Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.5.1

पथंवीर्यः समभवत्स राजा ददतांवरः ।
कथं च जातरूपेण समयुज्यत वै नृपः ॥ १४.५.१ ॥

那位成为大地之主的国王是最慷慨的施主。那位国王是如何与黄金相连的?

14.5.2

क्व च तत्सांप्रतं द्रव्यं भगवन्नवतिष्ठते ।
कथं च शक्यमस्माभिस्तदवाप्नुं तचपोधन ॥ १४.५.२ ॥

尊者啊,那笔财富如今在何处?苦行者啊,我们又如何能够得到它?

14.5.3

असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः ।
अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम् ॥ १४.५.३ ॥

阿修罗与诸天都是众生之主达刹的后裔。亲爱的孩子,他们子孙众多,彼此互相竞争。

14.5.4

तथैवाङ्गिरसः पुत्रौ पितृतुल्यौ बभूवतुः ।
बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः ॥ १४.५.४ ॥

同样,安吉罗的两个儿子与其父相等:光辉巨大的布里哈斯巴提,以及富于苦行的桑瓦尔塔。

14.5.5

तावति स्पर्धिनौ राजन्पृथगास्तां परस्परम् ।
बृहस्पतिः स संवर्तं बाधते स्म पुनःपुनः ॥ १४.५.५ ॥

大王啊,那二人因彼此极为争竞而分居两处。布里哈斯巴提屡次地逼迫桑瓦尔塔。

14.5.6

स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत ।
अर्थानुत्सृज्य दिग्वासा वने वासमरोचयत् ॥ १४.५.६ ॥

婆罗多的后裔啊,他不断被哥哥逼迫,于是舍弃财富,裸身以四方为衣,喜欢住在森林里。

14.5.7

वासवोऽप्यसुरान्सर्वान्विजित्य च निपात्य च ।
इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम् ॥ १४.५.७ ॥

婆婆(因陀罗)亦战胜并击杀所有阿修罗,得到因陀罗之位,随后选定了一位国师(普罗希塔)。

14.5.8

पुत्रमङ्गिरसो ज्येष्ठं विप्रज्येष्ठं बृहस्पतिम् ।
याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करंधमः ॥ १४.५.८ ॥

他选定了安吉罗斯之长子、婆罗门中最尊贵的毗诃娑帕蒂。从前,主持祭祀者出自安吉罗斯一族,国王是卡兰达玛。

14.5.9

वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च ।
शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः। ॥ १४.५.९ ॥

他在世间以勇武、德行和力量无与伦比,光彩如百祭者(因陀罗),心地正法,誓言坚定。

14.5.10

वाहनं यस्य योधाश्च मित्राणि विविधानि च ।
शयनानि च मुख्यानि महार्हाणि च सर्वशः ॥ १४.५.१० ॥

他拥有车乘、战士、各式朋友,以及各方面都上好、极为贵重的卧具。

14.5.11

ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः ।
स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः ॥ १४.५.११ ॥

大王啊,他凭借禅定和口中的言语,变得全然强大;这位人主以其德行,使所有国王都归顺于他。

14.5.12

संजीव्य कालमिष्टं च सशरीरो दिवं गतः ।
बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित् ॥ १४.५.१२ ॥

他延续生命至所愿之时,便带着身体升往天界;他的儿子则如曲哲(Yayāti)一般精通法。

14.5.13

अविक्षिन्नाम शत्रुंजित्स वशे कृतवान्महीम् ।
विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः ॥ १४.५.१३ ॥

名为阿维克希特的征服敌人者,将大地置于自己统治之下。他在勇武与德行上都像他的父亲一样。

14.5.14

तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान् ।
पुत्रस्तमनुरक्ताऽभूत्पृथिवी सागराम्बरा ॥ १४.५.१४ ॥

他的儿子名为摩录多,威力强大,与因陀罗相等。以海洋为衣的大地对他深感依恋。

14.5.15

स्पर्धते स स्म सततं देवराजेन नित्यदा ।
वासवोऽपि मरुत्तेनि स्पर्धते पाण्डुनन्दन ॥ १४.५.१५ ॥

他常常与诸神之王相争;而因陀罗也与摩录多相争,啊,般度之子。

14.5.16

शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः ।
यतमानोपि यं शक्रो न विशेषयति स्म ह ॥ १४.५.१६ ॥

摩录多,这位大地之主,清净而有德,即使因陀罗(帝释天)努力,也无法超越他。

14.5.17

सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम् ।
उवाचेदं वचो देवैः सहितो हरिवाहनः ॥ १४.५.१७ ॥

他无法超过摩录多,于是呼唤brihaspati,与诸神在一起的哈里婆诃那(因陀罗)说出了这些话。

14.5.18

बृहस्पते मरुत्तस्य मा स्म कार्षीः कथञ्चन ।
दैवं कर्माथ पित्र्यं वा कर्तासि मम चेत्प्रियम् ॥ १४.५.१८ ॥

啊,brihaspati,你若想使我欢喜,切勿为摩录多举行任何神祭或祖先祭。

14.5.19

अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते ।
इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः ॥ १४.५.१९ ॥

婆诃婆提啊,在三界之中、在诸天之中,唯有我得到了因陀罗的地位;而末卢多只是大地之王。

14.5.20

कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम् ।
याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया ॥ १४.५.२० ॥

婆罗门啊,你既已为不死的诸天之主主持祭祀,怎能毫无疑虑地为会死的末卢多主持祭祀呢?

14.5.21

मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम् ।
परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम् ॥ १४.५.२१ ॥

愿你吉祥!选我,或选大地之王末卢多;舍弃末卢多,随你心意来侍奉我吧。

14.5.22

एवमुक्तः स करकव्य देवराज्ञा बृहस्पतिः ।
मुहूर्तमिव सञ्चिन्त्य देवराजानमब्रवीत् ॥ १४.५.२२ ॥

迦罗迦婆啊,天王如此说后,婆诃波提仿佛沉思片刻,便对天王说道。

14.5.23

त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः ।
नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च ॥ १४.५.२३ ॥

你是众生之主,诸世界都安立于你之中。你杀了那摩吒与毗首婆罗,也杀了波罗。

14.5.24

त्वमाजहर्थ् देवानामेको वीरश्रियं पराम् ।
त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन ॥ १४.५.२४ ॥

唯有你获得了诸天最上的英雄之荣光;杀波罗者啊,你永远承载着大地与天空。

14.5.25

परोहित्यं कथं कृत्वा तव देवगणेश्वर ।
याजयेयमहं मर्त्यं मरुत्तं पाकशासन ॥ १४.५.२५ ॥

诸天众之主啊!我既为你的祭司,怎能为凡人末卢多主持祭祀?啊,帕卡灭敌者!

14.5.26

समाश्वसिहि देवेन्द्र नाहं मर्त्यस्य कर्हिचित् ।
ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम ॥ १४.५.२६ ॥

天神之主啊,请放心。我绝不会在凡人的祭祀中执起斯鲁瓦勺。听我这句话。

14.5.27

हिरण्यरेता नोष्णः स्यात्परिवर्तेत मेदिनी ।
भासं तु न रविः कुर्यान्न तु सत्यं चलेन्मयि ॥ १४.५.२७ ॥

即使太阳不再炽热,大地翻转,太阳不再发光;但我心中的真实永不动摇。

14.5.28

बृहस्पतिवचःक श्रुत्वा शक्रो विगतमत्सरः ।
प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा ॥ १४.५.२८ ॥

帝释天听了木星仙人的话,消除了嫉妒,称赞了他,然后便回到自己的宫殿。