Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.85

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.85.1

शकुनस्तनयो वीरो गान्धाराणां महारथः ।
प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः।
हस्त्यश्वरथयुक्तेन पताकाध्वजमालिना ॥ १४.८५.१ ॥

沙古尼之子,犍陀罗的大车士英雄,被庞大的军队包围,军中有象、马、战车,并装饰着旗帜、幡旗与花环,前去迎战古达克莎(阿周那)。

14.85.2

अमृष्यमाणास्ते योधा नृपस्य शकुनेर्वधम् ।
अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः ॥ १४.८५.२ ॥

那些不能忍受国王沙古尼之死的战士,齐心举起弓箭,向帕尔塔(阿周那)冲去。

14.85.3

स तानुवाच धर्मात्मा बीभत्सुरपराजितः ।
युधिष्टिरस्य वचनं न च ते जगृहुर्हितम् ॥ १४.८५.३ ॥

德行高尚、从未败北的毗波娑(阿周那)对他们说话,然而他们并未接受坚战有益的劝告。

14.85.4

वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः ।
परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः ॥ १४.८५.४ ॥

帕尔塔起初以温和的言语劝阻,他们却愤怒地包围了马匹并向前推进;于是般度之子(阿周那)震怒了。

14.85.5

ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः ।
क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः ॥ १४.८५.५ ॥

于是般度之子(阿周那)以从甘狄拔弓射出的、尖端闪亮的利箭斩下了他们的头颅,仿佛毫不费力。

14.85.6

ते वध्यमानाः पार्थेनि हयमुत्सृज्य संप्रमात् ।
न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् ॥ १४.८५.६ ॥

他们被帕尔塔杀戮,慌乱中弃马而退,大王啊,在箭雨的重压下痛苦万分。

14.85.7

वितुद्यमानस्तैश्चापि गान्धारैः पाण्डुनन्दनः ।
आदिस्यादिश्य तेजस्वी परानेतानवारयत् ॥ १४.८५.७ ॥

尽管被犍陀罗人射伤,般度之子光辉的英雄仍一再发令,阻挡了这些敌人。

14.85.8

वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः ।
स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् ॥ १४.८५.८ ॥

在战场上,犍陀罗人四面被杀,沙恭尼之子那位国王便迎向般度之子,将他阻挡。

14.85.9

तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् ।
पार्थोऽब्रवीन्न मे वध्या राजानो राजसासनात् ॥ १४.८५.९ ॥

对那位坚守刹帝利本分而战斗的国王,帕尔塔说:“奉王命作战的诸王,不应被我所杀。”

14.85.10

अलं युद्धेन ते वीर न तेऽस्त्वद्य पराजयः ।
इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः।
स शक्रसमकर्माणं समावाकिरदाशुगैः ॥ १४.८५.१० ॥

“英雄,战斗够了;愿你今日不致败北。”虽然这样劝说,他仍因无知而迷惑,不顾这些话语,以疾速的箭矢覆盖了与因陀罗功业相等的那人。

14.85.11

तस्य् पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा ।
अपाहरदमेयात्मा जयद्रथशिरो यथा ॥ १४.८५.११ ॥

无量心的帕尔塔以一支带羽的半月箭,将他的头盔射落,正如他曾斩下胜车的头颅。

14.85.12

तं दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते ।
इच्छता तेन न हतो राजेत्यपि च ते विदुः ॥ १४.८५.१२ ॥

众犍陀罗人见此都惊愕不已;他们也知道,尽管他有意,那位国王却并未被他所杀。

14.85.13

गान्धारराजपुत्रस्तु पलायनकृतक्षणः ।
ययौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव। ॥ १४.८५.१३ ॥

犍陀罗王之子决意逃跑,与他们一同离去,如同受惊的小鹿。

14.85.14

तेषां तु तरसा पार्थस्तत्रैव परिदावताम् ।
प्रजहारोत्तमाङ्गानि भल्लैः सन्नतपर्वभिः ॥ १४.८५.१४ ॥

然而阿周那迅速在那里用节部弯曲的钩箭斩下了那些奔逃之人的头颅。

14.85.15

उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान् ।
शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः ॥ १४.८५.१५ ॥

有些人甚至没察觉自己高举的手臂被从甘狄拔弓射出、由阿周那发出的宽大箭矢击落。

14.85.16

सम्भ्रान्तनरनागाश्वमपतद्विद्रुतं बलम् ।
हतविद्रुतभूयिष्ठमावर्तत मुहुर्मुहुः ॥ १४.८५.१६ ॥

那支军队人马、象和马都惊慌失措,在奔逃中倒下;大多已被杀死而仍在逃散,它却一次又一次地回头。

14.85.17

नाभ्यदृस्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः ।
रिपवः पात्यमाना वै ये सहेरन्महाशरान् ॥ १४.८५.१७ ॥

在这位建立最高功业的英雄面前,即使有些能承受大箭的敌人正被击倒,也不见踪影。

14.85.18

ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा ।
जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम् ॥ १४.८५.१८ ॥

于是犍陀罗王之母在年长大臣的引导下惊惧地走出,手中捧着最上等的敬献之礼。

14.85.19

सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम् ।
प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम् ॥ १४.८५.१९ ॥

她镇定地制止了那个因好战而狂妄的儿子,并安抚了胜利者、行事毫不费力的阿周那。

14.85.20

तां पूजयित्वा बीभत्सुः प्रसादमकरोत्प्रभुः ।
शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत् ॥ १४.८५.२० ॥

他尊敬她之后,威严的毗婆特苏对她施以恩惠;又安慰沙古尼之子,说了这番话。

14.85.21

न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता ।
प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ ॥ १४.८५.२१ ॥

大臂者啊,你要与我作战的这个决定,我并不喜欢;灭敌者啊,无罪者啊,你其实就是我的兄弟。

14.85.22

गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च ।
तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव ॥ १४.८५.२२ ॥

国王啊,你之所以还活着,是因为想起了母亲甘陀利和持国王所做的事;而你的随从都已被杀。

14.85.23

मैवं भूः शाम्यतां वैरं मा तेऽभूद्बुद्धिरीदृशी ।
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥ १४.८५.२३ ॥

不要如此;愿仇怨平息,你不要有这样的念头。你应当以至高的友情前来参加我们国王的马祭。

14.85.24

इत्युक्त्वाऽनुययौ पार्थो हयं तं कामचारिणम् ।
ते न्यवर्तन्त गान्धारा हतशिष्टाः स्वकं पुरम् ॥ १४.८५.२४ ॥

说完这话,贡蒂之子跟随那匹随意游走的马而去;未被杀死的犍陀罗人则回到了自己的城市。