摩诃婆罗多 · 章 14.68
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.68.1
एवमुक्तस्तु राजेन्द्र केशिहा दुःखमुर्च्छितः ।
तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम् ॥ १४.६८.१ ॥
众王之主啊,被如此告知后,杀死羯史的神,因悲痛而昏迷,高声说道:「就这样吧」,仿佛在使那些人欢喜。
14.68.2
वाक्येनैतेन हि तदा तं जनं पुरुषर्षभः ।
ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव ॥ १४.६८.२ ॥
那时,以这些话语,那位人中之牛、全能者使众人欢喜,犹如以水慰藉被酷热所苦的人。
14.68.3
ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव ।
अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि ॥ १४.६८.३ ॥
于是他迅速进入你父亲的诞生之室,啊人中之虎,那里依规定以白色花环庄严装饰。
14.68.4
अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम् ।
घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज ॥ १४.६८.४ ॥
啊大臂者,四方布置着盛满水的瓶罐,还有酥油、柿木火把与芥子。
14.68.5
अस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः ।
वृद्धाभिश्चापि रामाभिः परिवारार्थमावृतः।
दक्षैश्च परितो धीर भिषग्भिः कुशलैस्तथा ॥ १४.६८.५ ॥
啊坚定者,四周安置着洁净的兵器与火,又有老年女子环绕侍奉,四周还有熟练的良医。
14.68.6
ददर्श च स तेजस्वी रक्षोघ्रान्यपि सर्वशः ।
द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः ॥ १४.६८.६ ॥
这位光辉者又处处看见由熟练之人依规定安置的、驱除罗刹之物。
14.68.7
तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव ।
हृष्टोऽभवद्धृषीकेशः साधुसाध्विति चाब्रवीत् ॥ १४.६८.७ ॥
看到你父亲的出生之家如此布置,希利希竭欣喜地说:“善哉,善哉!”
14.68.8
तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा ।
द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत् ॥ १४.६८.८ ॥
当跋利示尼之子如此说话时,德罗波蒂面带喜色,急忙走去,对毗罗吒之女说了这些话。
14.68.9
अयमायाति ते भर्तुर्मातुलो मधुसूदनः ।
पुराणर्षिरचिन्त्यात्मा समीपमपराजितः ॥ १४.६८.९ ॥
你丈夫的舅舅摩图苏陀那正在走来——古老的圣仙,心神不可思议,无人能胜,正走近。
14.68.10
साऽपि बाष्पकलां वाचं निगृह्याश्रूपि चैव ह ।
असंवीताऽभवद्देवी देववत्कृष्णमीयुषी ॥ १४.६८.१० ॥
她也忍住哽咽的话语与泪水,如女神一般不蒙面纱,走近克利希那。
14.68.11
सा तथा दूयमानेन हृदयेन तपस्विनी ।
दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत् ॥ १४.६८.११ ॥
那位苦修的女子心中悲痛,见到前来的戈文达,便凄然哀哭起来。
14.68.12
पुण्डरीकाक्ष पश्यावां बालेन हि विनाकृतौ ।
अभिमन्युं च मां चैव हठात्तुल्यं जनार्दन ॥ १४.६८.१२ ॥
莲花眼者啊,请看——没有了孩子阿毗曼纽,我们二人同样被强行抛弃了,哦,遮那陀那。
14.68.13
वार्ष्णेयमधुहन्वीर शिरसा त्वां प्रसादये ।
द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम् ॥ १४.६८.१३ ॥
哦,ververshni之后、杀死摩图的英雄,我低首恳求你:让被德罗纳之子的神箭烧死的我的这个儿子复活吧。
14.68.14
यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः ।
त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत् ॥ १४.६८.१४ ॥
若法王、或怖军、或你,莲花眼者啊,曾说过这番话,
14.68.15
अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो ।
अहमेव विनष्टा स्यां नायमेवं गतो भवेत् ॥ १४.६८.१५ ॥
主啊,愿这支芦苇箭杀死不知情的我这个母亲吧;我自己应当毁灭,他就不会落到这般境地。
14.68.16
गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् ।
कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते ॥ १४.६८.१६ ॥
德罗纳之子心地邪恶,以梵天神箭击落这腹中的孩子,犯下如此残忍之事,将得到什么果报?
14.68.17
सा त्वां प्रसाद्य शिरसा याचे शत्रुनिबर्हण ।
प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते यदि ॥ १४.६८.१७ ॥
我低首向你恭敬祈求,哦,灭敌者。哦,哥文达,若此子不能复生,我便舍弃性命。
14.68.18
अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः ।
ते द्रोणपुत्रेण हताः किंनु जीवामि केशव ॥ १४.६८.१८ ॥
哦,善者,我的许多愿望都在他身上,如今却被德罗纳之子毁灭了。哦,克沙瓦,那我为何还活着?
14.68.19
आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन ।
अभिवादयिष्ये हृष्टेति तदिदं वितथीकृतम् ॥ १४.६८.१९ ॥
克里希纳啊,生主啊,我本想欢喜地向那怀中充满希望的人致意,如今这已化为虚空。
14.68.20
चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ ।
विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः ॥ १४.६८.२० ॥
人中之牛啊,克里希纳啊,随着这位卡帕拉克沙的继承者死去,我心中的一切愿望都化为虚空。
14.68.21
चपलाक्षः किलातीव प्रियस्ते मधुसूदन ।
सुतं पश्य त्वमस्यैनं ब्रह्मास्त्रेण निपातितम् ॥ १४.६८.२१ ॥
摩图苏陀那啊,卡帕拉克沙对你十分珍爱。请看看你这个被梵箭射倒的儿子吧。
14.68.22
कृतघ्नोऽयं नृशंसोऽयं यथाऽस्य जनकस्तथा ।
यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनं ॥ १४.६८.२२ ॥
此人忘恩负义、残忍,正如他的父亲。舍弃了般度子孙的荣耀,今日他已前往阎摩的居所。
14.68.23
मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव ।
अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति ॥ १४.६८.२३ ॥
克舍婆啊,我曾在战阵前立下誓言:英雄啊,若阿比曼纽被杀,我将很快去到你的身边。
14.68.24
तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया ।
इदानीं मां गतां तत्र किंनु वक्ष्यति फाल्गुनिः ॥ १४.६८.२४ ॥
克里希纳啊,我没有做到;残忍而贪恋生命,我仍然活着。如今我若去到那里,法尔古尼之子会说什么呢?