Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.64

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.64.1

ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः ।
रथघोषेण महता पूरयन्तो वसुन्धराम् ॥ १४.६४.१ ॥

于是他们欢欣地出发,与欢喜的人众和坐骑同行,以战车的巨大轰鸣充满大地。

14.64.2

संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः ।
स्वेन सैन्येन संवीता यथाऽऽदित्याः स्वरश्मिभिः ॥ १४.६४.२ ॥

受到御者、颂歌者与赞诵者的颂歌赞美,被自己的军队环绕,如同太阳被自身光芒环绕。

14.64.3

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
बभौ युधिष्टिरस्तत्र पौर्णमास्यामिवोडुराट् ॥ १४.६४.३ ॥

坚战头顶持着白色华盖,在那里闪耀,如同满月之夜的星王。

14.64.4

जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः ।
प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः ॥ १४.६४.४ ॥

途中,般度之子这位人中雄牛依礼如法地接受了欢喜民众的胜利祝福。

14.64.5

तथैव सैनिका राजन्राजानमनुयान्ति ये ।
तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत ॥ १४.६४.५ ॥

同样,大王啊,随从国王的士兵发出的呼啸声震撼了天空,并停留在那里。

14.64.6

सरांसि सरितश्चैव वनान्युपवनानि च ।
अत्यक्रामन्महाराजो गिरिं चाप्यन्वपद्यत ॥ १४.६४.६ ॥

越过湖泊、河流、森林与园林,大王也抵达了山岭。

14.64.7

स्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम् ।
चक्रे निवेशनं राजा पाण्डवः सहसैनिकैः।
शिवे देशे समे चैव तदा भरतसत्तम ॥ १४.६४.७ ॥

啊,诸王之主!在那件上好财物所在的地方,般度之王与士兵们一同设立了营帐。啊,婆罗多族最优秀者!那时此地吉祥而平坦。

14.64.8

अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान् ।
पुरोहितं च कौरव्य वेदवेदाङ्गपारगम् ॥ १४.६४.८ ॥

将具足苦行、学识与克制的婆罗门置于前列,啊,俱卢后裔!还有精通吠陀与吠陀支分的家庭祭司。

14.64.9

आग्निवेश्यं च राजानो ब्राह्मणाः सपुरोधसः ।
कृत्वा शान्तिं यथान्यायं सर्वशः पर्यवारयन् ॥ १४.६४.९ ॥

依法举行安息仪式后,阿耆尼吠舍、诸王以及与祭司同在的婆罗门从四面将其环绕。

14.64.10

कृत्वा तु मध्ये राजानममात्यांश्च यथाविधि ।
षट्पदं नवसङ्ख्यानं निवेशं चक्रिरे जनाः ॥ १४.६४.१० ॥

将国王与大臣安置于中央,众人依法建起了一座分为六部分、九个区划的营地。

14.64.11

मत्तानां वारणेन्द्राणां निवेशं च यथाविधि ।
कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत् ॥ १४.६४.११ ॥

他又依法令人为发情的象王们建造营地,之后那位王中之王对婆罗门说了这番话。

14.64.12

अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे ।
यथा भवन्तो मन्यन्ते कर्तुमर्हन्ति तत्तथा ॥ १४.६४.१२ ॥

啊,再生者中最优秀的人!此事,择吉星宿与吉日,请你们认为适宜的方式去做。

14.64.13

न नः कालात्ययो वै स्यादिहैव परिलम्बताम् ।
इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम् ॥ १४.६४.१३ ॥

“我们不会因时间流逝而受损;就在此地稍作停留吧。”如此决定之后,诸婆罗门之首啊,请做接下来应做的事。

14.64.14

श्रुत्वैतद्व ब्राह्मणाः सपुरोधसः ।
इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः ॥ १४.६४.१४ ॥

婆罗门与祭司们听闻此言,欢喜不已,想要取悦法王,于是说出了这些话。

14.64.15

अद्यैव नक्षत्रिमहश्च पुण्यं ।
यतामहे श्रेष्ठतमक्रियासु।
तपोभिरद्येह वसाम राज-
न्नुपोष्यतां चापि भवद्भिरद्य ॥ १४.६४.१५ ॥

就在今日,在这吉祥的星宿之下,就在此地,让我们在最殊胜的祭仪中精进;今日我们在此以苦行而居,大王;你们也今日禁食吧。

14.64.16

श्रुत्वा तु तेषां द्विजसत्तमानां ।
कृतोपवासा रजनीं नरेन्द्राः। ॥ १४.६४.१६ ॥

诸位婆罗门之首的话语被听闻之后,诸王主们行了斋戒,度过了那一夜。

14.64.17

ऊषुः प्रतीताः कुशसंस्तरेषु ।
यथाऽध्वरे प्रज्वलिता हुताशाः ॥ १४.६४.१७ ॥

他们欣然在吉祥草的床榻上安坐,如同祭祀中熊熊燃烧的火焰。

14.64.18

ततो निशा सा व्यगमन्महात्मनां ।
संशृण्वतां विप्रसमीरिता गिरः।
ततः प्रभाते विमले द्विजर्षभा ।
वचोऽब्रुवन्धर्मसुतं नराधिपम् ॥ १४.६४.१८ ॥

于是,在诸大士聆听婆罗门之言的时候,那一夜过去了。随后在清明的黎明,婆罗门中的雄牛们向法之子的人主说出了这些话。