Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.75

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.75.1

प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः ।
भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः ॥ १४.७५.१ ॥

那匹最好的马来到普拉格约提沙,在那里游荡。于是擅长战斗的婆伽陀之子出城而来。

14.75.2

सहयं पाण्डुपुत्रं तु विषयान्तमुपागतम् ।
युयुधे भरतश्रेष्ठ यज्ञदत्तो महीपतिः ॥ १४.७५.२ ॥

婆罗多族最优秀的人啊,当般度之子连同马匹抵达国境时,国王祭授与他交战。

14.75.3

सोभिनिर्याय नगराद्भगदत्तसुतो नृपः ।
अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ ॥ १४.७५.३ ॥

婆伽陀之子那位国王走出城市,打击迎面而来的马,然后面向城市返回。

14.75.4

तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा ।
गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत् ॥ १४.७५.४ ॥

婆罗多族的大臂英雄看见他,便挥动甘蒂拔神弓,迅速而突然地向他冲去。

14.75.5

ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः ।
हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत् ॥ १४.७५.५ ॥

于是国王被甘蒂拔神弓射出的箭所迷惑,放开了那匹马,那位英雄便冲向了般度之子。

14.75.6

पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः ।
आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया ॥ १४.७५.६ ॥

那位最优秀的国王再次进入城中,披甲而渴望战斗,骑上最好的象,又出城而去。

14.75.7

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
दोधूयता चामरेण श्वेतेन च महारथः ॥ १४.७५.७ ॥

那位大车战士(国王),头顶撑着白伞,身旁挥动着白色牦牛尾拂尘。

14.75.8

ततः पार्थं समासाद्य पाण्डवानां महारथम् ।
आह्वयामास बीभत्सुं बाल्यान्मोहाच्च संयुगे ॥ १४.७५.८ ॥

随后,他走近般遮族的大车战士、般度子弟的帕尔特(阿周那),因幼稚与迷惑,在战斗中挑战毗卑娑(阿周那)。

14.75.9

स वारणं नगप्रख्यं प्रभिन्नकरटामुखम् ।
प्रेषयामास संक्रुद्धः श्वेताश्वं प्रति पार्थिवः ॥ १४.७५.९ ॥

那位国王大怒,将那头如山岳般、颞颥与面部流淌着发情液的大象,派向白马主人(阿周那)。

14.75.10

विक्षरन्तं महामेघं परवारणवारणम् ।
शस्त्रवत्कल्पितं सङ्ख्ये विवशं युद्धदुर्मदम् ॥ १४.७५.१० ॥

那头如大云般流淌、能阻挡敌象、在战斗中被装饰如兵器、不受控制、因战斗狂热而癫狂的大象。

14.75.11

प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः ।
तदाऽङ्कशेन विबभावुत्पतिष्यन्निवाम्बरम् ॥ १४.७५.११ ॥

那位国王以象钩驱策,这头大力的象闪耀着,仿佛要跃入天空。

14.75.12

तमापतन्तं सम्प्रेक्ष्य क्रुद्धो राजन्धनंजयः ।
भूमिष्ठो वारणगतं योधयामास भारत ॥ १४.७५.१२ ॥

见他冲来,愤怒的财主(阿周那)站在地上,与坐在象背上的那人交战,婆罗多啊,国王。

14.75.13

यज्ञदत्तस्ततः क्रुद्धो मुमोचाशु धनंजये ।
तोमरानग्निसङ्काशाञ्शलभानिव वेगितान् ॥ १४.७५.१३ ॥

于是愤怒的耶冉陀多迅速向持财(阿周那)投掷如火般的长矛,它们如蝗虫般疾飞。

14.75.14

अर्जुनस्तानसम्प्राप्तान्गाण्डीवप्रभवैः शरैः ।
द्विधा त्रिधा च चिच्छेद खगमान्खगमैस्तदा ॥ १४.७५.१४ ॥

阿周那在它们到达之前,以出自甘狄拔弓的箭将其截成两段和三段,犹如飞鸟击落飞鸟。

14.75.15

स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः ।
इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति ॥ १४.७५.१५ ॥

巴伽达多之子见长矛如此被斩断,便迅速连续向般度之子射出箭矢。

14.75.16

ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान् ।
प्रेषयामास संक्रुद्धो भगदत्तात्मजं प्रति ॥ १४.७५.१६ ॥

于是阿周那大怒,极速向巴伽达多之子射出金羽、直飞的箭矢。

14.75.17

स तैर्विद्धो महातेजा यज्ञदत्तो महामृधे ।
भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः ॥ १४.७५.१७ ॥

大光辉的耶冉陀多被箭射中,在大战中重伤倒地;然而他的意识并未离他而去。

14.75.18

ततः स पुनरारुह्य वारणप्रवरं रणे ।
अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति ॥ १४.७५.१८ ॥

随后,他再次登上最好的象,在战场上沉着不乱,渴望胜利,向胜利者(阿周那)射出箭矢。

14.75.19

तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान् ।
प्रेषयामास संक्रुद्धो ज्वलितज्वलनोपमान् ॥ १४.७५.१९ ॥

于是愤怒的胜者(阿周那)向他射出如刚释放的毒蛇、如熊熊烈火般的箭矢。

14.75.20

स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ ।
हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा ॥ १४.७५.२० ॥

那头大象被这些箭射中,流着血,此时如同群山之王喜马拉雅,泉水涌流,闪闪发光。