Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.53

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.53.1

तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः ।
परिष्वज्य न्यवर्तन्त सानुयात्राः परंतपाः ॥ १४.५३.१ ॥

当鞭策敌人的婆罗多族雄牛们拥抱那位向德瓦拉卡出发的婆利什尼之子后,便率随从返回了。

14.53.2

पुनःपुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः ।
आचक्षुर्विषयाच्चैनं स ददर्श पुनःपुनः ॥ १४.५३.२ ॥

法尔古那一次又一次地拥抱婆利什尼之子,直至他消失在视线之外,仍一次又一次地望着他。

14.53.3

कृच्छ्रेणैव तु तां पार्तो गोविन्दे विनिवेशिताम् ।
संजहार ततो दृष्टिं कृष्णश्चाप्यपराजितः ॥ १४.५३.३ ॥

普利塔之子帕尔塔费力地收回了凝望戈文达的目光;随后,那位不败的克里希那也收回了他的目光。

14.53.4

तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः ।
बहून्यद्भुतरूपाणि तानि मे गदतः शृणु ॥ १४.५३.४ ॥

请听我讲述那位高尚者出发时出现的许多奇妙征兆。

14.53.5

वायुर्वेगेन महता रथस्य पुरतो ववौ ।
कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम् ॥ १४.५३.५ ॥

强劲的风在战车前吹拂,使道路不再有碎石、尘土和荆棘。

14.53.6

ववर्ष वासवश्चैव तोयं शुचि सुगन्धि च ।
दिव्यानि चैव पुष्पाणि पुरतः शाङ्गधन्वनः ॥ १४.५३.६ ॥

因陀罗也降下了清净芬芳的甘露,神圣的花朵也在持沙尔嘎弓者的面前纷纷飘落。

14.53.7

स प्रयातो महाबाहुः समेषु मरुधन्वसु ।
ददर्शाथ मुनिश्रेष्ठमुदङ्कममितौजसम् ॥ १४.५३.७ ॥

他穿越平坦的沙漠原野,看见了无量威力的仙人之首乌当迦。

14.53.8

महर्षिं सिद्धतपसं सर्वलोकान्तविश्रुतम् ।
स तं सम्पूज्य तेजस्वी मुनिं पृथुललोचनः।
पूजितस्तेन च तदा पर्यपृच्छदनामयम् ॥ १४.५३.८ ॥

这位光辉的大眼睛者礼敬了这位苦行成就、名闻遍及一切世界尽头的大仙。受到他的礼敬之后,他便问候其安康。

14.53.9

स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम् ।
उदङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम् ॥ १४.५३.९ ॥

他被问候之后,便礼敬摩杜苏陀那,婆罗门之首乌当迦于是问摩陀婆。

14.53.10

कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत् ।
कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि ॥ १४.५३.१० ॥

啊,室利,你是否前往库鲁与般度的居所,建立了坚固不移的兄弟之情?你应当向我说明。

14.53.11

अपि सन्धाय तान्वीरानुपावृत्तोसि केशव ।
सम्बन्दिनःक स्वदयितान्सततं वृष्णिपुङ्गव ॥ १४.५३.११ ॥

啊,俱舍婆,你与那些英雄讲和后已经回来了吗?啊,婆利什尼之雄牛,你那些常伴你身边的亲爱亲属都是谁?

14.53.12

कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः ।
लोकेषु विहरिष्यन्ति त्वया सह परंतप ॥ १४.५३.१२ ॥

啊,降伏敌人者,般度的五子与持国的诸子,是否将与你一同在诸界中游乐?

14.53.13

स्वराष्ट्रे ते च राजानः कच्चित्प्राप्स्यन्ति वै सुखम् ।
कौरवेषु प्रशान्तेषु त्वया नाथेन केशव ॥ १४.५३.१३ ॥

在各自的国土中,那些国王也必将获得安乐,当考拉瓦族平息、你——啊,羯舍婆——作为他们的庇护者之时。

14.53.14

या मे सम्भावना तात त्वयि नित्यमवर्तत ।
अपि सा सफला तात कृता ते भरतान्प्रति ॥ १४.५३.१४ ॥

孩子,我一直寄托在你身上的那份希望,是否已经结出果实?孩子,你已在婆罗多族人身上实现了它。

14.53.15

कृतो यत्नो मया पूर्वं सौशाम्ये कौरवान्प्रति ।
नाशक्यन्त यदा साम्ये ते स्थापयितुमञ्जसा। ॥ १४.५३.१५ ॥

先前我曾努力使考拉瓦族与和平相处;但当他们无法直接被安置于和平之中时,

14.53.16

न दिष्टमप्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा ।
महर्षे विदितं भूयः सर्वमेतत्तवानघ ॥ १४.५३.१६ ॥

命运无法逾越,无论凭智慧还是凭力量。大仙啊,无垢者啊,这一切你又已经知晓了。

14.53.17

तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च ।
ततो यमक्षयं जग्मुः समासाद्येतरेतरम् ॥ १४.५३.१७ ॥

他们违背了我、毗湿摩和维杜罗的劝告;随后彼此交锋,前往阎摩的国度。

14.53.18

पञ्चैव पाण्डवाः शिष्टा इतमित्रा हतात्मजाः ।
धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः ॥ १४.५३.१८ ॥

只剩下五位般度子,朋友与儿子都已战死;而持国王的诸子全部连同他们的儿子和亲属一并被杀。

14.53.19

इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः ।
उदङ्क इत्युवाचैनं रोषादुत्फुल्ललोचनः ॥ १४.५३.१९ ॥

克里希那如此说完,乌坦卡满怀怒火,怒目圆睁地对他说道。

14.53.20

यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपुङ्गवाः ।
सम्बन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम् ॥ १४.५३.२० ॥

克里希那啊,你明明有能力,却没有保护那些作为你亲爱亲属的库鲁族俊杰,因此我无疑要诅咒你。

14.53.21

न च ते प्रसभं यस्मात्ते निगृह्य निवारिताः ।
तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन ॥ १४.५३.२१ ॥

你也没有强行阻止他们,因此,摩图苏达那啊,我怀着愤怒,要诅咒你。

14.53.22

त्वया शक्तेन हि सता मिथ्याचारेणि माधव ।
ते परीताः कुरुश्रेष्ठा नश्यन्तः स्म ह्युपेक्षिताः ॥ १४.५३.२२ ॥

摩陀婆啊,你明明有能力又善良,却行为虚伪;被包围的库鲁族俊杰纷纷灭亡,而你却置之不理。

14.53.23

शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन ।
गृहाणानुनयं चापि तपस्वी ह्यसि भार्गवम् ॥ १४.५३.२३ ॥

布利古之子啊,请详细听我所说;婆利古后裔啊,你既是苦行者,也请接受我的劝和。

14.53.24

श्रुत्वा च मे तदध्यात्मं मुञ्चेथाः शापमद्य वै ।
न च मां तपसाऽल्पेन शक्तोऽभिभवितुं पुमान् ॥ १४.५३.२४ ॥

听了我的精神教诲之后,现在就收回你的诅咒吧;凭借些许苦行,任何人都无法战胜我。

14.53.25

न च ते तपसो नाशमिच्छामि तपतां वर ।
तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः ॥ १४.५३.२५ ॥

苦行者中最优秀的人啊,我不愿看到你的苦行毁灭。你的苦行极其伟大而光辉,你的师长也都已欢喜。

14.53.26

कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम ।
दुःखार्जितस्य तपसस्तस्मान्नेच्चामि तेऽव्ययम् ॥ १४.५३.२६ ॥

再生者中最优秀的人啊,我知道你从童年起便持守梵行。我不愿要你以辛苦所得的苦行那不朽的果报。