Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 14.8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

14.8.1

गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः ।
तप्यते यत्र भगवांस्तपो नित्यमुपापतिः ॥ १४.८.१ ॥

ヒマラヤの背にムンジャヴァットという名の山があり、そこで尊き ウマーの主は常に苦行をしておられる。

14.8.2

वनस्पतीनां मूलेषु शृङ्गेषु विषमेषु च ।
गुहासु शैलराजस्य यथाकामं यथासुखम् ॥ १४.८.२ ॥

木の根元、険しい峰、山王の洞窟で、望むままに、心地よいままに。

14.8.3

उमासहायो भगवान्यत्र नित्यं महेश्वरः ।
आस्ते शूली महातेजा नानाभूतगणावृतः ॥ १४.८.३ ॥

ウマーを伴う尊きマヘーシュヴァラ、三叉戟を持つ大光輝の主は、多くの精霊の群れに囲まれ、常にそこに住まわれる。

14.8.4

तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा ।
यमश्च वरुणश्चैव कुबेरश्च सहानुगः ॥ १४.८.४ ॥

そこにはルドラ神群、サーディヤ神群、ヴィシュヴァデーヴァ、ヴァスの神々、ヤマ、ヴァルナ、そして従者を伴うクベーラがいる。

14.8.5

भूतानि च पिशाचाश्च नासत्यावपि चाश्विनौ ।
गन्धऱ्वाप्सरसश्चैव यक्षा देवर्षयस्तथा ॥ १४.८.५ ॥

精霊とピシャーチャ、ナーサティヤ神とアシュヴィン双神、ガンダルヴァとアプサラス、ヤクシャと神仙もまたそこにいる。

14.8.6

आदित्या मरुतश्चैव यातुधानाश्च सर्वशः ।
उपासन्ते महात्मानं बहुरूपमुपापतिम् ॥ १४.८.६ ॥

アーディティヤ神群、マルト神群、そしてヤートゥダーナたちは、あらゆる仕方で、多様な姿をもつ大いなる魂のウマーの主を礼拝する。

14.8.7

रमते भगवांस्तत्र कुबेरानुचरैः सह ।
विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते ॥ १४.८.७ ॥

そこで尊きお方はクベーラの従者たちと戯れ楽しむ。彼らは醜く歪んだ姿で遊ぶ、大地の主よ。

14.8.8

श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः ।
न रूपं शक्यते तस्य संस्थानं वा कदाचन।
निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः ॥ १४.८.८ ॥

彼は輝きに燃え、その光は昇る太陽のようにまばゆい。普通の肉眼を持つどんな生き物も、その姿や形を言い表すことは決してできない。

14.8.9

नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः ।
न जारा क्षुत्पिपासे वा न मृत्युर्न भयं नृप ॥ १४.८.९ ॥

そこには熱さも寒さもなく、風も太陽もない。老いも飢えも渇きもなく、死もなく、恐れもない、王よ。

14.8.10

तस्य शैलस्य पार्श्वेषु सर्वेषु जयतांवर ।
धातवो जातरूपस्य रश्मयः सवितुर्यथा ॥ १४.८.१० ॥

その山のあらゆる斜面で、勝利者の中の最良の者よ、金の鉱脈が太陽の光線のように輝いている。

14.8.11

रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः ।
चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः ॥ १४.८.११ ॥

それらは、偉大なるクベーラの喜ぶことをしようと願い、武器を振り上げたクベーラの助手たちに守られている、王よ。

14.8.12

तत्र गत्वा समन्वास्य महायोगेश्वरं शिवम् ।
कुरु प्रणामं राजर्षे भक्त्या परमया यतुः ॥ १४.८.१२ ॥

そこへ行き近づいて、王仙よ、大ヨーガの主シヴァに至上の信愛をもって、努めて礼拝せよ。

14.8.13

तस्मै भगवते कृत्वा नमः शर्वाय वेधसे ।
एभिस्तं नामभिर्देवं सर्वविद्याधरं स्तुहि ॥ १४.८.१३ ॥

祝福されたシャルヴァ、創造主に礼拝し、これらの名によって、あらゆる明智の主であるその神を讃えよ。

14.8.14

रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे ।
कपर्दिने करालाय हर्यक्ष्णे वरदाय च ॥ १४.८.१४ ॥

ルドラ、青い喉の者、美しき者、輝く者、結髪の者、恐ろしき者、赤褐色の目の者、恵みを与える者、そして。

14.8.15

त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च ।
याम्यायाव्यक्तरूपाय सद्वृत्ते शङ्कराय च ॥ १४.८.१५ ॥

三眼の者、プーシャンの歯を砕いた者、ヴァーマナ、吉祥なる者、そして南方の主、不顕現の姿の者、善行の者、シャンカラ、そして。

14.8.16

क्षेम्याय हरिकेशाय स्थाणवे पुरुषाय च ।
हरिनेत्राय मुण्डाय क्रुद्धायोत्तरणाय च ॥ १४.८.१६ ॥

安穏なる者、褐色の髪の者、不動の者、プルシャ、そして褐色の目の者、剃髪の者、怒れる者、渡し守の者、そして。

14.8.17

भास्वराय सुतीर्थाय देवदेवाय रंहसे ।
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ॥ १४.८.१७ ॥

輝く者、善き渡し場の者、神々の神、疾き者、ターバンを巻く者、美しき顔の者、千眼の者、施与の者。

14.8.18

गिरिशाय प्राशान्ताय यतये चीरवाससे ।
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च ॥ १४.८.१८ ॥

山の主、完全に静まれる者、苦行者、樹皮の衣をまとう者、ビルヴァの杖を持つ成就者、そしてあらゆる杖を執る者。

14.8.19

मृगव्याधाय महते धन्विनेऽथ भवाय च ।
वराय सोमवक्त्राय सिद्धमन्त्राय चक्षुषे ॥ १४.८.१९ ॥

鹿の狩人、偉大なる者、弓手、そしてバヴァに、最上の者、月の顔の者、真言成就の眼に礼拝。

14.8.20

हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ।
लेलिहानाय गोष्ठाय सिद्धमन्त्राय वृष्णये ॥ १४.८.२० ॥

王よ、金の腕を持つ者、猛き者、方角の主、炎を舐める者、集会に住む者、真言成就のヴリシュニに礼拝。

14.8.21

पशूनां पतये चैव भूतानां पतये नमः ।
वृषाय मातृभक्ताय सेनान्ये मध्यमाय च ॥ १४.८.२१ ॥

家畜の主と生類の主に礼拝。雄牛、母を敬う者、軍の司令官、そして中なる者に。

14.8.22

अभिवक्त्राय पतये सर्वदेवमयाय च ।
स्रुवहस्ताय पतये धन्विने भार्गवाय च।
अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह ॥ १४.८.२२ ॥

あらゆる方角に顔を向け、全神からなる主に礼拝。スルヴァの杓を手にする主、弓手なるバルグの末裔に礼拝。不生の者、黒い眼の者、三眼の者に礼拝。

14.8.23

तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च ।
महात्मने चानङ्गाय सर्वाय पतये विशाम् ॥ १४.८.२३ ॥

鋭い牙の者、猛き者、顔がヴァイシュヴァーナラ(火)の者に。偉大な魂、無身の者、全なる者、民の主に礼拝。

14.8.24

तथा रुद्राय पतये पृथवे कृत्तिवाससे ।
विलोहिताय दीप्ताय दीप्ताक्षाय महौजसे।
वसुरेतःसुवपुषे पृथवे कृत्तिवाससे ॥ १४.८.२४ ॥

同じく、ルドラの主、広大なる者、皮衣をまとう者に礼拝。赤き者、輝く者、輝く眼の者、大いなる力の者、財を種とする者、美しい身体の者、広大なる者、皮衣をまとう者に礼拝。

14.8.25

कपालमालिने चैव सुवर्णमुकुटाय च ।
महादेवाय कृष्णाय त्र्यम्बकायानघाय च ॥ १४.८.२५ ॥

髑髏の首飾りをつける者、金の冠をいただく者、マハーデーヴァ、黒き者、三眼の者、無垢なる者に。

14.8.26

क्रोधनायानृशंसाय मृदवे बाहुशालिने ।
दण्डिने तप्ततपसे तथैवाक्रूरकर्मणे ॥ १४.८.२६ ॥

怒る者にして慈悲深き者、柔和な者、強き腕の者、杖を持つ者、灼熱の苦行者、そして残酷ならぬ行いの者に。

14.8.27

सहस्रशिरसे चैव सहस्रचरणाय च ।
नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे ॥ १४.८.२७ ॥

千の頭と千の足を持ち、スヴァダーを姿とする者、多様な姿の者、牙を持つ者に礼拝する。

14.8.28

पिनाकिनं महादेवं महाभोगिनमव्ययम् ।
त्रिशूलहस्तं वरदं त्र्यम्बकं भुवनेश्वरम् ॥ १४.८.२८ ॥

ピナーカの弓を持つマハーデーヴァ、大蛇を纏う者、不滅の者、手に三叉戟を持つ者、恩恵を与える者、三眼の者、世界の主に。

14.8.29

त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् ।
प्रभवं सर्वभूतानां दातारं धरणीधरम् ॥ १४.८.२९ ॥

三城を滅ぼす者、三眼の者、三界の主、大いなる力の者、一切の存在の源、与える者、大地を支える者に。

14.8.30

ईशानं शङ्करं सर्वं शिवं विश्वेश्वरं भवम् ।
उमापतिं पशुपतिं विश्वरूपं महेश्वरम् ॥ १४.८.३० ॥

イーシャーナ、シャンカラ、一切なる者、シヴァ、宇宙の主、バヴァ、ウマーの夫、万物の主、宇宙の姿の者、偉大なる主に。

14.8.31

विरूपाक्षं दशभुजं विष्यन्दं गोवृषध्वजम् ।
उग्रं स्थाणुं शिवं रौद्रं शर्वं गौरीशमीश्वरम् ॥ १४.८.३१ ॥

ヴィルーパークシャ、十臂の者、ヴィシュヤンダ、牛旗の者、猛き者、不動者、シヴァ、恐ろしき者、シャルヴァ、ガウリーの主、至高の主。

14.8.32

शितिकण्ठमजं शुक्रं पृथुं पृथुहरं वरम् ।
विश्वरूपं विरूपाक्षं बहुरूपमुपापतिम् ॥ १४.८.३२ ॥

青い喉の者、不生者、清浄なる者、広大なる者、広大を滅ぼす者、最勝者、一切形の者、三眼の者、多形の者、ウマーの主。

14.8.33

प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम् ।
शरण्यं शरणं याहि महादेवं चतुर्मुखम् ॥ १४.८.३३ ॥

首を垂れ、アナンガの肢体を滅ぼした神に礼拝せよ。帰依に値する大神、四面の神に帰依せよ。

14.8.34

विरोचमानं वपुषा दिव्याभरणभूषितम् ।
अनाद्यन्तमजं शंभुं सर्वव्यापिनमीश्वरम् ॥ १४.८.३४ ॥

身体は輝き、天上の装身具で飾られ、始まりも終わりもなく、不生、シャンブ、遍在する主。

14.8.35

निस्त्रैगुण्यं निरुद्वेगं निर्मलं निधिमोजसाम् ।
प्रणम्य प्राञ्जलिः शर्वं प्रयामि शरणं हरम् ॥ १४.८.३५ ॥

三徳を超え、動揺なく、清浄で、威光の宝庫なる方。合掌してシャルヴァに礼拝し、ハラに帰依しに参ります。

14.8.36

सम्मान्यं निश्चलं नित्यमकारुण्यमलेपनम् ।
अध्यात्मवेदमासाद्य प्रयामि शरणं मुहुः ॥ १४.८.३६ ॥

尊ぶべく、不動で、永遠なる方。慈悲はなくとも汚れず。自己の知に至り、幾度も帰依いたします。

14.8.37

यस्य नित्यं विदुः स्थानं मोक्षमध्यात्मचिन्तकाः ।
योगीशं तत्वमार्गस्थाः कैवल्यं पदमक्षरम् ॥ १४.८.३७ ॥

自己を思索する者たちは、常にその住処を解脱として知る。真理の道に立つヨーギーの主、カイヴァリヤ、不滅の境地。

14.8.38

यं विदुः सङ्गिनं मुक्ताः सामान्यं समदर्शिनः ।
तं प्रपद्ये जगद्योनिमयोनिं निर्गुणात्मकम् ॥ १४.८.३८ ॥

解脱者と平等に見る者たちが、伴侶であり普遍であると知る方、世界の源、源なき方、性質を超えた本性の方に、私は帰依する。

14.8.39

असृजद्यस्तु भूतादीन्सप्त लोकान्सनातनान् ।
स्थितः सत्योपरि स्थाणुस्तं प्रपद्ये सनातनम् ॥ १४.८.३९ ॥

元素の存在と七つの永遠の世界を創造し、真理の上に不動の柱として立つ方。その永遠なる方に私は帰依する。

14.8.40

भक्तानां सुलभं तं हि दुर्लभं दूरपातिनाम् ।
अदूरस्थममुं देवं प्रकृतेः परतः स्थितम् ॥ १४.८.४० ॥

信者にとって彼は得やすく、遠く離れた者には得がたい。近くにいるその神は、プラクリティを超えて立つ。

14.8.41

नमामि सर्वलोकस्थं व्रजामि शरणं शिवम् ।
एवं कृत्वा नमस्तस्मै महादेवाय रंहसे।
महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि ॥ १४.८.४१ ॥

あらゆる世界に住むシヴァに礼拝し、その庇護を求める。このように偉大な神に速やかに礼拝すれば、大地の主よ、あなたはその黄金を得るであろう。

14.8.42

लभन्ते गाणपत्यं च तदेकाग्रा हि मानवाः ।
किं पुनः स्वर्णिभाण्डानि तस्मात्त्वं गच्छ मा चिरं ॥ १४.८.४२ ॥

心を一つにした人々はガナパティの境地さえ得る。ましてや黄金の器は言うまでもない。だから行け、遅れてはならない。

14.8.43

महत्तरं हि ते लाभं हस्त्यश्वोष्ट्रादिभिः सह ।
सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः ॥ १४.८.४३ ॥

象や馬、ラクダなどとともに、あなたはさらに大きな利益を得るだろう。あなたの者たちはそこへ行き、金を持ち帰るがよい。

14.8.44

इत्युक्तः स वचस्तस्य चक्रे कारन्धमात्मजः ।
गङ्गाधरं नमस्कृत्य लब्धवान्धनमुत्तमम् ॥ १४.८.४४ ॥

そう言われて、その息子カーランダマは父の言葉に従った。ガンガーダラ(シヴァ)に礼拝して、最上の富を得た。

14.8.45

कुबेर इव तत्प्राप्य महादेवप्रसादतः ।
ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् ॥ १४.८.४५ ॥

マハーデーヴァの恩寵によってその富を得た彼はクベーラのようになり、そして祭祀のすべての準備を人間離れした規模で整えた。

14.8.46

सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः ।
शालाश्च सर्वसम्भारांस्तत्र संवर्तशासनात् ॥ १४.८.४६ ॥

そこで職人たちは金の器を作り、サンヴァルタの命により、そこに広間とあらゆる資材を整えた。

14.8.47

बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः ।
समृद्धिमति देवेभ्यः सन्तापमकरोद्भृशम् ॥ १४.८.४७ ॥

しかしブリハスパティは、マルッタ王の大いなる繁栄を聞いて、神々に深い苦悩を引き起こした。

14.8.48

सन्तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम् ।
भविष्यति हि मे शत्रुः संवर्तो वसुमानिति ॥ १४.८.४८ ॥

苦悩に苛まれ、彼は顔色が青ざめ、ひどくやつれた。「富める者サンヴァルタは必ず私の敵となるだろう」と彼は思った。

14.8.49

तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम् ।
अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा ॥ १४.८.४९ ॥

それを聞いて深く苦しんだ神々の王インドラは、不死の神々に囲まれてブリハスパティのもとへ行き、この言葉を述べた。