摩诃婆罗多 · 章 14.73
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.73.1
दीक्षाकाले तु सम्प्राप्ते ततस्ते सुमहर्त्विजः ।
विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् ॥ १४.७३.१ ॥
当受戒之时到来,那些大祭司依照规定为国王举行了马祭的受戒仪式。
14.73.2
कृत्वा स पशुमेधांश्च दीक्षितः पाण्डुनन्दनः ।
धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत ॥ १४.७३.२ ॥
完成了牲畜祭祀之后,受戒的般度之子、大光明的法王与祭司们一同光辉闪耀。
14.73.3
हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना ।
उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ॥ १४.७३.३ ॥
马祭所用的那匹马,依照经典规定,由梵的宣说者、无量光辉的毗耶娑亲自放出。
14.73.4
स राजा राजधर्मेण दीक्षितो विबभौ तदा ।
हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ॥ १४.७३.४ ॥
依照王者之法受戒的那位国王,此时佩戴金环、项饰金光,宛如熊熊烈火般光辉照耀。
14.73.5
कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः ।
विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ॥ १४.७३.५ ॥
身着黑羚羊皮,手持法杖,穿着麻布衣裳,这位法之子在祭祀中再次光辉闪耀,犹如生主。
14.73.6
तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशांपते ।
बभूवुरर्जुनश्चापि प्रदीप्त इव पावकः ॥ १४.७३.६ ॥
同样,人民之主啊,他的所有祭司都身着相同的服饰,阿周那也如熊熊烈火一般。
14.73.7
श्वेताश्वः कपिकेतुश्च ससाराश्वं धनञ्जयः ।
विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥ १४.७३.७ ॥
大地的守护者啊!白马与猴旗的檀那闍耶,依法王的命令,按照仪轨跟随那匹马。
14.73.8
क्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् ।
तमश्वं पृथिवीपाल मुदा युक्तः ससार च ॥ १४.७३.८ ॥
国王啊,他拉动甘狄拔弓,手指缚着皮制护指,大地的守护者啊,他欢喜地跟随那匹马。
14.73.9
अनुमार्गं तदा राजन्नागमत्तत्पुरं विभो ।
द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यनतं धनञ्जयम् ॥ १४.७३.९ ॥
国王啊,威力者啊!那时,他想看到即将出发的俱卢最优者檀那闍耶,便没有沿着道路跟随到那座城市去。
14.73.10
तेषामन्योन्यसम्मर्दादूष्मेव समाजायत ।
दिदृक्षूणां हयं तं च तं चैव हयसारिणम् ॥ १४.७३.१० ॥
那些想看那匹马和驭马者的人彼此推挤,仿佛升起了热气。
14.73.11
ततः शब्दो महाराज दिशः खं प्रतिपूरयन् ।
बभूव प्रेक्षतां नॄमां कुन्तीपुत्रं धनंजयम् ॥ १४.७३.११ ॥
那时,大王啊,一种声音充满了四方与天空,那是注视着贡蒂之子檀那闍耶的人们发出的声音。
14.73.12
एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान् ।
समन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् ॥ १४.७३.१२ ॥
看啊,贡蒂之子在前行,光辉的马也在前行;那大臂者触摸着他那张上等的弓,跟随其后。
14.73.13
एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः ।
स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत ॥ १४.७३.१३ ॥
心志高远的胜利者(阿周那)听到了众人的话语:“愿你平安;无恙地前行,再回来吧,婆罗多的后裔。”
14.73.14
अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् ।
नैनं पश्याम सम्मर्दे धनुरेतत्प्रदृश्यते ॥ १४.७३.१४ ॥
于是其他人,人主啊,说了这些话:“在战阵的混乱中我们看不见他,但这张弓却显现出来。”
14.73.15
एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः ।
स्वस्ति गच्छत्वरिष्टो वै पन्थानमकुतोभयम्।
निवृत्तमेनं द्रक्ष्यामः पुनरेष्यति च ध्रुवम् ॥ १४.७३.१५ ॥
这就是著名的甘提婆弓,其弦响可怖。愿他平安无恙地走上无惧之路。他归来时我们将再见到他;他必定会再来。
14.73.16
एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ ।
शुश्राव मधुरा वाचः पुनःपुनरुदारधीः ॥ १४.७३.१६ ॥
婆罗多中的雄牛啊,那心志高远的人一再听到男人与女人们这样甜美的话语。
14.73.17
याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि ।
प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ॥ १४.७३.१७ ॥
耶若婆佉的弟子,精通祭祀仪轨,通晓吠陀,为求平安,与普利塔之子同行。
14.73.18
ब्राह्मणाश्च महीपाल बहवो वेदपारगाः ।
अनुजग्मुर्महात्मानं क्षत्रियाश्च विशाम्पते।
विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥ १४.७३.१८ ॥
人民之主,大地的守护者啊,许多精通吠陀的婆罗门和刹帝利,依法奉法王之命,跟随那位伟大的人而去。
14.73.19
पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा ।
चचार स महाराज यथादेशं च सत्तम ॥ १४.७३.१९ ॥
马在般度子孙以武器之威所征服的大地上,依各地而行,大王,善人之最。
14.73.20
तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह ।
तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ॥ १४.७३.२० ॥
关于般度子孙在那里发生的战斗与事件,我将把那些奇异而伟大的事告诉你,英雄。
14.73.21
स हयः पृथिवीं राजन्प्रदक्षिणमवर्तत ।
ससारेत्तरतः पूर्वं तन्निबोध महीपते ॥ १४.७३.२१ ॥
那匹马,大王,转身依右绕行大地;先从另一侧游走。请听,大地之主。
14.73.22
अवमृद्रन्स राष्ट्राणि पार्थिवानां हयोत्तमः ।
शनैस्तदा परिययौ श्वेताश्वश्च महारथः ॥ १४.७३.२२ ॥
踏过诸王的国土,那匹最好的马当时慢慢前行,白马的大车士也一同前行。
14.73.23
तत्र सङ्गणना नास्ति राज्ञामयुतशस्तदा ।
येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः ॥ १४.७३.२३ ॥
当时诸王之数不可计,以万计;大王,那些在那里作战的刹帝利,他们的亲属已被杀尽。
14.73.24
किराता यवना राजन्बहवोऽसिधनुर्धराः ।
म्लेच्छाश्चान्ये बहुविधाः पूर्वं ये निकृता रणे ॥ १४.७३.२४ ॥
大王,许多持剑持弓的吉罗多与耶槃那,以及其他各种蛮族,他们先前在战场上曾被击败。
14.73.25
आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः ।
समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ॥ १४.७३.२५ ॥
高贵的大地守护之王们,与他们的士兵和坐骑一同欢欣,众多且沉醉于战斗的骄傲,与般度之子相遇。
14.73.26
एवं वृत्तानि युद्धानि तत्रतत्र महीपते ।
अर्जुनस्य महीपालैर्नानादेशसमागतैः ॥ १४.७३.२६ ॥
如此,大地之主啊,阿周那与从各地聚集而来的诸王在各处发生了战斗。
14.73.27
यान्यत्र हयतो राजन्प्रवृत्तानि महान्ति च ।
तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ॥ १४.७३.२७ ॥
王啊,跟随马匹在此发生的那些大战,无瑕者啊,我将把贡蒂之子的那些战役讲给你听。