Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.84

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.84.1

मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः ।
दक्षिणां दिशमास्थाय चारयामास तं हयम् ॥ १४.८४.१ ॥

大王啊,被摩揭陀王所敬礼的般度之子白马者(阿周那)走向南方,让那匹马漫游。

14.84.2

ततः स पुनरावर्त्य हयः कामचरो बली ।
आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम् ॥ १४.८४.२ ॥

随后,那匹强健、任意游走的马折返,抵达了车底人的美丽城市,名叫舒克蒂萨赫瓦亚。

14.84.3

शरभेणार्चितस्तत्र शिशुपालसुतेन सः ।
युद्धपूर्वं तदा तेन पूजया च महाबलः ॥ १४.८४.३ ॥

在那里,希舒帕拉之子沙罗婆在战前礼敬了他,而那位大力者也因此受到了尊敬。

14.84.4

ततोऽर्चितो ययौ राजंस्तदा स तुरगोत्तमः ।
काशीनङ्गान्कोसलांश्च किरातानाथ तङ्गणात् ॥ १४.८४.४ ॥

大王啊,随后这匹被如此礼敬的良马前往迦尸、安伽、侨萨罗及吉拉塔诸部族。

14.84.5

पूजां तत्र यथान्यायं प्रतिगृह्य धनंजयः ।
पुनरावृत्त्य कौन्तेयो दशार्णानगमत्तदा ॥ १४.८४.५ ॥

在那里依礼接受了供养之后,贡蒂之子财富胜者折返,随即前往十河诸国。

14.84.6

तत्र चित्राङ्गदो नाम बलवानरिमर्दनः ।
तेन युद्धमभूत्तस्य विजयस्यातिभैरवम् ॥ १४.८४.६ ॥

那里有一位名叫奇特罗安伽达的强大的敌人摧毁者;与他为争取胜利进行了极为可怖的战斗。

14.84.7

तं चापि वशमानीय किरीटी पुरुषर्षभः ।
निषादराज्ञो विषयमेकलव्यस्य जग्मिवान् ॥ १४.८४.७ ॥

他也被降服后,人中雄牛、冠冕者(阿周那)前往尼沙陀王难陀罗耶(Ekalavya)的领地。

14.84.8

एकलव्यसुतश्चैनं युद्धेनि जगृहे तदा ।
तत्र चक्रे निषादैः स सग्रामं रोमहर्षणम् ॥ १४.८४.८ ॥

那时,难陀罗耶之子在战斗中抓住了他,并在那里与尼沙陀人进行了一场令人毛骨悚然的战斗。

14.84.9

ततस्तमपि कौन्तेयः समरेष्वपराजितः ।
जिगाय युधि दुर्धर्षो यज्ञविघ्नार्थमागतम् ॥ १४.८४.९ ॥

那时,在战斗中从未被击败的贡提之子也战胜了他,这位来阻碍祭祀的难以抵挡的人。

14.84.10

स तं जित्वा महाराज नैषादिं पाकशासनिः ।
अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम् ॥ १४.८४.१० ॥

大王,他战胜了那位尼沙陀王后,被尊敬的帕卡夏萨尼(阿周那)又向南方的海洋行去。

14.84.11

तत्रापि द्रवीडैरान्ध्रै रौद्रैर्माहिषकैरपि ।
तथा कोल्लगिरेयैश्च युद्धमासीन्किरीटिनः ॥ १४.८४.११ ॥

那里也与德罗毗荼人、安陀罗人、凶猛的摩希沙卡人以及科拉-吉列亚人发生了战斗,冠冕者(阿周那)参战。

14.84.12

तांश्चापि विजयो जित्वा नातितीव्रेण कर्मणा ।
तुरङ्गमवशेनाथ सुराष्ट्रानभितो ययौ।
गोकर्णमथ चासाद्य प्रभासमपि जग्मिवान् ॥ १४.८४.१२ ॥

他也战胜了他们,并非以过于严厉的行动,而是因骏马的牵引,胜利者(阿周那)随后绕行苏罗斯陀罗。随后抵达郭迦尔纳,也前往普拉巴萨。

14.84.13

ततो द्वारवतीं रम्यां वृष्णिवीराभिपालिताम् ।
आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः ॥ १४.८४.१३ ॥

随后,库鲁王那匹辉煌的祭马来到了由月氏英雄守护的美丽的德瓦拉瓦蒂城。

14.84.14

तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः ।
प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत् ॥ १४.८४.१४ ॥

耶达瓦族的少年抓住了那匹最好的马而离去,大王;那时乌格拉塞纳制止了他们。

14.84.15

ततः पुराद्विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा ।
सहितो वासुदेवेन मातुलेन किरीटिनः ॥ १४.८४.१५ ॥

那时,维里希尼与安陀迦之主从城中走出,与婆修提婆及那位戴冠者(阿周那)的舅舅同行。

14.84.16

तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम् ।
परया भारतश्रेष्ठं पूजया समवस्थितौ।
ततस्ताभ्यामनुज्ञातो यतयौ येन हयो गतः ॥ १४.८४.१६ ॥

二人依礼与这位库鲁之最相见,满怀亲情,以至高的敬意礼敬这位婆罗多之最。随后得到他们的允许,他便沿着马所走的路前行。

14.84.17

ततः स पश्चिमं देशं समुद्रस्य तदा हयः ।
क्रमेणि व्यचरत्स्फीतं ततः पञ्चनदं ययौ ॥ १४.८४.१७ ॥

随后,这匹马依次游历了大海西部的地区,然后前往繁荣的五河之地潘查那达。

14.84.18

तस्मादपि स कौरव्य गन्धारविषयं हयः ।
विचचार यथाकामं कौन्तेयानुगतस्तदा ॥ १४.८४.१८ ॥

从那里起,库鲁的后裔啊,这匹马又在犍陀罗之地随意游荡,那时贡蒂之子紧随其后。

14.84.19

ततो गान्धारराजेन युद्धमासीत्किरीटिनः ।
घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा ॥ १४.८४.१९ ॥

于是,犍陀罗王与戴冠者阿周那之间爆发了一场激烈的战斗,对阵的是沙古尼之子,他正追随旧日的仇恨。