摩诃婆罗多 · 章 14.52
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.52.1
ततोऽभ्यनोदयत्कृष्णो युज्यतामिति दारुकम् ।
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः ॥ १४.५२.१ ॥
于是克里希那催促达卢迦说:“套上车吧。”达卢迦几乎在片刻之间便禀告:“已经套好了。”
14.52.2
तथैव चानुयात्राणि चोदयामास पाण्डवः ।
सन्नह्यध्वं प्रयास्यामो नगर गजसाह्वयम् ॥ १४.५२.२ ॥
般度之子同样催促随从说:“准备好,我们将前往名为象城的都城。”
14.52.3
इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशाम्पते ।
आचख्युः सज्जमित्येवं पार्थायामिततेजसे ॥ १४.५२.३ ॥
众士兵受命后已准备就绪,对无量光辉的般度之子禀告:“已经准备好了。”(大王啊。)
14.52.4
ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ ।
विकुर्वाणौ कताश्चित्राः प्रीयमाणौ विशाम्पते ॥ १४.५२.४ ॥
于是克里希那与般度之子登上战车出发,大王啊,二人欢喜,并展示种种奇妙的技艺。
14.52.5
रथस्थं तु महातेजा वासुदेवं धनञ्जयः ।
पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम ॥ १४.५२.५ ॥
坐在车上的婆苏提婆,大光明的财富征服者又说了这些话:“婆罗多族中最优秀的人啊!”
14.52.6
त्वत्प्रसादाज्ज्यः प्राप्तो राज्ञा वृष्णिकुलोद्वह ।
निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम् ॥ १४.५२.६ ॥
“凭你的恩惠,啊,承担婆利希尼族的人!国王获得了胜利,敌人已被杀死,无刺的王国已经获得。”
14.52.7
नाथवन्तश्च भवता पाण्डवा मधुसूदन ।
भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम्।
भक्तांस्त्वमाश्रितानस्मान्पालयामुत्र चेह च। ॥ १४.५२.७ ॥
哦,摩图苏登那,因为你,般度之子有了保护者。以你为筏,我们渡过了俱卢之海。请你在此世和彼世守护我们这些虔诚并投靠你的人。
14.52.8
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसत्तम ।
तथा त्वामभिजानामि तथा चाहं भवान्मतः ॥ १४.५२.८ ॥
哦,毗首羯摩,愿向你致敬。哦,宇宙之魂,众生中最尊贵者。我如此认识你,你也如此看待我。
14.52.9
त्वत्तेजःसम्भवो नित्यं हुताशो मधुसूदन ।
रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो ॥ १४.५२.९ ॥
哦,摩图苏登那,火永远从你的光辉中生出。你的欢喜是游戏之性。哦,遍在之主,你的幻力即是天与地。
14.52.10
त्वयि सर्वमिदं विश्वं यदिदं स्थाणु जङ्गमम् ।
त्वं हि सर्वं विकुरुषे भूतग्रामं चतुर्विधम् ॥ १४.५२.१० ॥
这整个宇宙,无论静止或运动,都在你之中。你确实造作四类一切众生。
14.52.11
पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् ।
हसिंतं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियाणि ते ॥ १४.५२.११ ॥
大地与虚空,以及一切静止与运动之物,都是你的笑;你无垢的月光,四季,以及你的诸根。
14.52.12
प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः ।
प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते ॥ १४.५२.१२ ॥
永恒运行的风即是命息;愤怒与永恒的死亡也是你。哦,大智者,在恩典中,莲花女(吉祥天)与吉祥永远在你之中。
14.52.13
रतिस्तुष्टिर्धृतिः क्षान्तिर्मतिः कान्तिश्चराचरम् ।
त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनध ॥ १४.५२.१३ ॥
喜悦、满足、坚定、忍耐、智慧与光辉——动与不动之物唯你而已。在劫末,唯你被称为毁灭,无罪者啊。
14.52.14
सुदीर्घेणापि कालेन न ते शक्या गुणा मया ।
आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण ॥ १४.५२.१४ ॥
即使经过极长的时间,我也无法说尽你的德性,也说不尽你的至上自我。向你致敬,莲花眼者。
14.52.15
विदितो मे सुदुर्धर्ष नारदाद्देवलात्तथा ।
कृष्णद्वैपायनाच्चेव तथा कुरुपितामहात् ॥ १४.५२.१५ ॥
此事由那罗陀、提婆罗、黑岛仙(克里希那·二伏衍那)以及俱卢族的祖父告知于我,难以战胜者啊。
14.52.16
त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः ।
यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयाऽनघ ॥ १४.५२.१६ ॥
万物皆系于你;唯你一人是人主。无罪者啊,你以恩慈所说的这番话也是如此。
14.52.17
एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन ।
इदं चाद्भुतमत्यन्तं कृतमस्मत्प्रियेप्सया ॥ १४.५२.१७ ॥
这一切我都将妥善完成,嗟,阇那陀那。此极为奇妙之事,是出于愿悦我们所爱之人而做成的。
14.52.18
यत्पापो निहतः सङ्ख्ये कौरव्यो धृतराष्ट्रजः ।
त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे ॥ १४.५२.१८ ॥
那个在战斗中被杀的罪人、持国之子俱卢族人——那支军队被你焚毁,而我在战斗中征服了它。
14.52.19
भवता तत्कृतं कर्म येनावाप्तो जयो मया ।
दुर्योधनस्य सङ्ग्रामे तव बुद्धिपराक्रमैः ॥ १४.५२.१९ ॥
凭借你所做的那件事,以及你的智慧与勇力,我在战斗中战胜了难敌。
14.52.20
कर्णस्य च वधोपायो यथावत्सम्प्रदर्शितः ।
सैन्धवस्य च पापस्य भूरिश्रवस एव च ॥ १४.५२.२० ॥
杀死迦尔纳的方法也被如实指明,还有恶人信度以及婆利舍罗婆斯的杀法。
14.52.21
तस्मात्त्वमेव सञ्चिन्त्य हितं कुरु यथा तथा ।
अहं च प्रीयमाणेन त्वया देवकिनन्दन।
यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा ॥ १४.५२.२१ ॥
因此,你自己好好思量,做有利之事,无论以何种方式。德瓦基之子啊,你欢喜时所说的,我都会去做,我对此并无犹豫。
14.52.22
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् ।
चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ ॥ १४.५२.२२ ॥
我将前往具有正法之心的国王坚战那里,催促他为你的出行做准备,知法者啊,无罪者啊。
14.52.23
आहृतं हि ममैतत्ते द्वारकागमनं प्रभो ।
अचिरादेव द्रष्टा त्वं मातुलं मे जनार्दन।
बलदेवं च दुर्धर्षं तथाऽन्यान्वृष्णिपुङ्गवान् ॥ १४.५२.२३ ॥
主啊,我为你带来了前往德瓦拉卡的这一提议。杰纳尔達那啊,你很快就会见到我的舅父,难以战胜的大力罗摩,以及其他的毗湿尼勇士之首。
14.52.24
एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वयम् ।
तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम् ॥ १४.५२.२४ ॥
两人这样交谈着,抵达了名为婆罗那萨瓦亚的城市,二人一同进入了那座充满欢欣人群的城市。
14.52.25
तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् ।
ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् ॥ १४.५२.२५ ॥
二人来到犹如帝释天宫殿的持国王宫,大王啊,他们见到了人主持国。
14.52.26
विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम् ।
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ ॥ १४.५२.२६ ॥
他们见到了大智的维杜罗、国王坚战、难以抵挡的怖军,以及摩德利的两位般度之子。
14.52.27
धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम् ।
गान्धारीं च महाप्रज्ञां पृथा कृष्णां च भामिनीम् ॥ १४.५२.२७ ॥
他们见到了端坐的持国王、不败的ユユツ、大慧的甘陀利、普利塔,以及光彩照人的克里希那。
14.52.28
सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा ।
ददृशाते स्त्रियः सर्वा गान्धारीपरिचारिकाः ॥ १४.५२.२८ ॥
他们见到了以苏跋陀罗为首的婆罗多族所有女子,以及甘陀利所有的侍女。
14.52.29
ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ ।
निवेद्य नामधेये स्वे तस्य पादावगृह्णताम् ॥ १४.५२.२९ ॥
随后,这两位降伏敌人者走近国王持国,报上自己的名字,并抚住他的双足。
14.52.30
गान्धार्याश्च पृथायाश्च धर्मराजस्य चैव हि ।
भीमस्य च महात्मानौ तथा पादावगृह्णताम् ॥ १४.५२.३० ॥
这两位大德者也同样抚住甘陀利、普利塔、法王和怖军的双足。
14.52.31
क्षत्तारं चापि सङ्गृह्य पृष्ट्वा कुशलमव्ययम् ।
परिष्वज्य महात्मानं वेश्यापुत्रं महारथम्।
तैः सार्धं नृपतिं वृद्धं ततस्तौ पर्युपासताम् ॥ १४.५२.३१ ॥
随后他们也拥抱了刹多(Kṣattṛ),询问其无损的安好,并拥抱了这位高尚的、侍女之子、大车士。与他们一同,二人侍奉年迈的国王。
14.52.32
ततो निशि महाराजो धृतराष्ट्रः कुरूद्वहान् ।
जनार्दनं च मेधावी व्यसर्जयत वै गृहान् ॥ १४.५२.३२ ॥
随后夜里,大王持国(Dhṛtarāṣṭra)遣散了俱卢族的诸位上首以及智慧的生主(Janārdana)各自回家。
14.52.33
तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् ।
धनंजयगृहानेव ययौ कृष्णस्तु वीर्यवान् ॥ १४.५२.३३ ॥
得到国王允许后,他们各自回到自己的住处,而英勇的黑天则去了财胜(Dhanaṃjaya)的家。
14.52.34
तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः ।
कृष्णः सुष्वाप मेधावी धनंजयसहायवान् ॥ १४.५२.३४ ॥
在那里按礼仪受到尊敬,一切所欲皆得供应,智慧的黑天以财胜为伴而入睡。
14.52.35
प्रभातायां तु शर्वर्यां कृत्वा पौर्वाह्णिकीं क्रियाम् ।
धर्मराजस्य भनं जग्मतुः परमार्चितौ।
यत्रास्ते स सहामात्यो धर्मराजो महाबलः ॥ १४.५२.३५ ॥
天亮之后,二人完成了午前的仪式,备受敬重,前往法王(Dharma)的居所,那里有与大臣同在的大力法王(Dharmarāja)。
14.52.36
तौ प्रविश्य महात्मानौ तद्गृहं परमार्चितम् ।
धर्मराजं ददृशतुर्देवराजमिवाश्विनौ ॥ १४.५२.३६ ॥
二位高尚者进入那座备受敬重的居所,看见了法王,正如双马神(Aśvin)看见天王因陀罗。
14.52.37
समासाद्य तु राजानं वार्ष्णेयकुरुपुङ्गवौ ।
निषीदतुरनुज्ञातौ प्रीयमाणेन तेन तौ ॥ १४.५२.३७ ॥
二人走近国王,即vṛṣṇi英雄与库鲁族之牛,在他的允许下坐下,因为他很欢喜。
14.52.38
ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ ।
प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः ॥ १४.५२.३८ ॥
于是那位聪明的国王,看到二人想要说话,便以最善言者、最优秀之王的身份说出了这些话。
14.52.39
विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ ।
ब्रूतं कर्तास्मि सर्वं वां नचिरान्मा विचार्यताम् ॥ १४.५२.३९ ॥
我认为你们二人想要说话,啊,承担雅度与库鲁之重任的英雄们。请说吧,我会为你们做一切;不要犹豫。
14.52.40
इत्युक्तः फल्गुनस्तत्र धर्मराजानमब्रवीत् ।
विनीतवदुपागम्य वाक्यं वाक्यविशारदः ॥ १४.५२.४० ॥
被如此称呼后,Phalguna便谦恭地走到法王(Dharmarāja)面前,善于言辞,说出了这些话。
14.52.41
अयं चिरोषितो राजन्वासुदेवः प्रतापवान् ।
भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति ॥ १४.५२.४१ ॥
啊,国王,这位久居此处的威猛的Vāsudeva,想要在征得您的允许后去见他的父亲。
14.52.42
स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे ।
आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि ॥ १४.५२.४२ ॥
如果您认为合适,就让他在您的允许下前往阿难陀城;啊,英雄,您应当准许他离去。
14.52.43
पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मदुसूदन ।
पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभो ॥ १४.५२.४३ ॥
莲花眼的摩度苏陀那啊,愿你吉祥。主啊,今日你且前往凡陀婆提城,去见舒罗之子。
14.52.44
रोचते मे महाबाहो गमनं तव केशव ।
मातुलश्चिरदृष्टो मे त्वया देवी च देवकी ॥ १४.५२.४४ ॥
大臂的吉舍婆啊,你的离去令我欣然。你已久未见我的舅父和德维·提婆基夫人了。
14.52.45
समेत्यि मातुलं गत्वा बलदेवं च मानद ।
पूजयेथा महाप्राज्ञ मद्वाक्येन यथाऽर्हतः ॥ १४.५२.४५ ॥
施予尊荣者啊,你会见我的舅父,又去见巴拉罗摩,依我之言,给予他们应有的敬重,大智者啊。
14.52.46
स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम् ।
फाल्गुनं सहदेवं च नकुलं चैव मानद ॥ १४.५२.४६ ॥
施予尊荣者啊,请你常常记念我,也记念力量最强的毗摩、阿周那、萨哈德瓦和那古罗。
14.52.47
आनर्तानवलोक्य त्वं पितरं च महाभुजः ।
वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ ॥ १४.५२.४७ ॥
大臂者啊,待你见过阿那尔塔人、你的父亲以及婆里希尼人之后,无垢者啊,请再来参加我的马祭。
14.52.48
स गच्छ रत्नान्यादाय विविधानि वसूनि च ।
यच्चप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत ॥ १४.५२.४८ ॥
你去吧,带上各种宝物和财富;凡是你所喜爱的其他东西,也请收下,萨特瓦塔啊。
14.52.49
इयं च वसुधा कृत्स्ना प्रसादात्तव केशव ।
अस्मानुपागता वीर निहताश्चापि शत्रवः ॥ १४.५२.४९ ॥
啰Keśava,凭你的恩典,这整片大地已归于我们,英雄啊,敌人也已被杀死。
14.52.50
स्वर्गापवर्गविषयं त्वद्भक्तानां न दुर्लभम् ।
संसारगहने चेद्धपापाग्निप्रशमाम्बुद ॥ १४.५२.५० ॥
对你的信徒而言,天界与解脱并非难得;你是在轮回的密林中熄灭罪火的云啊。
14.52.51
एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे ।
वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ॥ १४.५२.५१ ॥
当俱卢族的法王坚战如此说时,人中最优秀的瓦苏提婆说出了这番话。
14.52.52
तवैव रत्नानि धनं च केवलं ।
धरा तु कृत्स्ना तु महाभुजाद्य वै।
यदस्ति चान्यद्द्रविणं गृहे मम ।
त्वमेव तस्येश्वर नित्यमीश्वरः ॥ १४.५२.५२ ॥
这些珠宝与财富本就只属于你,这整片大地也属于你,大臂者啊;我家中其他的财富也属于你;主啊,你永远是它的主人。
14.52.53
तथेत्यथोक्तः प्रतिपूजितस्तदा ।
गदाग्रजो धर्मसुतेन वीर्यवान्।
पितृष्वसारं त्ववदद्यथाविधि ।
सम्पूजितश्चाप्यगमत्प्रदक्षिणम् ॥ १४.५२.५३ ॥
(克里希那)如此应答,并受到法子的敬重,于是这位强大的伽陀之兄依礼对姑母说了话;受到充分敬重后,他绕行而去。
14.52.54
तया स सम्यक् प्रतिनन्दितस्तत-
स्तथैव सर्वैर्विदुरादिभिस्तथा।
विनिर्ययौ नागपुराद्गदाग्रजो ।
रथेन दिव्येन चतुर्भुजः स्वयम् ॥ १४.५२.५४ ॥
他受到她的热情问候,又受到毗杜罗等所有人同样的问候;随后,伽陀之兄、四臂的他亲自乘着天界的车,从那伽普罗城启程而去。
14.52.55
रथे सुभद्रामधिरोप्य भामिनीं ।
युधिष्ठिरस्यानुमते जनार्दनः।
पितृष्वसुश्चापि तथा महाभुजो ।
विनिर्ययौ पौरजनाभिसंवृतः ॥ १४.५२.५५ ॥
在坚战的许可下,黑天将光彩照人的妙贤扶上战车,也扶上了他的姑母;这位大臂者在城中百姓的簇拥下出发了。
14.52.56
तमन्वयाद्वानरवर्यकेतनः ।
ससात्यकिर्माद्रवतीसुतावपि।
अगाधबुद्धिर्विदुरश्च माधवं ।
स्वयं च भीमो गजराजविक्रमः ॥ १४.५२.५६ ॥
旗帜上有最好猴子的那位(阿周那)与萨提亚奇一同跟随他;摩德罗之两子和智慧深不可测的维杜罗跟随摩陀婆;如象王般勇猛的怖军也亲自跟随。
14.52.57
निवर्तयित्वा कुरुराष्ट्रवर्धनां-
स्ततः स सर्वान्विदुरं च वीर्यवान्।
जनार्दनो दारुकमाह सत्वरः ।
प्रचोदयाश्वानिति सात्यकिं तथा ॥ १४.५२.५७ ॥
送回了壮大俱卢国的众人以及维杜罗和所有人之后,有力的生主(黑天)迅速对达如迦说:“驱策马匹。”对萨提亚奇也同样说了。
14.52.58
ततो ययौ शत्रुगणप्रमर्दनः ।
शिनिप्रवीरानुगतो जनार्दनः।
यथा निहत्यारिगणं शतकतु-
र्दिवं तथाऽऽनर्तपुरीं प्रतापवान् ॥ १४.५२.५८ ॥
于是摧毁敌军的生主(黑天)在希尼英雄的随从下出发了;正如百祭之因陀罗杀尽敌军后升往天界,这位威武者也前往阿那尔多城。