Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.30

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.30.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि ॥ १४.३०.१ ॥

此处人们也讲述这个古老的故事——迦尔塔维利耶与大海的对话,哦,光辉的女子。

14.30.2

कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।
येन सागरपर्यन्ता धनुषा निर्जिता मही ॥ १४.३०.२ ॥

有一位名为迦尔塔维利耶阿周那的国王,有千臂,他以弓征服了以大海为界的大地。

14.30.3

स कदाचित्समुद्रान्ते विचरन्बलदर्पितः ।
अवीकिरच्छरशतैः समुद्रमिति नः श्रुतम् ॥ १४.३०.३ ॥

据我们所闻,他一次在海边漫游,因力量而自负,以数百支箭覆盖了大海。

14.30.4

तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाचह ।
मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते ॥ १४.३०.४ ॥

大海向他行礼,合掌说道:英雄啊,请不要放箭;告诉我,我该为你做什么?

14.30.5

मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः ।
वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥ १४.३०.५ ॥

王中猛虎啊,依赖于我的众生正被你射出的巨箭所杀;哦,威力无边者,请赐予他们安全。

14.30.6

मत्समो यदि संग्रामे शरासनधरः क्वचित् ।
विद्यते तं समाचक्ष्व यः समो मे महामृधे ॥ १४.३०.६ ॥

若在战场上某处有与我相等的弓箭手,请指给我看——在这场大战中与我平等的人。

14.30.7

महर्षिर्जमदग्निस्ते यदि राजन्पुरा श्रुतः ।
तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति ॥ १४.३०.७ ॥

国王啊,若你从前听闻过大仙人嘉玛达格尼,那么他的儿子足以如理地款待你。

14.30.8

ततः स राजा प्रययौ क्रोधेन महता वृतः ।
स तमाश्रममागम्य राममेवान्वपद्यत ॥ १४.३०.८ ॥

于是那国王怀着极大的愤怒出发了。他来到那个修行处,便直接去见罗摩。

14.30.9

स रामप्रतिकूलानि चकार सह बन्धुभिः ।
आयासं जनयामास रामस्य च महात्मनः ॥ १४.३०.९ ॥

他与亲族一起做出与罗摩为敌的行为,给伟大的罗摩带来了烦恼。

14.30.10

ततस्तेजः प्रजज्वाल रामस्यामिततेजसः ।
प्रदहन्रिपुसैन्यानि तदा कमललोचने ॥ १४.३०.१० ॥

那时,无限光辉的罗摩之威猛然燃起,焚烧敌军,啊,莲花眼的人。

14.30.11

ततः परशुमादाय स तं बाहुसहस्रिणम् ।
चिन्छेद सहसा रामो बहुशाखमिव द्रुमम् ॥ १४.३०.११ ॥

于是罗摩举起斧头,突然砍倒了那千臂之人,如同砍伐一棵多枝的大树。

14.30.12

तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः ।
असीनादाय शक्तीर्श्च भार्गवं पर्यधावयन् ॥ १४.३०.१२ ॥

众亲族见他被杀倒地,便全都聚集起来;他们持剑执矛,向婆利古之后(罗摩)冲杀过去。

14.30.13

रामोऽपि धनुरादाय रथमारुह्य सत्वरः ।
विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् ॥ १४.३०.१३ ॥

罗摩也拿起弓,迅速登上战车,倾泻箭雨,击溃了王者的军队。

14.30.14

ततस्तु क्षत्रियाः केचिज्जमदग्निं निहत्य च ।
विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ॥ १४.३०.१४ ॥

于是一些刹帝利被耶摩达格尼之子杀死,他们如被狮子追逐的鹿一般,躲入山中的险隘。

14.30.15

तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् ।
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥ १४.३०.१५ ॥

他们因恐惧而不再履行自己应尽的职责,又因不见婆罗门,百姓便堕入了贱民(首陀罗)的境地。

14.30.16

एवं ते द्रविडाऽभीराः पुण्ड्राश्च शबरैः सह ।
वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः ॥ १४.३०.१६ ॥

这样,德罗维达人、阿భీ罗人、崩陀罗人与舍伐罗人,因背离刹帝利之法,堕入了贱民的境地。

14.30.17

ततश्च हतवीरासु क्षत्रियासु पुनः पुनः ।
द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत ॥ १४.३०.१७ ॥

此后,英勇的刹帝利一再被杀,耶摩达格尼之子又将婆罗门重新繁衍出的刹帝利族系砍断。

14.30.18

एकविंशतिमे याते रामं वागशरीरिणी ।
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥ १४.३०.१८ ॥

二十一次过去之后,一个神圣、甜美、闻名于三界的无形之声对罗摩说话。

14.30.19

रामराम निवर्तस्व कं गुणं तात पश्यसि ।
क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः ॥ १४.३०.१९ ॥

罗摩,罗摩,回头吧!亲爱的孩子,你在一次次夺取这些假刹帝利的性命中看到了什么功德?

14.30.20

तथैव तं महात्मानमृचीकप्रमुखास्तदा ।
पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् ॥ १४.३०.२० ॥

同样,那时以如質迦为首的祖先们对那位大德说:噢,大福者,回头吧。

14.30.21

पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् ।
नार्हन्तीह भवन्तो मां निवारयितुमित्युत ॥ १४.३०.२१ ॥

然而罗摩不能忍受父亲被杀,对那些仙人说:在此你们没有资格阻止我。

14.30.22

नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतांवर ।
नेह युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् ॥ १४.३०.२२ ॥

胜利者中的最上者啊,你不该杀这些假刹帝利。作为婆罗门,你在此杀害国王是不合适的。