摩诃婆罗多 · 章 14.63
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.63.1
श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना ।
अश्वमेधं प्रति तदा किं भूयः प्रचकार ह ॥ १४.६३.१ ॥
婆罗门啊,聆听了大灵魂毗耶娑所说的这番话后,那时他又就马祭做了什么?
14.63.2
रत्नं च यन्मरुत्तेनि निहितं वसुधातले ।
तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम ॥ १४.६३.२ ॥
马鲁特藏于大地之下的那颗宝石,他是如何得到的?请告诉我,二生者中的最优者。
14.63.3
श्रुत्वा द्वैपायनवचो धर्मिराजो युधिष्ठिरः ।
भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत् ॥ १४.६३.३ ॥
听了毗耶娑(二岛仙人)的话后,法王坚战召集了所有兄弟,在适当的时候说了这番话。
14.63.4
अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि ।
श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना ॥ १४.६३.४ ॥
诸位英雄,阿周那、怖军,以及摩德利的两个孪生之子,你们出于友爱,聆听了那位大灵魂所说的话。
14.63.5
कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता ।
तपोवृद्धेनि महता सुहृदां भूतिमिच्छता ॥ १४.६३.५ ॥
聪慧的黑天说了这些话,他希望俱卢族的福祉,是苦行中的长者与伟人,希望朋友们繁荣昌盛。
14.63.6
गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा ।
भीष्मेण च महाप्राज्ञ गोविन्देनि च धीमता ॥ १४.६३.६ ॥
导师毗耶娑,本性合乎法,行事奇妙;大智慧的毗湿摩;以及聪慧的瞿毗陀也都(这样说)。
14.63.7
संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः ।
आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम् ॥ १४.६३.७ ॥
我回想起此事,想要妥善去做,诸位般度之子;无论未来还是当下,这对我们所有人都是福祉。
14.63.8
अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः ।
इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः ॥ १४.६३.८ ॥
在其后续之中,有梵者所说的吉祥之言;库鲁之最啊,这整个大地已被宝物掏空。
14.63.9
तच्चाचष्ट तदा व्यासो मरुत्तस्य धनं नृपाः ।
यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि।
तदानयामहे सर्वे कतं वा भीम मन्यसे ॥ १४.६३.९ ॥
于是毗耶娑讲述了摩如多的财富。诸王啊,若你们认为这颇为可取或合适,我们便都去取来;或者,婆罗摩啊,依你认为妥当的去做。
14.63.10
इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह ।
भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत् ॥ १४.६३.१० ॥
国王如此说完,库鲁族之最啊,婆罗摩那合掌对诸王之最说了这些话。
14.63.11
रोचते मे महाबाहो यदिदं भाषितं त्वया ।
व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति ॥ १४.६३.११ ॥
大臂者啊,你所说的关于聚集毗耶娑所讲财富之事,我很赞同。
14.63.12
तत्प्राप्नुयामहे धर्माद्यद्धनं काङ्क्षितं प्रभो ।
कृतमेव महाराज भवेदिति मतिर्मम ॥ १४.६३.१२ ॥
主上啊,愿我们依法得到所求的财富。大王,我的看法是此事必将成就。
14.63.13
ते वयं प्रणिपातेन गिरीशस्य महात्मनः ।
तदानयामि भद्रं ते समभ्यर्च्य कपर्दिनम् ॥ १४.६३.१३ ॥
我们向伟大的山主俯首致敬,并恭敬礼拜卡帕尔丁,便会将其取来;愿你吉祥。
14.63.14
तं विभुं देवदेवेशं शूलपाणिं त्रिलोचनम् ।
अनादिनिधनं शंभुं नमस्यामि महेश्वरम् ॥ १४.६३.१४ ॥
我向那遍在者、诸神之神、手持三叉戟、三目、无始无终的吉祥者摩诃首伐罗致敬。
14.63.15
लोकनाथं गणाध्यक्षं तस्यैवानुचरांश्चि तान् ।
प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः ॥ १४.६३.१५ ॥
以言语、心念与行为,使世界之主、诸伽那之长及其随从皆得欢喜,我们必定能达成所求。
14.63.16
रक्षन्ते ये च तद्द्रव्यं किन्नरा रौद्रदर्शनाः ।
ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे ॥ १४.६३.१६ ॥
守护那财物的、面目凶猛的紧那罗,在牛旗之神欢喜之时,也会听从我们。
14.63.17
स हि देवः प्रसन्नात्मा भक्तानां परमेश्वरः ।
ददात्यमरतां चापि किं पुनः काञ्चनं प्रभुः ॥ १४.६३.१७ ॥
那位神,心怀慈悲的至上主,甚至赐予信徒以不死,何况是黄金呢!
14.63.18
वनस्थास्य पुरा जिष्णोरस्त्रं पाशुपतं महत् ।
रौद्रं ब्रह्मसिरश्चादात्प्रसन्नः किं पुनर्धनम् ॥ १४.६३.१८ ॥
昔日,他对住在森林中的胜者(阿周那)心生欢喜,赐予他伟大凶猛的帕舒帕塔武器和梵首武器;何况财富呢!
14.63.19
वयं सर्वे हि तद्भक्ताः स चास्माकं प्रसीदति ।
तत्प्रसादादिदं राज्यं प्राप्तं कौरवनन्दन ॥ १४.६३.१९ ॥
我们都是他的信徒,他也对我们眷顾。正是由于他的恩典,这王国才得以获得,库鲁族的欢乐啊。
14.63.20
अभिमन्योर्वधे वृत्ते प्रतिज्ञाते धनञ्जये ।
जयद्रथवधार्थाय स्वप्ने लोकगुरुर्निशि।
प्रसाद्य लब्धवानस्त्रमर्जुनः सहकेशवः ॥ १४.६३.२० ॥
阿毗曼纽被杀之后,财神(阿周那)发誓要杀死胜车,阿周那与克沙瓦一同在夜间梦中使世界之师欢喜,并获得了神兵。
14.63.21
तत्र प्रभातां रजनीं फल्गुनस्याग्रतः प्रभुः ।
जघान सैन्यं शूलेन प्रत्यक्षं सव्यसाचिनः ॥ १४.६३.२१ ॥
那时黎明将至,主宰在财主(阿周那)面前,在左手神射手的眼前,以三叉戟当众击杀了军队。
14.63.22
कस्तां सेनां महाराज मनसाऽपि प्रधर्षयेत् ।
द्रोणिकर्णबलैर्युक्तां महेष्वासैः प्रहारिभिः।
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥ १४.६३.२२ ॥
大王啊,那支由德罗纳之子与迦尔纳之力所加持、满布大弓手与攻击者的军队,除了多形态的大自在天、伟大的神射手神,谁即使在心中也能冲击它呢?
14.63.23
तस्यैव च प्रसादेव निहतास्तव शत्रवः ।
अश्वमेधस्य संसिद्धिं तव सम्पादयिष्यति। ॥ १४.६३.२३ ॥
正是凭借他的恩典,你的敌人被杀尽;他也将使你的马祭得以圆满成就。
14.63.24
श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत ।
प्रीतो धर्मात्मजो राजा बभूवातीव भारत।
अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्वचः ॥ १४.६३.२४ ॥
聽到婆羅多之子怖軍如此所言,法之子國王非常歡喜。阿周那等人也說:「就這樣吧。」
14.63.25
कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम् ।
सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे ॥ १४.६३.२५ ॥
諸般ookie般沙朵王子們都決定取得寶物,便在恒星宿之日命令軍隊出發。
14.63.26
ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च ।
अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम् ॥ १४.६३.२६ ॥
於是般度之子們令婆羅門誦念吉祥語,並先供奉諸神中最優的摩醯濕伐羅,然後出發。
14.63.27
मोदकैः पायसेनाथ मांसापूपैस्तथैव च ।
आशास्य च महात्मानं प्रययुर्मुदिता भृशम् ॥ १४.६३.२७ ॥
以甜餅、奶米和肉餅供養,並蒙受大靈的祝福後,他們極為歡喜地出發了。
14.63.28
तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ ।
प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते ॥ १४.६३.२८ ॥
他們出發之際,那裡心情歡喜的諸位上等婆羅門和城中居民都說了吉祥的祝福之語。
14.63.29
ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च ।
ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः ॥ १४.६३.२९ ॥
於是般度之子們以右繞之禮環繞婆羅門及聖火,低首頂禮,然後出發。
14.63.30
समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् ।
धृतराष्ट्रं सभार्यं वै पृथां च पृथुलोचनाम् ॥ १४.६३.३० ॥
辞别了因失子之痛而备受打击的国王持国,以及他的妻子,还有广目的普利塔(贡蒂),
14.63.31
मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम् ।
सम्पूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः।
प्रययुः पाण्डवा वीरा नियमस्थाः शुचिव्रताः ॥ १४.६३.३१ ॥
将库卢族的、持国之子育由特苏托付给国王照料后,受到市民、婆罗门和智者的尊敬,恪守戒律、持守清净誓愿的英勇般度五子启程而去。