摩诃婆罗多 · 章 14.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.58.1
स मित्रसहमासाद्य अभिज्ञानमयाचत ।
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा ॥ १४.५८.१ ॥
密特拉萨哈走近他,请求一个相认的信物。那时伊克瓦库族中最优秀的人便把这信物给了他。
14.58.2
न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः ।
एतन्मे तत्वमाज्ञाय प्रयच्छ मणिकुण्डले ॥ १४.५८.२ ॥
这条路并不安全,也没有别的路。知道我的处境后,请把宝珠耳环给我。
14.58.3
इत्युक्तस्तामुदङ्कस्तु भर्तुर्वाक्यमथाब्रवीत् ।
श्रुत्वा च सा तदा प्रादात्ततस्ते मणिकुण्डले ॥ १४.५८.३ ॥
被如此吩咐后,乌当迦便把丈夫的话转告给她。她听后,当即把宝珠耳环交了出来。
14.58.4
अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत् ।
किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव ॥ १४.५८.४ ॥
得到耳环后,他又对国王说:「大地之主啊,我想听听这秘密之言是什么。」
14.58.5
प्रजाविसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह ।
विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः ॥ १४.५८.५ ॥
自创世之初,刹帝利便尊敬婆罗门;然而,婆罗门也常给我们带来许多过失。
14.58.6
सोहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान् ।
गतिमन्यां न पश्यामि मदयन्तीसहायवान् ॥ १४.५८.६ ॥
我曾向再生者低头致敬,却因一位婆罗门而招致此过。摩陀演蒂是我的伴侣,但我看不到别的出路。
14.58.7
न चान्यामपि पश्यामि गतिं गतिमतांवर ।
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम ॥ १४.५८.७ ॥
众有归依者中最优秀的人啊,我看不到通往天门的另一条路,这里也看不到另一个去处,婆罗门中最优秀的人啊。
14.58.8
न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः ।
शक्यं हि लोके स्थातुं वै प्रेत्य वा सुखमेधितुम् ॥ १४.५८.८ ॥
国王若与再生者们结下仇怨,实在无法在此世立足,死后也无法增长幸福。
14.58.9
तदिष्टे ते मया दत्ते एते स्वे मणिकुण्डले ।
यः कृतस्तेऽद्य समयः सफलं तं कुरुष्य मे ॥ १४.५८.९ ॥
因此,尊者啊,我已把我自己的这对宝珠耳环交给你。请你使今日为我所定的约定得到成就。
14.58.10
राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम् ।
प्रश्नं च कञ्चित्प्रष्टुं त्वां व्यवसिष्ये परंतप ॥ १४.५८.१० ॥
国王啊,我会在此如此行事,并再次归于你的掌控。焚烧敌人者啊,我决意向你提出某个问题。
14.58.11
ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः ।
छेत्तास्मि संशयं तेऽद्य न मेऽत्राश्ति विचारणा ॥ १४.५८.११ ॥
婆罗门啊,你想怎样说就怎样说吧。我会回答你的话。今日我必为你消除疑惑,此事我毫无犹豫。
14.58.12
प्राहुर्वाक्संयतं विप्रं धर्मनैपुणदर्शिनः ।
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः ॥ १४.५८.१२ ॥
洞悉法之精微的人,把言语有节制的婆罗门称为如此;而对朋友不公的人,他们只把他视为小偷。
14.58.13
स बवान्मित्रतामद्य सम्प्राप्तो मम पार्थिव ।
स मे बुद्धिं प्रयच्छस्व सम्मतां पुरुषर्षभ ॥ १४.५८.१३ ॥
国王啊,他今日已成为我的朋友。人中之牛啊,请给我一个合我心意的建议。
14.58.14
अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः ।
भवत्सकाशमागन्तुं क्षमं मम न वेति वै ॥ १४.५८.१४ ॥
今日我在此的目的已经达成,而你是食人者。我来到你面前是否合宜,这便是问题所在。
14.58.15
क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम ।
मत्समीपं द्विजश्रेष्ट नागन्तव्यं कथञ्चन ॥ १४.५८.१५ ॥
最优秀的再生者啊,若我在此说话合宜,请听:最优秀的婆罗门啊,你绝不可靠近我。
14.58.16
एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह ।
आगच्छतो हि ते विप्रि भवेन्मृर्त्युन संशयः ॥ १४.५८.१६ ॥
我为你所见的善便是如此,婆利古族的承担者啊:你来的时候,婆罗门啊,死亡必定降临于你,此无疑问。
14.58.17
इत्युक्तः स तदा राजा क्षमं बुद्धिमता हितम् ।
अनुज्ञाप्य स राजानमहल्यां प्रति जग्मिवान् ॥ १४.५८.१७ ॥
智者以合宜而有益的话如此说完,他便向国王告辞,前往阿诃利雅那里去了。
14.58.18
गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियंकरः ।
जवेन महता प्रायाद्गौतमस्याश्रमं प्रति ॥ १४.५८.१८ ॥
他取了那对神圣的耳环,为师母做了合其心意之事,便疾速前往乔达摩的修行处。
14.58.19
यथा तयो रक्षणं च मदयन्त्याऽभिभाषितम् ।
तथा ते कुण्डले बध्वा तदा कृष्णाजिनेऽनयत् ॥ १४.५८.१९ ॥
正如二人的守护以及摩陀演提所说的那样,他那时把那对耳环系好,放在黑羚羊皮上。
14.58.20
स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम् ।
बिल्वं ददर्श विप्रर्षिरारुरोह च तं ततः ॥ १४.५८.२० ॥
他有一次饥饿难忍,看见一棵结满果实的木橘树,那位婆罗门仙人便爬了上去。
14.58.21
शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम ।
पातयामास बिल्वानि तदा स द्विजपुङ्गवः ॥ १४.५८.२१ ॥
他把黑羚羊皮挂在树枝上,哦,降伏敌人者,那时那位最优秀的再生者便把木橘果打落下来。
14.58.22
अथ पातयमानस्य बिल्वापहृतचक्षुषः ।
न्यपतंस्तानि बिल्वानि तस्मिन्नेवाजिने विभो ॥ १४.५८.२२ ॥
此时,他眼睛被木橘果迷住,正在打落果实,哦,大能者,那些木橘果就落在那张羚羊皮上。
14.58.23
यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै ।
बिल्वप्रहारैस्तस्याथ व्यशीर्यद्बन्धनं ततः ॥ १४.५८.२३ ॥
那位最优秀的再生者当时把耳环系在上面,因木橘果的撞击,那系结便松散了。
14.58.24
सकुण्डलं तदजिनं पपात सहसा तरोः ।
विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम् ॥ १४.५८.२४ ॥
连同那对耳环,那张羚羊皮突然从树上落下;系结散开后,那张黑羚羊皮落到了地上。
14.58.25
अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले ।
ऐरावतकुलोद्भूतः शीघ्रो भूत्वा तदा हि सः ॥ १४.५८.२५ ॥
那里,一条蛇看见了那对镶宝耳环。它出生于爱罗婆多族,迅速化形而来。
14.58.26
विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले ।
ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह ॥ १४.५८.२६ ॥
它用嘴咬开蚁穴,钻了进去;看见耳环被蛇带走……
14.58.27
पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः ।
स दण्डकाष्ठमादाय वल्मीकमखनत्तदा ॥ १४.५८.२७ ॥
他因悲痛而激动,极为愤怒,从树上跌落;拿起一根木棍,便开始挖掘蚁穴。
14.58.28
अहानि त्रिंशदव्यग्रः पञ्च चान्यानि भारत ।
क्रोधामर्षाभिसंतप्तस्तदा ब्राह्मणिसत्तमः ॥ १४.५८.२८ ॥
婆罗多啊,那位婆罗门中的最优者,被愤怒与不平所煎熬,专心不乱地挖了三十五天。
14.58.29
तस्य वेगमसह्यं तमसहन्ती वसुन्धरा ।
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमाकुला।
ततः खनत एवाथ विप्रर्षेर्धरणीतलम् ।
नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात् ॥ १४.५८.२९ ॥
大地无法承受他那难以忍受的力道,身体被木棍击打,极为惶乱地颤抖起来。于是,那位婆罗门仙人一心要开辟通往龙界的道路,不断挖掘,大地表面……
14.58.30
रथेन हरियुक्तेन तं देशमुपजग्मिवान् ।
वज्रपाणिर्महातेजास्तं ददर्श द्विजोत्तमम् ॥ १४.५८.३० ॥
他乘坐套着黄褐色马的战车来到那里。手持金刚杵、大光辉的他,看见了那位婆罗门中的最优者。
14.58.31
स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः ।
उदङ्कमब्रवीद्वाक्यं नैतच्छक्यं त्वयेति वै ॥ १४.५८.३१ ॥
他化作婆罗门,为其悲痛所困,对乌当迦说道:“此事你无法做到。”
14.58.32
इतो हि नागलोको वै योजनानि सहस्रशः ।
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव ॥ १४.५८.३२ ॥
从这里到龙界有数千由旬;我认为你的这件事不是用棍杖木棒能办成的。
14.58.33
नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया ।
प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम ॥ १४.५८.३३ ॥
若我在龙界无法获得那对耳环,婆罗门啊,再生者中的最优者,我将在你面前舍弃性命。
14.58.34
यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा ।
वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह ॥ १४.५८.३४ ॥
当他无法改变其决心时,持金刚者便以金刚神箭驱使他的杖。
14.58.35
ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धर ।
नागलोकस्य पन्थानमकरोज्जनमेजय ॥ १४.५८.३५ ॥
于是大地被那些金刚之击劈开,为龙界开辟了一条道路,哦,阁宁阇耶。
14.58.36
स तेन मार्गेण तदा नागलोकं विवेश ह ।
ददर्श नागलोकं च योजनानि सहस्रशः ॥ १४.५८.३६ ॥
于是他沿着那条路进入龙界,看见龙界绵延数千由旬。
14.58.37
प्रकारनिचयैर्दिव्यैर्मणिमुक्तास्वलङ्कृतैः ।
उपपन्नं महाभाग शातकुम्भमयैस्तथा ॥ १४.५८.३७ ॥
以神圣的宝石和珍珠装饰,有成排的城墙,哦大福之人,也以黄金构成。
14.58.38
वापीः स्फटिकसोपाना नदीस्च विमलोदकाः ।
ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान् ॥ १४.५८.३८ ॥
他看见有水晶台阶的水池、清澈的河流,以及栖满各种鸟群的许多树木。
14.58.39
तस्य लोकस्य च द्वारं स ददर्श भृगूद्वहः ।
पञ्चयोजनविस्तारमायतं शतयोजनम् ॥ १४.५८.३९ ॥
那个世界的大门,宽五由旬,长一百由旬,那位婆利古族的至尊看见了。
14.58.40
नागलोकमुदङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा ।
निराशश्चाभवत्तत्र कुण्डलाहरणे पुनः ॥ १४.५८.४० ॥
乌坦伽见到龙族的世界,便沮丧起来,在那里又对取回耳环感到绝望。
14.58.41
तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः ।
ताम्रास्यनेत्रः कौरव्यः प्रज्वलन्निव तेजसा ॥ १४.५८.४१ ॥
那匹黑白尾巴的马在那里对他说——口与眼如铜色,哦俱卢之后,仿佛因光辉而燃烧。
14.58.42
धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे ।
ऐरावतसुतेनेहि तव्रानीते हि कुण्डले ॥ १४.५८.४२ ॥
吹这股我的气息吧;那样,哦婆罗门,你就能获得。来吧——你的耳环确实已由爱罗伐多之子带来。
14.58.43
मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथञ्चन ।
त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा ॥ १४.५८.४३ ॥
孩子啊,此事你绝不可有丝毫厌恶,因为你当时在乔答摩的修行处也曾这样做过。
14.58.44
कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति ।
यन्मया चीर्णपूर्वं हि श्रोतुमिच्छामि तद्ध्यहम् ॥ १४.५८.४४ ॥
关于师父的修行处,我如何能认识您?我想听听我以前所做的事。
14.58.45
गुरोर्गुरु मां जानीहि ज्वलन्तं जातवेदसम् ।
त्वया ह्यहं सदा विप्र गुरोरर्थेऽभिपूजितः ॥ १४.५८.४५ ॥
请认我为师父的师父,即光焰熊熊的迦陀吠陀。婆罗门啊,你为了师父,始终敬奉我。
14.58.46
विधिवत्सततं विप्र शुचिना भृगुनन्दन ।
तस्माच्छ्रेयो विधास्यामि तवैवं कुरु माचिरम् ॥ १४.५८.४६ ॥
婆罗门啊,婆里古之子,你始终依礼并以清净之心敬奉我。因此我将赐予你福利;你照此去做,不可迟延。
14.58.47
इत्युक्तस्तु तथाऽकार्षीदुदङ्कश्चित्रभानुना ।
ताम्रार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया ॥ १४.५८.४७ ॥
听到这话,乌唐迦便照做了;赤铜色火焰的赤火虽然欢喜,却因想要焚烧而熊熊燃起。
14.58.48
ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत ।
घनः प्रादुरभूद्धूमो नागलोकभयावहः ॥ १४.५८.४८ ॥
然后,婆罗多啊,他的毛孔中鼓吹出浓密的烟雾,给那伽界带来了恐惧。
14.58.49
तेन धूमेन महता वर्धमानेन भारत ।
नागलोके महाराज न प्राज्ञायत किञ्चन ॥ १४.५८.४९ ॥
婆罗多的后裔啊,大王,被那日益增长的巨大烟雾所笼罩,蛇界中什么也看不见。
14.58.50
हाहाकृतमभूत्सर्वमैरावतिनिवेशनम् ।
वासुकिप्रमुखानां च नागानां जनमेजय ॥ १४.५८.५० ॥
阇那美阇耶啊,爱罗婆多的整个居所充满了惊慌的呼喊,以婆苏吉为首的诸蛇也是如此。
14.58.51
न प्राकाशन्त वेश्मानि धूमरुद्धानि भारत ।
नीहारसंवृतानीव वनानि गिरयस्तथा ॥ १४.५८.५१ ॥
婆罗多的后裔啊,被烟雾遮蔽的住所不再显现;它们仿佛被雾气笼罩,就像森林与山岭一样。
14.58.52
ते धूमरक्तनयना वह्नितेजोभितापिताः ।
आजग्मुर्निश्चयं ज्ञातुं भार्गवस्य महात्मनः ॥ १४.५८.५२ ॥
他们被烟熏红了双眼,被火焰的热力灼伤,前来探知这位大德的婆利古后裔的决断。
14.58.53
श्रुत्वा च निश्चयं तस्य महर्षेरतितेजसः ।
सम्भ्रान्तनयनाः सर्वे पूजां चक्रुर्यथाविधि ॥ १४.५८.५३ ॥
众人听闻这位极具光辉的大仙的决断,个个惊慌失措,依礼虔诚地供奉了他。
14.58.54
सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः ।
शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति ॥ १४.५८.५४ ॥
诸蛇以老者与幼者为先导,合掌低头,说道:“尊者啊,请息怒施恩吧。”
14.58.55
प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च ।
प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते ॥ १४.५८.५५ ॥
安抚了婆罗门,献上洗足水与敬礼之物后,龙众赠予了两只神圣的耳环,极受尊崇。
14.58.56
ततः स पूजितो नागैस्तदोदङ्कः प्रतापवान् ।
अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् ॥ १४.५८.५६ ॥
于是,受龙众尊崇的威武的乌檀伽绕火右旋而行,然后前往他老师的住所。
14.58.57
स गत्वा त्वरितो राजन्गौतमस्य निवेशनम् ।
प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यास्तदाऽनघ ॥ १४.५८.५७ ॥
大王,他急忙来到乔达摩的住所,无瑕者啊,便将那神圣的耳环交给了老师的妻子。
14.58.58
वासुकिप्रमुकानां च नागानां जनमेजय ।
सर्वं शशंस गुरेव यथावद्द्विजसत्तमः ॥ १४.५८.५८ ॥
janjaya啊,那位最优秀的婆罗门将与婆苏吉等龙王有关的一切,如实地告诉了他的老师。
14.58.59
एवं महात्मना तेन त्रींलोकाञ्जनमेजय ।
परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले ॥ १४.५८.५९ ॥
janjaya啊,这位大心者如此绕行三界,然后带回了那神圣的宝石耳环。
14.58.60
एवंप्रभावः स मुनिरुदङ्को भरतर्षभ ।
परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि। ॥ १४.५८.६० ॥
婆罗多之雄啊,那位具有如此威力的仙人乌檀伽,有着至高的苦行,正是你向我询问的人。