Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.31

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.31.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम ॥ १४.३१.१ ॥

此处也有人讲述这古老的故事;婆罗门中最优秀的人啊,你听后应当照此行事。

14.31.2

अलर्को नाम राजर्षिरभवत्सुमहातपाः ।
धर्मज्ञः सत्यवादी च महात्मा सुदृढव्रतः ॥ १४.३१.२ ॥

曾有一位名叫阿拉尔卡的王仙,他苦行极深,通晓法,说话诚实,心胸宽广,誓言坚定。

14.31.3

स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् ।
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ॥ १४.३१.३ ॥

他以弓征服了这被大海环绕的大地,完成了极其艰难的功业,然后将心专注于微妙之处。

14.31.4

स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह ।
उत्सृय सुमहद्राज्यं सूक्ष्मं प्रति महामते ॥ १४.३१.४ ॥

他站在一棵树的根旁时,心中生起一念;啊,大智者,他舍弃了广大的王国,将心转向微妙之处。

14.31.5

मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः ।
अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ॥ १४.३१.५ ॥

我心中生出了力量;战胜了心,胜利便是确定的。我被敌人包围,便向别处射出箭矢。

14.31.6

यदिदं चापलात्कर्म सर्वान्मर्त्यांश्चिकीर्षति ।
मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् ॥ १४.३१.६ ॥

这颗心出于轻浮,想要影响所有凡人;我要向这颗心射出尖锐无比的箭矢。

14.31.7

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ १४.३१.७ ॥

阿拉尔迦啊,这些箭绝不可能穿透我。它们只会刺中你自己的要害,要害被刺中,你就会死去。

14.31.8

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तत्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ १४.३१.८ ॥

你去考虑其他能杀死我的箭吧。他听了这话,沉思之后,便说出了这番话。

14.31.9

आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति ।
तस्माद्ध्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ १४.३१.९ ॥

闻过许多香气之后,它便贪恋那些香气。因此我要向鼻子射出锐利的箭。

14.31.10

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ १४.३१.१० ॥

阿拉尔迦啊,这些箭绝不可能穿透我。它们只会刺中你自己的要害,要害被刺中,你就会死去。

14.31.11

अन्यान्याणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ १४.३१.११ ॥

你去考虑其他能杀死我的箭吧。他听了这话,沉思之后,便说出了这番话。

14.31.12

इयं स्वादून्रसान्भुक्त्वा तानेव प्रति गृध्यति ।
तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ १४.३१.१२ ॥

品尝过甘美的滋味之后,它便贪恋那些滋味。因此我要向舌头射出锐利的箭。

14.31.13

नेमे वाणास्तरिष्यन्ति मामलर्क कथञ्चन ।
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ॥ १४.३१.१३ ॥

阿拉尔迦啊,这些箭无论如何也无法穿透我;它们只会刺中你自己的要害,那时你便会丧命。

14.31.14

अन्यान्वाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ १४.३१.१४ ॥

那么,你就考虑其他能杀死我的箭吧。他听了这话,思索片刻,便说出了这番话。

14.31.15

स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति ।
तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः ॥ १४.३१.१५ ॥

皮肤触碰各种感触之后,便贪恋那些感触;因此我要用各种鹭羽之箭撕裂它的皮肤。

14.31.16

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ १४.३१.१६ ॥

阿拉尔迦啊,这些箭无论如何也无法穿透我;它们只会刺中你自己的要害,要害被刺穿,你便会死去。

14.31.17

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ १४.३१.१७ ॥

那么,你就考虑其他能杀死我的箭吧。他听了这话,思索片刻,便说出了这番话。

14.31.18

श्रुत्वा तु विविधाञ्शब्दांस्तानेव प्रतिगृध्यति ।
तस्माच्छ्रोत्रं प्रति शरान्प्रति मुञ्चाम्यहं शितान् ॥ १४.३१.१८ ॥

听了各种声音之后,便贪恋那些声音;因此我要向耳朵射出锋利的箭。

14.31.19

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन ।
तवैव मर्म भेत्स्यन्ति ततो हास्यति जीवितम् ॥ १४.३१.१९ ॥

阿拉尔迦啊,这些箭无论如何也无法穿越我;它们只会刺穿你自己的要害,那时你的生命必将离你而去。

14.31.20

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ १४.३१.२० ॥

你应当另选能够杀死我的其他箭。听到这话,他沉思之后便说出了这番话。

14.31.21

दृष्ट्वा रूपाणि बहुशस्तान्येव प्रतिगृध्यति ।
तस्माच्चक्षुर्हनिष्यामि निशितैः सायकैरहम् ॥ १४.३१.२१ ॥

看见了种种形色,他正是贪求这些;因此我要用锐利的箭射伤眼睛本身。

14.31.22

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ १४.३१.२२ ॥

阿拉尔迦啊,这些箭无论如何也无法穿越我;它们只会刺穿你自己的要害,要害被刺穿之后你就会死去。

14.31.23

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यति ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ १४.३१.२३ ॥

你应当另选能够杀死我的其他箭。听到这话,他沉思之后便说出了这番话。

14.31.24

इयं निष्ठा बहुविधा प्रज्ञया त्वद्यवस्यति ।
तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ १४.३१.२४ ॥

这种状态有多种多样,由你自己的智慧所决定;因此我要向你的智慧射出锐利的箭。

14.31.25

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि।
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ॥ १४.३१.२५ ॥

阿拉尔迦啊,这些箭无论如何也射不中我;它们只会射中你自己的要害,要害被射中,你就会死去。去找其他能杀死我的箭吧。

14.31.26

ततोऽलर्कस्तपो घोरं तत्रैवास्थाय दुष्करम् ।
नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु ॥ १४.३१.२६ ॥

于是阿拉尔迦便在那里进行了可怕而艰难的苦行;然而,除了这七支箭之外,他凭自己的力量再也找不到其他的箭。

14.31.27

सुसमाहितचेतास्तु स ततोऽचिन्तयत्प्रभुः ।
स विचिन्त्य चिरं कालमलर्को द्विजसत्तम।
नाध्यगच्छत्परं श्रेयो योगान्मतिमतांवरः ॥ १४.३१.२७ ॥

于是那位大能者,心神专注,开始思索。婆罗门中最优秀的人啊,智者中最杰出的阿拉尔迦长久思索之后,发现除了瑜伽之外,再没有更高的福祉。

14.31.28

स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः ।
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् ॥ १४.३१.२८ ॥

他使心念专一、稳定不移,安住于瑜伽之中,以强大的力量,迅速用一支箭降伏了诸根。

14.31.29

योगेनात्मानमाविश्य सिद्धिं परमिकां गतः ।
विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह ॥ १४.३१.२९ ॥

他借瑜伽进入自我,达到了至高的成就。那位惊讶的王仙也说出了这首偈颂。

14.31.30

अहो कष्टं यदस्माभिः सर्वं बाह्यमनुष्ठितम् ।
भोगतृष्णासमायुक्तैः पूर्वं राज्यमुपासितम्।
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥ १४.३१.३० ॥

唉,多么痛苦啊!我们被享乐的渴望所缚,先前只行了一切外在的仪轨,只侍奉王权。后来我才知道,没有比瑜伽更大的快乐。

14.31.31

इति त्वमनुजानीहि राम मा क्षत्रियान्वधीः ।
तषो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे ॥ १४.३१.३१ ॥

因此,罗摩啊,你应当接受:不要杀害刹帝利。修行严苛的苦行;那时你将得到福祉。

14.31.32

इत्युक्तः पितृभिः सोथ तपो घोरं समास्थितः ।
जामदग्न्यो महाभागे सिद्धिं च परमां गतः ॥ १४.३१.३२ ॥

先祖如此告诫之后,他行起严苛的苦行;大福德者啊,持斧罗摩(Jāmadagnya)获得了至上的成就。