摩诃婆罗多 · 章 14.82
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.82.1
किमागमनकृत्यं ते कौरव्यकुलनन्दिनि ।
मणलूरपतेर्मातुस्तथैव च रणाजिरे ॥ १४.८२.१ ॥
啊,库鲁家族的喜悦,你前来的目的是什么?无论是为了曼卢罗之主的母亲,还是同样在战场上?
14.82.2
कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे ।
मम वा चपलापाङ्गि कच्चित्वं शुभमिच्छसि ॥ १४.८२.२ ॥
啊,蛇王之女,你是否希望这位国王或我平安?啊,眼神灵动的人,你是否希望吉祥?
14.82.3
कच्चित्ते पृथुलश्रोणि नाप्रियं प्रियदर्शने ।
अकार्षमहमज्ञानादयं वा बभ्रुवाहनः ॥ १४.८२.३ ॥
啊,宽臀的人,啊,外貌可爱的人,是我出于无知做了令你不快的事吗,还是这个巴布鲁瓦诃那做了?
14.82.4
कच्चिन्नु राजपूत्री ते सपत्नी चैत्रवाहनी ।
चित्राङ्गदा वरारोहा नापराध्यति किञ्चन ॥ १४.८२.४ ॥
公主啊,你的同夫人奇特瓦哈尼,美臀的奇特兰伽达,是否对你有任何冒犯?
14.82.5
तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ ।
न मे त्वमपराद्धोसि न हि मे बभ्रुवाहनः।
न जनित्री तथाऽस्येयं मम यो प्रेष्यवत्थिता ॥ १४.८२.५ ॥
于是蛇王之女笑着对他说:你没有冒犯我,巴布鲁瓦诃那也没有;站在我面前如同婢女的这位,也不是他的母亲。
14.82.6
श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम् ।
न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये ॥ १४.८२.६ ॥
请听我是如何、为何做了这一切。不要对我生气;我低头恳求你。
14.82.7
त्वत्प्रियार्थं हि कौरव्य कृतमेतन्मया विभो ।
यत्तच्छृणु महाबाहो निखिलेन धनंजय ॥ १४.८२.७ ॥
啊,俱卢之后,主啊,我为了你的喜悦而做了此事。大臂者、财胜啊,请听我全部所为。
14.82.8
महाभारतयुद्धे यत्त्वया शान्तनवो नृपः ।
अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता ॥ १४.८२.८ ॥
在摩诃婆罗多大战中,你不义地杀了珊塔努之子那位王。帕尔塔啊,为此已行此赎罪。
14.82.9
न हि भीष्मस्त्वया वीर युद्ध्यमानो हि पातितः ।
शिखण्डिना तु संयुक्तस्तमाश्रित्य हतस्त्वया ॥ १४.८२.९ ॥
英雄啊,并非你在他作战时击倒了毗湿摩。你与尸犍丁联合,依靠他,才将他杀死。
14.82.10
तस्य शान्तिमकृत्वा त्वं त्यजेथा यदि जीवितम् ।
कर्मणा तेन पापेन पतेथा निरये ध्रुवम्।
एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि ॥ १४.८२.१० ॥
若你不为他行平息之礼而舍弃生命,必因那罪行坠入地狱。此平息之礼已依法行了,你也已得子嗣等福报。
14.82.11
वसुभिर्वसुधापाल गङ्गया च महामते ।
पुरा हि श्रुतमेतत्ते वसुभिः कथितं मया ॥ १४.८२.११ ॥
大智的地上守护者啊,你以前已从诸婆苏与恒河处听过此事。诸婆苏曾向我讲述,我也已告诉你。
14.82.12
गङ्गायास्तीरमाश्रित्य हते शान्तनवे नृप ।
आप्लुत्य देवा वसवः समेत्य च महानदीम्।
इदमूचुर्वचो घोरं भागीरथ्या मते तदा ॥ १४.८२.१२ ॥
啊,国王,珊塔努之子被杀之后,诸婆苏神依托于恒河岸边,在大河中沐浴,聚集在一起,于是依照婆吉罗提的意见说出了这些可怕的话。
14.82.13
एष शान्तनवो भीष्मो निहतः सव्यसाचिना ।
अयुद्ध्यमानः सङ्ग्रामे संसक्तोऽन्येन भामिनि ॥ १४.८२.१३ ॥
女士啊,这位山塔努之子毗湿摩被萨维亚萨钦(阿周那)杀死,他在战斗中并未交战,而是与另一人纠缠。
14.82.14
तदनेनानुषङ्गेण वयमद्य धनञ्जयम् ।
शापेन योजयामेति तथाऽस्त्विति च साऽब्रवीत् ॥ १४.८२.१४ ॥
因此,通过这一后果,我们今日要以诅咒束缚财天(阿周那),她说:“就这样吧。”并如此说道。
14.82.15
तदहं पितुरावेद्य प्रविश्य व्यथितेन्द्रिया ।
अभवं स च तच्छ्रुत्वा विषादमगमत्परम् ॥ १४.८२.१५ ॥
于是我告知父亲并进入,我的感官受到扰乱。他听后陷入极大的忧伤之中。
14.82.16
पिता तु मे वसून्गत्वा त्वदर्थे समयाचत ।
पुनः पुनः प्रसाद्यैतांस्त एनमिदमब्रुवन् ॥ १४.८२.१६ ॥
然而我父亲前往诸婆苏那里,为你一再恳求;多次安抚他们之后,他们对他这样说。
14.82.17
पुत्रस्तस्य महाभाग मणलूरेश्वरो युवा ।
स एनं रणमध्यस्थः शरैः पातयिता भुवि ॥ १४.८२.१७ ॥
他的儿子,啊大福者,是摩那卢罗的年轻君主;他将站在战斗中央,用箭把他射倒在地。
14.82.18
एवं कृते स नागेन्द्र मुक्तशापो भविष्यति ।
गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः ॥ १४.८२.१८ ॥
如此行事,啊蛇王,他将从诅咒中解脱。被诸婆苏告知“去吧”之后,他向我宣告了这些。
14.82.19
तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः ।
न हि त्वां देवराजोऽपि समरेषु पराजयेत् ॥ १४.८२.१९ ॥
听了这话,你已经由我使你脱离了那个诅咒。即使天神之王也无法在战斗中击败你。
14.82.20
आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः ।
न हि दोषो मम मतः कथं वा मन्यसे विभो ॥ १४.८२.२० ॥
自我被视为儿子;因此你在此被他击败。我的过错不被认为如此。啊,主人,你怎么看?
14.82.21
इत्येवमुक्तो विजयः प्रसन्नात्माऽब्रवीदिदम् ।
सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि ॥ १४.८२.२१ ॥
如此被说之后,心中欢喜的毗阇耶说道:啊,女神,你所做的一切都令我非常欣喜。
14.82.22
इत्युक्त्वा सोऽब्रवीत्पुत्रं मणलूरपतिं जयः ।
चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तदा ॥ १४.८२.२२ ॥
说完这话,阇耶(阿周那)便对他的儿子——摩尼卢罗之主说话,那时俱卢族的女儿奇特罗安伽陀正在倾听。
14.82.23
युधिष्ठिरस्याश्वमेधः परिचैत्रीं भविष्यति ।
तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप ॥ १४.८२.२३ ॥
坚战的马祭将在吠舍佉月举行。啊,国王,你应当与你的大臣以及你的两位母亲一同前往那里。
14.82.24
इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः ।
उवाच पितरं धीमानिदमस्राविलेक्षणः ॥ १४.८२.२४ ॥
普利塔之子如此说后,智慧的国王巴卜卢瓦哈那眼中含泪,对他的父亲说了这番话。
14.82.25
उपयास्यामि धर्मज्ञ भवतः सासनादहम् ।
अश्वमेधे महायज्ञे द्विजातिपरिवेषकः ॥ १४.८२.२५ ॥
精通法者啊,遵从你的命令,我将前往;在大马祭中,我将为再生族服务。
14.82.26
मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम् ।
भार्याभ्यां सह धर्मज्ञ माभूत्तेऽत्र विचारणा ॥ १४.८२.२६ ॥
但为了对我施恩,请你与两位妻子进入你自己的城市。精通法者啊,此事你不必犹豫。
14.82.27
उषित्वेह निशामेकां सुखं स्वभवने प्रभो ।
पुनरश्वानुगमनं कर्तासि जयतांवर ॥ १४.८२.२७ ॥
主公啊,在你自己的宫殿里舒适地住一夜之后,你将再次跟随马匹前行。胜利者中最优秀的人啊。
14.82.28
इत्युक्ताः स तु प्रत्रेण तदा वानरकेतनः ।
स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम् ॥ १४.८२.२८ ॥
儿子如此说后,那时以猴旗为标志的贡蒂之子微笑着对奇德兰伽达之子说道。
14.82.29
विदितं ते महाबाहो यथा दीक्षां चराम्यहम् ।
न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन ॥ १४.८२.२९ ॥
大臂者啊,你知道我正在持守誓戒。所以,广目者啊,此刻我不会进入你的城市。
14.82.30
यथाकामं व्रजत्येष यज्ञियाश्वो नरर्षभ ।
स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम ॥ १४.८२.३० ॥
人中之牛啊,这匹祭马随心所欲地前行。愿你吉祥。我将离去,因为此处没有我停留的地方。
14.82.31
स तत्र विधिवत्तेन पूजितः पाकशासनिः। ॥ १४.८२.३१ ॥
在那里,他按照礼仪受到款待后,帕卡沙萨纳之子(阿周那)启程了。
14.82.32
भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः ॥ १४.८२.३२ ॥
得到两位妻子的允许后,婆罗多族中最优秀的人(阿周那)启程了。