闻之行中,我以自身看见了那居于自我之中的住所。

14.21.10

यत्र तद्ब्रह्म निर्द्वन्द्वं यत्र सोमः सहाग्निना ।
व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् ॥ १४.२१.१० ॥

那超越二元对立的梵,月与火永恒相合之处,坚定者承载众生。

14.21.11

यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते ।
विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः ॥ १४.२१.११ ॥

梵天等人以瑜伽相应,崇敬那不灭者;智者、坚守誓愿、心境寂静、摄服诸根者,也在那里奉事它。

14.21.12

घ्राणेन न तदाघ्रेयं नास्वाद्यं चैव जिह्वया ।
स्पर्शनेन तदस्पृश्यं मनसा त्ववगम्यते ॥ १४.२१.१२ ॥

它不可由鼻嗅闻,不可由舌品尝,不可由触觉接触;然而可以由意识领会。

14.21.13

चक्षुषा न विषह्यं च यत्किञ्चिच्छ्रवणात्परम् ।
अगन्धमरसस्पर्शमरूपं शब्दवर्जितम्।
यतः प्रवर्तते तन्त्रं यत्र चैतत्प्रतिष्ठितम् ॥ १४.२१.१३ ॥

那不可用眼睛把握、超越听觉、无味、无味道、无触、无形、无声之物:此体系由它而生,并在它之中确立。

14.21.14

प्राणोऽपानः समानश्च व्यानश्चोदान एव च ।
तत एव प्रवर्न्तते तदेव प्रविशन्ति च ॥ १४.२१.१४ ॥

上行气、下行气、平衡气、遍行气与出行气:它们只从那里生起,也只入于那里。

14.21.15

समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः ।
तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च ॥ १४.२१.१५ ॥

在平衡气与遍行气之间,上行气与下行气运行;当那人入睡时,平衡气与遍行气也隐没。

14.21.16

अपानप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति ।
तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः ॥ १४.२१.१६ ॥

在下行气与上行气之间,出行气遍布而住;因此上行气与下行气不离开躺卧的人。

14.21.17

प्राणेनोपहते यत्तु तमुदानं प्रचक्षते ।
तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः ॥ १४.२१.१७ ॥

被上行气所制伏者,称为出行气;因此论梵者决意修习从它而生的苦行。

14.21.18

तेषामन्योन्यसक्तानां सर्वेषां देहचारिणाम् ।
अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा ॥ १४.२१.१८ ॥

在彼此相连、居于身中的一切有身众生之间,火神毗首那罗被七重地安置于内。

14.21.19

घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् ।
मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः ॥ १४.२१.१९ ॥

鼻、舌、眼、身,第五为耳,意与觉——此七者即是吠舍婆那罗火的焰舌。

14.21.20

घ्रेयं दृश्यं च पेयं च स्पृश्यं श्राव्यं तथैव च ।
मन्तव्यमवबोद्धव्यं ताः सप्त समिधो मताः ॥ १४.२१.२० ॥

可嗅、可见、可饮、可触、可闻、可思、可知——此七者被认为是柴薪。

14.21.21

घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः ।
मन्ता बोद्धा च स्प्तैते भवन्ति परमर्त्विजः ॥ १४.२१.२१ ॥

嗅者、食者、见者、触者,第五为听者,思者与知者——此七者即是至高的祭司。

14.21.22

घ्रेये पेये च दृश्ये च स्पृश्ये श्राव्ये तथैव च ।
मन्तव्येऽप्यथ बोद्धव्ये सुभगे पश्य सर्वदा ॥ १४.२१.२२ ॥

善妙者啊!于可嗅、可饮、可见、可触、可闻、可思、可知之中,常常观看他吧。

14.21.23

हवींष्याग्निषु होतारः सप्तधा सप्तसप्तसु ।
सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु ॥ १४.२१.२३ ॥

祭司们以七七之数,将供品妥善投入诸火之中;智者则使之在各自的本源中生起。

14.21.24

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
मनो बुद्धिश्च सप्तैता योनिरित्येव शब्दिताः ॥ १४.२१.२४ ॥

地、风、空、水、光,第五为意,以及觉——此七者被称为胎藏(本源)。

14.21.25

हविर्भूतगुणाः सर्वे प्रविशन्त्यग्नियं मुखम् ।
अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु ॥ १४.२१.२५ ॥

所有化为祭品的属性进入此火之口;在内停留之后,它们便在各自的母胎中诞生。

14.21.26

तत्रैव च निरुध्यन्ते प्रलये भूतभावने ।
ततः संजायते गन्धस्ततः संजायते रसः ॥ १४.२१.२६ ॥

在劫末之时,它们便被收摄于那使众生生起者之中。随后生起香;随后生起味。

14.21.27

ततः संजायते रूपं ततः स्पर्शोऽभिजायते ।
ततः संजायते शब्दः संशयस्तत्र जायते।
ततः संजायते निष्ठा जन्मैतत्सप्तधा विदुः ॥ १४.२१.२७ ॥

随后生起色;随后生起触。随后生起声,而在那里生起疑。随后生起定;人们知此生之为七重。

14.21.28

अनेनैव प्रकारेण प्रगृहीतं पुरातनैः ।
पूर्णाहुतिभिरापूर्णास्ते पूर्यन्ते हि तेजसा ॥ १४.२१.२८ ॥

古人正是以此方式领悟了它;以完满的供物而圆满,他们确实被光辉充满。