Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.74

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.74.1

त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः ।
महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः ॥ १४.७४.१ ॥

与怀恨于戴冠者阿周那的三伽多人发生了战斗;他们是被杀者的儿子和孙子,以大战车武士闻名。

14.74.2

ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तम ।
विषयान्तं ततो वीरा दंशिताः पर्यवारयन् ॥ १४.७४.२ ॥

他们认出祭祀的良马已到达国境,便身披甲胄的英雄们将其包围。

14.74.3

रथिनो बद्धतूणीराः सदश्वैः समलङ्कृतैः ।
परिवार्य हयं राजन्ग्रहीतुं सम्प्रचक्रमुः ॥ १४.७४.३ ॥

背缚箭囊的车士,驾着装饰精美的良马,王啊,将马团团围住,开始去捉拿它。

14.74.4

ततः किरीटी सञ्चिन्त्य तेषां तत्र चिकीर्षितम् ।
वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः ॥ १४.७४.४ ॥

于是,制服敌人的戴冠者阿周那考虑了他们在那里的意图,先以安抚之言阻止了那些英雄。

14.74.5

तदनादृत्य ते सर्वे शरैरभ्यहनंस्तदा ।
तमोरजोभ्यां संछन्नांस्तान्किरीटी न्यवारयत् ॥ १४.७४.५ ॥

他们无视此言,便都以箭射击;被黑暗与尘土笼罩的他们,被戴冠者阿周那制止了。

14.74.6

तानव्रवीत्ततो जिष्णुः प्रहसन्निव भारत ।
निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव च ॥ १४.७४.६ ॥

于是,婆罗多啊,胜利者阿周那仿佛微笑着对他们说:“你们不知正法者,回去吧;生命本身便是善。”

14.74.7

स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः ।
हतबान्धवा न ते पार्त हन्तव्याः पार्थिवा इति ॥ १४.७४.७ ॥

那位英雄正要前进,被法王所阻止。啊,普利塔之子,亲属已被杀死的诸王,不应被你杀害。

14.74.8

स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः ।
तान्निवर्तध्वमित्याह न न्यवर्तन्ति चापि ते ॥ १४.७४.८ ॥

他听了智慧的法王的话后,对他们说:“回去吧。”然而他们并没有回去。

14.74.9

ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे ।
विनद्य शरजालेनि प्रजहास धनंजयः ॥ १४.७४.९ ॥

于是,达难闍耶在战斗中向特里迦尔多王苏利耶跋摩大吼,以箭网将其包围,并放声大笑。

14.74.10

ततस्ते रथघोपेण रथनेमिस्वनेन च ।
पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन् ॥ १४.७४.१० ॥

于是他们以战车的隆隆声和车轮的轧轧声充满四方,向达难闍耶冲去。

14.74.11

सूर्यवर्मा ततः पार्ते शराणां नतपर्वणाम् ।
शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन् ॥ १४.७४.११ ॥

于是苏利耶跋摩展示其轻兵器技艺,向普利塔之子射出数百支弯曲节的箭,啊,诸王之主。

14.74.12

तथैवान्ये महेष्वासा ये च तस्यानुयायिनः ।
मुमुचुः शरवर्षाणि धनंजयवधैषिणः ॥ १४.७४.१२ ॥

同样,跟随他的其他大弓箭手,渴望杀死达难闍耶,也倾泻出箭雨。

14.74.13

स ताञ्ज्यामुखनिर्मुक्तैर्बहुभिः सुबहूञ्शरान् ।
चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा ॥ १४.७४.१३ ॥

君王啊,般度之子以众多箭矢斩断了从弓弦射出的那许多箭,那时你的战士们倒在了地上。

14.74.14

केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा ।
युयुधे भ्रातुरर्थाय पाण्डवेन यशस्विना ॥ १४.७४.१४ ॥

然而光彩照人的克图婆曼,他那年轻的幼弟,为了哥哥与名声显赫的般度之子交战。

14.74.15

तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे ।
अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा ॥ १४.७४.१५ ॥

在战场上看见克图婆曼向自己冲来,杀敌英雄的毗跋蹉(阿周那)便以利箭射向他。

14.74.16

केतुवर्मण्यभिहते धृतवर्मा महारथः ।
रथेनाशु समुत्पत्य शरैर्जिष्णुमवाकिरत् ॥ १४.७४.१६ ॥

克图婆曼受伤后,大车将德里塔婆曼迅速跃下战车,以箭雨倾注在胜利者(阿周那)身上。

14.74.17

तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान् ।
गुडाकेशो महादेजा बालस्य धृतवर्मणः ॥ १४.७४.१७ ॥

看到他那份敏捷,强大而极其光辉的古达克舍(阿周那)大为欣喜——那便是德里塔婆曼之子这位少年的勇武。

14.74.18

न संदधानं ददृशे नाददानं च तं तदा ।
किरन्तमेवं स शरान्ददृशे पाकशासनिः ॥ १४.७४.१८ ॥

那时人们既看不到他搭箭,也看不到他取箭;在因陀罗之子(阿周那)眼中,他只是一个不断射出箭矢的人。

14.74.19

स तु तं पूजयामास धृतवर्माणमाहवे ।
मनसा तु मुहूर्तं वै रणे समभिहर्षयन् ॥ १४.७४.१९ ॥

他在战斗中心中暂时敬重持甲,并在战场上使其大为欢喜。

14.74.20

न विव्याध रणे क्रुद्धः कुन्तीपुत्रो हसन्निव ।
सौभद्रस्येव तत्कर्म दृष्ट्वा बालस्य विस्मितः ॥ १४.७४.२० ॥

昆提之子虽然愤怒,却未在战斗中射伤他,仿佛在笑;他惊叹于那少年的行为,如同苏跋陀罗之子一般。

14.74.21

तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव ।
प्रीतिपूर्वं महाबाहुः प्राणैर्न व्यपरोपयत् ॥ १४.७४.२१ ॥

库卢英雄面带微笑,怀着慈爱,那大臂者并未夺取他的性命,他如愤怒的毒蛇一般。

14.74.22

स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा ।
धृतवर्मा शरं दीप्तं मुमोच विजये तदा ॥ १४.७४.२२ ॥

在无限光辉的普利塔之子的保护下,持甲随即向毗阇耶射出一支燃烧的箭。

14.74.23

स तेन विजयस्तूर्णमासीद्विद्धः करे भृशम् ।
मुमोच गाण्डिवं मोहात्तत्पपाताथ भूतले ॥ १४.७४.२३ ॥

毗阇耶的手很快被那支箭深深刺中;他因迷惑而松开了甘狄拔弓,弓落在地上。

14.74.24

धनुषः पततस्तस्य सव्यसाचिकराद्विभो ।
बभूव सदृशं रूपं शक्रचापस्य भारत ॥ १४.७४.२४ ॥

啊,大力者,婆罗多!从萨维亚萨钦手中落下的那张弓的形状,变得如同因陀罗之弓。

14.74.25

तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिवः ।
चकार सस्वनं हासं धृतवर्मा महाहवे ॥ १४.७४.२५ ॥

那把神圣的大弓落地时,国王Dhṛtavarman在大战中大声笑了起来。

14.74.26

ततो रोषार्दितो जिष्णुः प्रमृज्य रुधिरं करात् ।
धनुरादत्त तद्दिव्यं शरवर्षैर्ववर्ष च ॥ १४.७४.२६ ॥

于是,被愤怒折磨的胜利者阿周那擦去手上的血,拿起那把神弓,降下箭雨。

14.74.27

ततो हलहलाशब्दो दिवस्पृगभवत्तदा ।
नानाविधानां भूतानां तत्कर्माणि प्रशंसताम् ॥ १४.७४.२७ ॥

于是喧嚣之声直冲云霄,各类生灵都赞颂他的功业。

14.74.28

ततः सम्प्रेक्ष्य संक्रुद्धं कालान्तकयमोपमम् ।
जिष्णुं त्रैगर्तका योधाः परीताः पर्यवारयन् ॥ १४.७४.२८ ॥

于是,特里伽尔塔战士们看到愤怒的阿周那,宛如时间终结时的死神与阎摩,便将他从四面包围。

14.74.29

अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः ।
परिवव्रुर्गुडाकेशं तत्राक्रुद्ध्यद्धनंजयः ॥ १४.७४.२९ ॥

于是,德里塔瓦尔曼的部下前来保护,将古达克舍包围;在那里,达南遮耶愤怒了。

14.74.30

ततो योधाञ्जघानाशु तेषां स दश चाष्ट च ।
महेन्द्रवज्रप्रतिमैरायसैर्बहुभिः शरैः ॥ १४.७४.३० ॥

随后,他迅速以许多如因陀罗大雷电般的铁箭,射倒了其中十八名战士。

14.74.31

तान्सम्प्रभग्नान्सम्प्रेक्ष्य त्वरमाणो धनंजयः ।
शरैराशीविषाकारैर्जघान स्वनवद्धसन् ॥ १४.७४.३१ ॥

丈夫见其大败,财主急速以如毒蛇般的箭射击他们,一边怒吼一边大笑。

14.74.32

ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः ।
दिशोऽभिदुद्रुवू राजन्धनंजयशरार्दिताः ॥ १४.७४.३२ ॥

大王啊,那些心志崩溃的三摩诃罗大车战士,被财主的箭所苦,四散奔逃。

14.74.33

हतावशिष्टा हि पराः पार्थं दृष्टपराक्रमाः ।
तमूचुः पुरुषव्याघ्रं संशप्तकनिषूदनम् ॥ १४.७४.३३ ॥

幸存者见其威勇,对人中猛虎、摧毁三誓者的普利塔之子说道。

14.74.34

तवास्म किंकराः सर्वे सर्वे वै वशगास्तव ।
आज्ञापयस्वः नः पार्थ प्रह्वान्प्रेष्यानवस्थितान्।
करिष्यामः प्रियं सर्वं तव कौरवनन्दन ॥ १४.७४.३४ ॥

我等皆是你的仆从,皆受你的掌控。普利塔之子啊,请发号施令。我们恭敬地侍立,凡你所喜,我们都将去做,俱卢之喜啊。

14.74.35

एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा ।
जीवितं रक्षत नृपाः शासनं प्रतिगृह्यताम् ॥ १४.७४.३५ ॥

闻此言,他于是对众人说:“诸王啊,保全你们的性命,接受我的命令吧。”