Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.67

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.67.1

उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा ।
दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत् ॥ १४.६७.१ ॥

普利塔站起身时,苏跋陀罗看见她的兄长,痛苦不堪地大声哭喊,说出了这些话。

14.67.2

पुण्डरीकाक्ष पश्य त्वं पौत्रं पार्थस्य धीमतः ।
परिक्षीणेषु कुरुषु परिक्षीणां गतायुषम् ॥ १४.६७.२ ॥

莲花眼者啊!请看这位智者般的阿周那之孙,已经憔悴,生命垂尽,而俱卢族也已衰败。

14.67.3

इषीका द्रोणपुत्रेणि भीमसेनार्थमुद्यता ।
सोत्तरायां निपतिता विजये मयि चैव ह ॥ १४.६७.३ ॥

德罗纳之子射向毗摩森那的箭,落在了乌塔拉身上,也落在了我,胜者身上。

14.67.4

सेयं ज्वलन्ती हृदये मयि तिष्टति केशव ।
यन्न पश्यामि दुर्धर्ष सहपुत्रं तु तं प्रभो ॥ १४.६७.४ ॥

啊,羯舍婆!这份灼烧的痛苦留在我心中:我看不见他与他的儿子在一起,啊,不可战胜的主。

14.67.5

किंनु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः ।
भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ ॥ १४.६७.५ ॥

正法之王、心性正直的坚战将说什么呢?还有毗摩森那与阿周那,以及摩德罗之女的那两个儿子,他们又会说什么呢?

14.67.6

श्रुत्वाऽभिमन्योस्तनयं जातं च मृतमेव च ।
मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः ॥ १४.६७.६ ॥

啊,伐尔什尼的后裔!听说阿毗曼尤之子生下便死了,般度五子便仿佛被德罗纳之子掠夺一空。

14.67.7

अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः ।
ते श्रुत्वा किंनु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः ॥ १४.६७.७ ॥

克里希那啊,阿毗曼尤对祖先们是可爱的,这没有疑问。听到此事,被武器征服的德罗纳之子们将会说什么呢?

14.67.8

भविता नः परं दुःखं किंनु मन्ये जनार्दन ।
अभिमन्योः सुतं कृष्ण मृतं जातमरिंदम ॥ १४.६७.८ ॥

世尊贤王啊,我想我们将有巨大的悲痛啊!克里希那啊,制敌者,阿毗曼尤的儿子生下来就已死去。

14.67.9

साऽहं प्रसादये कृष्ण त्वामद्य शिरसा नता ।
पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम ॥ १४.६७.९ ॥

克里希那啊,今天我低头向你祈求。这是普利塔,德罗波蒂也在;人中至尊啊,请看看她们。

14.67.10

यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव ।
तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन ॥ १४.६७.१० ॥

摩陀婆啊,当德罗纳之子杀害般度子孙的胎儿时,制敌者啊,那时你愤怒地对德罗尼说了话。

14.67.11

अकामं त्वां करिष्यामि ब्रह्मबन्धो नराधम ।
अहं संजीवयिष्यामि किरीटितनयात्मजम् ॥ १४.६७.११ ॥

违我之愿,我将如此对你,婆罗门败类啊,人中最卑劣者啊。我将使基利丁(阿周那)之女的儿子复活。

14.67.12

इत्येद्वचनं श्रुत्वा जानानाऽहं बलं तव ।
प्रसादये त्वां दुर्धर्ष जीवतामभिमन्युजः ॥ १४.६७.१२ ॥

听了这番话,我知道你的力量,故而向你祈求,不可战胜者啊,愿阿毗曼尤之子能够活下来。

14.67.13

यद्येतत्त्वं प्रतिश्रुत्य न करोषि वच शुभम् ।
सकलं वृष्णिशार्दूल मृतां मामवधारय ॥ १४.६७.१३ ॥

若你许诺之后却不践行这吉祥之言,毗湿尼族的雄虎啊,那就把我当作已经完全死去的人吧。

14.67.14

अभिमन्योः सुतो वीर न संजीवति यद्ययम् ।
जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया ॥ १४.६७.१४ ॥

若阿毗曼尤之子这位英雄不能复活,不可战胜者啊,你若活着,我又能借你做什么呢?

14.67.15

संजीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम् ।
सदृशाक्षसुतं वीर सस्यं वर्षन्निवांम्बुदः ॥ १४.६७.१५ ॥

不可战胜者啊,请使阿毗曼尤这位死去的儿子复活吧,他是与你相似的英雄,正如云降雨于庄稼。

14.67.16

त्वं हि केशव धर्मात्मा सत्यवान्सत्यविक्रमः ।
स तां वाचमृतां कर्तुमर्हसि त्वमरिंदम ॥ १४.६७.१६ ॥

你啊,羯舍婆,心怀正法,诚实守信,真正勇猛;因此你应当使那句话成真,降伏敌人者啊。

14.67.17

इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान् ।
किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम् ॥ १४.६७.१७ ॥

你若愿意,便能使三界的死者复活;更何况是你姊妹之子那位新生而可爱的儿子,如今已经死去!

14.67.18

प्रभावज्ञाऽस्मि ते कृष्ण तस्मात्त्वां याचयाम्यहम् ।
कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम् ॥ १४.६७.१८ ॥

克里希那啊,我知道你的威力,因此我恳求你:请对般度之子施以这至高的恩惠。

14.67.19

स्वसेति वा महाबाहो हतपुत्रेति वा पुनः ।
प्रपन्ना मामियं चेति दयां कर्तुमिहार्हसि ॥ १४.६७.१९ ॥

啊,大臂者!她是我的姊妹,或是失去了儿子,或是前来投靠于我;因此你应当在此对她施以慈悲。