摩诃婆罗多 · 章 14.69
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.69.1
सैवं विलप्य करुणं सोन्मादेव तपस्विनी ।
उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी ॥ १४.६९.१ ॥
她如此悲切哀哭,仿佛疯狂一般,苦行女乌塔拉悲惨地倒在地上,渴望着她的儿子。
14.69.2
तां तु दृष्ट्वा निपतितां हतपुत्रपरिच्छदाम् ।
चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतास्त्रियः ॥ १४.६९.२ ॥
看到乌塔拉倒地,失去了儿子和随从,因悲痛而煎熬的贡蒂和所有婆罗多家族的女子都哭喊起来。
14.69.3
मुहूर्तमिव राजेन्द्र पाण्डवानां निवेशनम् ।
अप्रेक्षणीयमभवदार्तस्वनविनादितम् ॥ १४.६९.३ ॥
君王之主啊,般度之子的住所一时竟不忍目睹,充满了悲苦的哭喊声。
14.69.4
सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता ।
कश्मलाभिहता वीर वैराटी त्वभवत्तदा ॥ १४.६९.४ ॥
君王之主啊,英雄啊,毗罗吒之女乌塔拉因丧子之痛而煎熬,那时一时昏厥倒下。
14.69.5
प्रतिलभ्य तु सा संज्ञामुत्तरा भरतर्षभ ।
अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत् ॥ १४.६९.५ ॥
婆罗多中的雄牛啊,乌塔拉恢复知觉后,将儿子抱在膝上,说出了这番话。
14.69.6
धर्मज्ञस्य सुतः संस्त्वं न धर्ममवबुध्यसे ।
यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम् ॥ १४.६९.६ ॥
你身为通晓法的人之子,却不懂得法,因为你不向韦史尼族中最杰出的英雄致敬。
14.69.7
पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं त्विदम् ।
दुर्मरं प्राणिनां वीर काले प्राप्ते कथञ्चन ॥ १४.६९.७ ॥
孩子,你去把我的这些话告诉你的父亲。英雄啊,当众生的时辰来临时,无论如何都难以承受。
14.69.8
याऽहं त्वया विनाऽद्येह पत्या पुत्रेण चैव ह ।
मरणं नाभिगच्छामि हतस्वस्तिरकिञ्चना ॥ १४.६९.८ ॥
今日没有你,没有丈夫和儿子,我失去了吉祥、一无所有,却在此并不能走向死亡。
14.69.9
अथवा धर्मराज्ञाऽहमनुज्ञाता महाभुजः ।
भक्षयिष्ये विषं घोरं प्रवेक्ष्ये वा हुताशनम् ॥ १४.६९.९ ॥
或者,大臂者啊,得到法王的允许,我将服下可怕的毒药,或投入火中。
14.69.10
अथवा दुर्भरं तात यदिदं मे सहस्रधा ।
पतिपुत्रविहीनाया हृदयं न विदीर्यते ॥ १४.६९.१० ॥
或者,亲爱的孩子,我这颗失去丈夫和儿子的心,并没有碎成千片;这真是难以承受。
14.69.11
उत्तिष्ठ पुत्र पस्येमां दुःखितां प्रपितामहीम् ।
आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे ॥ १४.६९.११ ॥
起来吧,孩子,看看这位悲伤、痛苦、困顿、可怜、沉没于忧愁之海的曾祖母。
14.69.12
आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम् ।
मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव ॥ १४.६९.१२ ॥
看看高贵的般遮离和苦行的萨特瓦蒂,也看看我,极度悲伤痛苦,好似被猎人之箭射中的母鹿。
14.69.13
उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः ।
पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणः ॥ १४.६९.१३ ॥
起来看看那智慧的世界之主的面容,他有着如莲花瓣般的眼睛,目光如往昔一样灵动。
14.69.14
एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः ।
उत्तरां तां स्त्रियः सर्वाः पुनरुत्थापयन्त्युत ॥ १४.६९.१४ ॥
众女见乌答罗如此哀哭又再次倒地,便都再次将她扶起。
14.69.15
उत्थाय च पुनर्धैर्यात्तदा मत्स्यपतेः सुता ।
प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत् ॥ १४.६९.१५ ॥
于是,摩蹉王之女乌答罗强忍悲痛再次起身,合掌,便在地上向莲花眼者礼拜。
14.69.16
श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः ।
उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं प्रत्यसंहरत् ॥ १४.६९.१६ ॥
那人中之牛听到她巨大的哀哭,便以水漱口净身,随后克里希那收回了梵天箭。
14.69.17
प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः ।
अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयज्जगत् ॥ १४.६९.१७ ॥
达沙尔哈(克里希那)允诺救活他的性命;那不动摇、心地纯净者开口说话,让整个世界都听见。
14.69.18
न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति ।
एष संजीवयाम्येनं पश्यतां सर्वदेहिनाम् ॥ १४.६९.१८ ॥
乌答罗啊,我不妄言;此事必将实现。在一切有身众生的注视下,我要使他复活。
14.69.19
नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन ।
न च युद्धात्परावृत्तस्तथा संजीवतामयम् ॥ १४.६९.१९ ॥
我从未说过谎话,即使是玩笑也不曾;也未曾从战斗中退缩。愿以此真实,使此人复活。
14.69.20
यथा मे दयितो धर्मो ब्राह्मणश्च विशेषतः ।
अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा ॥ १४.६९.२० ॥
正如法与尤其婆罗门于我可贵,愿阿毗曼尤之子——死胎所生——复活。
14.69.21
यथाऽहं नाभिजानामि विजये तु कदाचन ।
विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः ॥ १४.६९.२१ ॥
我即使在胜利之时也从不记得仇怨,以此真实,愿这死去的婴儿复活。
14.69.22
यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ ।
तथा मृतः शिशुरयं जीवतादभिमन्युजः ॥ १४.६९.२२ ॥
真与法常驻于我之中,愿阿毗曼尤之子这死去的婴儿复活。
14.69.23
यथा कंसश्च केशी च धर्मेण निहतौ मया ।
तेन सत्येन बालोऽयं पुनः संजीवतामिह ॥ १४.६९.२३ ॥
我依法杀死了甘沙与凯辛,以此真实,愿这孩子在此再度复活。
14.69.24
इत्युक्त्वा वासुदेवोऽथ तं बालं भरतर्षभ ।
पादेन कमलाभेन ब्रह्मरुद्रार्चितेन च।
पस्पर्श पुण्डरीकाक्ष आपादतलमस्तकम् ॥ १४.६९.२४ ॥
说完,婆罗多之牛啊,莲花眼的婆苏提婆以如莲的脚——为梵天与楼陀罗所敬拜——从脚底到头顶触碰了那孩子。
14.69.25
स्पृष्टमात्रस्तु कृष्णेन स बालो भरतर्षभ ।
शनैःशनैर्महाराज प्रापद्यत स चेतनाम् ॥ १४.६९.२५ ॥
克里希那一触及,那孩子,婆罗多族的雄牛,大王,便渐渐恢复了知觉。
14.69.26
शनैःशनैर्महाराज प्रास्पन्दत सचेतनः ॥ १४.६९.२६ ॥
大王,他渐渐恢复知觉,开始动弹起来。