摩诃婆罗多 · 章 14.39
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.39.1
अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम् ।
सर्वभूतहितं लोके सतां धर्ममनिन्दितम् ॥ १४.३९.१ ॥
现在我将宣说第三种最高的德性:善人无可指责的法,对世间一切众生都有利益。
14.39.2
आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च ।
अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता ॥ १४.३९.२ ॥
喜悦、欢愉、昂扬、明净、安乐、不吝、不躁、知足与信心——这些便是。
14.39.3
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।
अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः ॥ १४.३९.३ ॥
忍辱、坚定、不害、平等、真实、正直、不怒、不妒、清净、干练与勇武。
14.39.4
मुधाज्ञानं मुधावृत्तं मुधासेवा मुदाश्रमः ।
एवं यो युक्तधर्मः स्यात्सोमुत्रात्यन्तमश्नुते ॥ १४.३९.४ ॥
无所求的知识、行为、侍奉与修行之位皆是虚空;若如此具足正法之人,便在来世完全得到。
14.39.5
निर्ममो निरहङ्कारो निराशीः सर्वतः समः ।
अकामहत इत्येव सतां धर्मः सनातनः ॥ १४.३९.५ ॥
无我所、无我慢、无所求,处处平等,不为欲望所伤——此乃善人永恒之法。
14.39.6
विश्रंभो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता ।
आनृशंस्यमसंमोहो दया भूतेष्वपैशुनम् ॥ १४.३९.६ ॥
信任、知耻、忍耐、舍离、清净、不懈、仁慈、无迷惑、对众生的慈悲与不说人短。
14.39.7
हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तिता ।
शान्तिकर्मविशुद्धिश्च भावशुद्धिर्विमोचनम् ॥ १४.३९.७ ॥
喜悦、知足、惊异、谦逊、善行、以止息之业而得清净、心性清净与解脱。
14.39.8
उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः ।
निर्ममत्वमनाशीष्ट्वमपरिक्षतधर्मता ॥ १४.३९.८ ॥
超然、梵行、全面的舍离、无我所执、不求回报,以及不亏损地奉行法。
14.39.9
मुधादानं मुधायज्ञो मुधाधीतं मुधाव्रतम् ।
मुधाप्रतिग्रहश्चैव मधाध्रमो मुधातपः ॥ १४.३९.९ ॥
无求之布施、无求之祭祀、无求之诵习、无求之誓戒、无求之受施、无求之住位,以及无求之苦行。
14.39.10
एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्वसंश्रयाः ।
ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः ॥ १४.३९.१० ॥
于此世间如此行持、依于善性、安住于梵之源的那些智者婆罗门,乃是见善之人。
14.39.11
हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः ।
दिव्यं प्राप्य तु ते धीराः कुर्वते वै ततस्तनूः ॥ १४.३९.११ ॥
舍弃一切罪恶,无忧无悲,不老不死,那些坚毅者证得神性,然后化现身体。
14.39.12
ईशित्वं च वशित्वं च लघुत्वं चाणुता तथा ।
विकुर्वते महात्मानो देवास्त्रिदिवगा इव ॥ १४.३९.१२ ॥
自在、制御、轻妙与微细,这些大我得以显现,如同居于天界的诸天神。
14.39.13
ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः ।
विकुर्वन्तः प्रकृत्या वै दिवं प्राप्तास्ततस्ततः ॥ १४.३९.१३ ॥
这些上流的神被称为变化之神;他们依其本性而变化,升至天界,又从那里继续上升。
14.39.14
यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च ।
इत्येतत्सात्विकं वृत्तं कथितं वो द्विजर्षभाः।
एतद्विज्ञाय लभते विधिवद्यद्यदिच्छति ॥ १४.३९.१४ ॥
凡他们所愿,都会享有并分予他人。诸位二生族中的雄牛,这善性之行已告诉你们。知此者依法而得其所欲。
14.39.15
प्रकीर्तिताः सत्त्वगुणा विशेषतो ।
यथावदुक्तं गुणवृत्तमेव च।
नरस्तु यो वेद गुणानिमान्सदा ।
गुणान्स भुङ्क्ते न गुणैः स युज्यते ॥ १४.३९.१५ ॥
善性之德已特别宣说,诸德之行也如实说明。常知这些德性的人享受诸德,却不为诸德所缚。