Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 14.48

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

14.48.1

केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं वनम् ।
केचित्परममव्यक्तं केचित्परमनामयम्।
मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम् ॥ १४.४८.१ ॥

ある者は木をブラフマンより成ると見なし、ある者は森をブラフマンより成ると、ある者は至高の未顕現を、ある者は至高の無病を見なす。彼らはこれら一切が未顕現より生じ、不滅であると考える。

14.48.2

उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत् ।
आत्मानमुपसङ्म्य सोमृतत्वाय कल्पते ॥ १४.४८.२ ॥

臨終のとき、わずか一息の間でも平静であれば、彼は自己に至り、不死に適する。

14.48.3

निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि ।
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ॥ १४.४८.३ ॥

瞬きのわずかな間でも自己を自己のうちに制御すれば、自己の恩寵によって賢者の不滅の境地に至る。

14.48.4

प्राणायामैरथ प्राणान्संयम्य स पुनःपुनः ।
दशद्वादशभिर्वापि चतुर्विंशात्समन्ततः ॥ १४.४८.४ ॥

次に、調息の行によって気息を制御し、彼はそれを繰り返し、十回、十二回、あるいは二十四回ずつ、あらゆる方向から行うべきである。

14.48.5

एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति ।
अव्यक्तात्सत्वमुद्रिक्तममृतत्वाय कल्पते ॥ १४.४८.५ ॥

このように、以前に心が澄んだ者は望むものを何でも得る。未顕現より生じた高められたサットヴァは、不死に適する。

14.48.6

सत्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः ।
अनुमानाद्विजानीमः पुरुषं सत्वसंश्रयम्।
न शक्यमन्यथा गन्तुं पुरुषं द्विजसत्तमाः ॥ १४.४८.६ ॥

真理を知る者たちは、サットヴァより優れたものはないと称賛する。私たちは推論によって、サットヴァに依るプルシャを知る。二度生まれた者の中の最上の方々よ、プルシャは他の方法では到達できない。

14.48.7

क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।
ज्ञानं त्यागोथ संन्यासः सात्विकं वृत्तमिष्यते ॥ १४.४८.७ ॥

忍耐、堅固さ、非暴力、平等、真実と誠実、知識、捨離と遊行(出家)──これがサットヴァの行いとされる。

14.48.8

एतेनैवानुमानेन मन्यन्ते वै मनीषिणः ।
सत्वं च पुरुषश्चैव तत्र नास्ति विचारणा ॥ १४.४८.८ ॥

この推論によって賢者たちはサットヴァとプルシャを認める。この点に疑いはない。

14.48.9

आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः ।
क्षेत्रज्ञसत्वयोरैक्यमित्येतन्नोपपद्यते ॥ १४.४८.९ ॥

知においてよく確立した一部の学者は、場を知る者とサットヴァは一つだと言う。しかしそれは成り立たない。

14.48.10

पृथग्भूतस्तथा नित्यमित्येतदविचारितम् ।
पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः ॥ १४.४८.१० ॥

常に別個であるというのも、吟味されていない主張である。分離は実のところ生来のものと理解すべきである。

14.48.11

तथैवैकत्वनानात्वमिष्यते विदुषां नयः ।
मशकोदुम्बरे चैक्यं पृथक्त्वमपि दृश्यते ॥ १४.४८.११ ॥

同様に、賢者の教えは一性と多性の両方を認める。蚊と無花果の中には、一つであることも、別々であることも見られる。

14.48.12

मत्स्यो यथाऽन्यः स्यादप्सु सम्प्रयोगस्तथा तयोः ।
सम्बन्धस्तोयबिन्दूनां पर्णैः कोकनदस्य च ॥ १४.४८.१२ ॥

水の中の魚が水とは別であるように、両者の結合もそうである。水滴が葉や紅蓮と結びつくように。

14.48.13

इत्युक्तवन्तस्ते विप्रास्तदा लोकपितामहम् ।
पुनः संशयमापन्नाः पप्रच्छुर्मुनिसत्तमाः ॥ १४.४८.१३ ॥

そう言い終えると、それらのバラモンたち、最上の聖者たちは、再び疑いに陥り、世界の祖父に問うた。