Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.86

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.86.1

न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् ।
तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः।
श्रुत्वाऽर्जुनं कुशलिनं स च हृष्टमनाऽभवत् ॥ १४.८६.१ ॥

于是马沿着它前往名为那伽阿婆耶的城市的道路返回。坚战通过探子得知它正在返回,听说阿周那平安无恙,心中欢喜。

14.86.2

विजयस्य च तत्कर्म गान्धारविषये तदा ।
श्रुत्वा चान्येषु देशेषु स सुप्रीतोऽभवत्तदा ॥ १४.८६.२ ॥

闻知胜者(阿周那)在犍陀罗国所作的那一业绩,也闻知在其他国家的消息,他于是非常欢喜。

14.86.3

एतस्मिन्नेव काले तु द्वादशीं माघमासिकीम् ।
इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः ॥ १४.८६.३ ॥

就在此时,于摩伽月的第十二日,选取吉祥的星宿,法王坚战(开始了祭祀)。

14.86.4

समानीय महातेजाः सर्वान्भ्रातॄन्महीपतिः ।
भीमं च नकुलं चैव सहदेवं च कौरव ॥ १४.८६.४ ॥

大光明的国王召集了所有兄弟——包括婆罗多、无种和偕天——啊,俱卢子孙。

14.86.5

प्रोवाचेदं वचः काले तदा धर्मभृतांवरः ।
आमन्त्र्य वदतां श्रेष्ठो भीमं प्रहरतां वरम् ॥ १४.८६.५ ॥

那时,持法者中最优秀、言者中最杰出的人,适时说出了这番话,对战士中最优秀的婆罗多(毗摩)说道。

14.86.6

आयाति भीमसेनासौ सहाश्वेन तवानुजः ।
यथा मे पुरुषाः प्राहुर्ये धनंजयसारिणः ॥ १४.८६.६ ॥

啊,毗摩赛那,你的幼弟正牵着马回来,正如追随财主(阿周那)的人们对我所说的。

14.86.7

उपस्थितश्च कालोऽयमभितो वर्तते हयः ।
माघी च पौर्णमासीयं मासः शेषो वृकोदर ॥ १४.८६.७ ॥

时候已到,马已在四处。狼腹啊,这是摩伽月的满月,月份尚余。

14.86.8

तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः ।
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥ १४.८६.८ ॥

因此,应派遣精通吠陀的博学婆罗门,去考察适合祭祀的地方,以成就马祭。

14.86.9

इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम् ।
हृष्टः श्रुत्वा गुडोकेशमायान्तं पुरुषर्षभम् ॥ १४.८६.९ ॥

如此被吩咐后,婆罗门、即毗摩依王命行事;听闻古陀可舍(阿周那)即将到来,那位人中雄牛甚为欢喜。

14.86.10

ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह ।
ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मणि ॥ १४.८६.१० ॥

于是毗摩森那与智慧的工匠同行,让精通祭祀之事的婆罗门走在前面。

14.86.11

तं ससालचयं श्रीमत्सप्रतोलीसुघट्टितम् ।
मापयामास कौरव्यो यज्ञवाटं यताविधि ॥ १४.८६.११ ॥

俱卢后裔依照规制,将那座饰有娑罗树林、门楼严整的华美祭场丈量了一番。

14.86.12

प्रासादशतसम्बन्धं मणिप्रवरकुट्टिमम् ।
सदः स पत्नीसदनं साग्नीध्रमपि चोत्तरम्।
कारयामास विदिवद्धेमरत्नविभूषितम् ॥ १४.८६.१२ ॥

他还建造了集会堂(萨达斯)——地面镶嵌上等宝石,与数百座宫殿相连——以及妻子们的居所和北方带阿格尼德拉祭火的殿堂,皆工艺精良,以黄金与宝石装饰。

14.86.13

स्तंभान्कनकचित्रांश्च तोरणानि बृहन्ति च ।
यज्ञायतनदेशेशु दत्त्वा शुद्धं च काञ्चनम् ॥ १४.८६.१३ ॥

在祭祀场所的各处,布施了镶嵌金饰的柱子与高大的门楼,以及纯金。

14.86.14

अन्तःपुराणां राज्ञां च नानादेशसमीयुषाम् ।
कारयामास धर्मात्मा तत्रतत्र यथाविधि ॥ १४.८६.१४ ॥

为从各国前来的诸王及其后宫,这位心怀正法者命人依规制在各处建造住所。

14.86.15

ब्राह्मणानां न वेश्मानि नानादेशसमीयुषाम् ।
कारयामास कौन्तेयो विधिवत्तान्यनेकशः ॥ १४.८६.१५ ॥

为从各国前来的婆罗门,俊杰拘迭之子依规制多方建造了那些住所。

14.86.16

तथा सम्प्रेषयामास दूतान्नृपतिशासनात् ।
भीमसेनो महाबाहो राज्ञामक्लिष्टकर्मणाम् ॥ १४.८६.१६ ॥

同样,依国王之命,怡怡怡…(大力的)薄伽森那派出使者,啊大臂者,前往那些功业不费力的诸王处。

14.86.17

ते प्रियार्थं कुरुपतेराययुर्नृपसत्तम ।
रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च ॥ १४.८६.१७ ॥

他们为取悦俱卢之主而来,啊诸王中最杰出的人,带来了众多宝石、女子、马匹与兵器。

14.86.18

तेषां निर्विशतां तेषु शिबिरेषु महात्मनाम् ।
नर्दतः सागरस्येव दिवस्पृगभवत्स्वनः ॥ १४.८६.१८ ॥

当那些大德之人居住在那些营地之时,发出的声音如大海咆哮,直冲云霄。

14.86.19

प्रत्युद्गम्य नमस्कृत्य ब्राह्मणांश्च न्यवेदयत् ॥ १४.८६.१९ ॥

他迎上前去,致敬之后,向婆罗门们禀报。

14.86.20

तेषामभ्यागतानां च स राजा कुरुवर्धनः ।
व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः ॥ १४.८६.२० ॥

为了这些客人,那位增益俱卢族的国王下令准备饮食与超凡的卧榻。

14.86.21

वाहनानां च विविधाः शालाः शालीक्षुगोरसैः ।
उपेता भरतश्रेष्ठो व्यादिदेश स धर्मराट् ॥ १४.८६.२१ ॥

为坐骑,婆罗多族中最优秀的法王下令设置各种马厩,备有稻米、甘蔗和乳制品。

14.86.22

वर्णाः पृथक्सन्निविष्टा ह्युत्तरोत्तरपूजिताः ।
तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः।
समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः ॥ १४.८६.२२ ॥

各种姓氏分别而坐,依次越发受敬重。同样,在智慧的法王那场大祭祀中,许多群体的仙人和梵言者齐聚。

14.86.23

ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते ।
समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः ॥ १४.८६.२३ ॥

那里的再生者中的优秀者,啊地上之主,携其弟子齐集;俱卢族王接纳了他们。

14.86.24

सर्वांश्च ताननुययौ यावदावसथान्प्रति ।
स्वयमेव महातेजा दंभं त्यक्त्वा युधिष्ठिरः ॥ १४.८६.२४ ॥

大光辉的坚战亲自随同他们所有人直到住处,舍弃了傲慢。

14.86.25

ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा ।
कृत्स्नं यज्ञविधिं राजन्धर्मराजे न्यवेदयन ॥ १४.८६.२५ ॥

那时,工匠总管与其他工匠将祭祀的全部仪轨报告给法王,大王。

14.86.26

तच्छ्रुत्वा धर्मराजस्तु कृतं सर्वमतन्द्रितः ।
हृष्टरूपोऽभवद्राजन्सह भ्रातृभिरादृतः ॥ १४.८६.२६ ॥

法王闻此,见一切皆无懈怠而完成,面露喜色,大王,与诸兄弟一同受到敬重。

14.86.27

तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः ।
हेतुवादान्बहूनाहुः परस्परजिगीषवः ॥ १४.८६.२७ ॥

祭祀进行之时,善辩的论者们彼此想要取胜,提出了许多论辩。

14.86.28

ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम् ।
देवेन्द्रस्येव विहितं भीमसेनेन भारत ॥ १४.८६.२८ ॥

诸王看到了由毗摩森那如天神之王因陀罗那样安排的那殊胜祭仪,婆罗多啊。

14.86.29

ददृशुस्तोरणान्यत्र शातकुंभमयानि ते ।
शय्यासनविहारांश्च सुबहून्रत्नसंचयान् ॥ १४.८६.२९ ॥

他们在那里看到了金制的门楼、床榻、座席、游乐之所,以及大量的宝石堆。

14.86.30

घटान्पात्रीः कटाहानि कलशान्वर्धमानकान् ।
न हि किञ्चिदसौवर्णमपश्यन्वसुधाधिपाः ॥ १४.८६.३० ॥

瓮、器皿、锅、净瓶与高大的罐子——诸王在那里看不到任何不是金制的东西。

14.86.31

यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान् ।
उपक्लृप्तान्यथाकालं विधिवद्भूरिवर्चसः ॥ १४.८६.३१ ॥

按经典所载、以金饰装点的木制祭柱,由那些光辉极盛的人依时依法设立。

14.86.32

स्थलजाक जलजा ये च पशवः केचन प्रभो ।
सर्वानेव समानीतानपश्यंस्तत्र ते नृपाः ॥ १४.८६.३२ ॥

主啊,那些国王看见陆地和水中的一切动物都已被聚集到那里。

14.86.33

गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियोपि च ।
औदकानि च सत्वानि श्वापदानि वयांसि च ॥ १४.८६.३३ ॥

母牛与水牛,还有老妇;水中生物、猛兽和飞禽也都在那里。

14.86.34

जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च ।
पर्वतानूपजातानि भूतानि ददृशुश्च ते ॥ १४.८६.३४ ॥

他们也看见了胎生、卵生、湿生、从地而生,以及生于山川与泽地的众生。

14.86.35

एवं प्रमुदितं सर्वं पशुगोधनधान्यतः ।
यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागताः ॥ १४.८६.३५ ॥

国王们看到祭场如此欢乐,牲畜、牛群、财富与谷物充盈,无不深感惊异。

14.86.36

अनिशं दीयते च स्म तत्र भोज्यं पृथग्विधम् ।
ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत् ॥ १४.८६.३६ ॥

那里不断地向婆罗门和平民供应各种食物,丰盛精美,谷物充足。

14.86.37

पूर्णे शतसहस्रे तु विप्राणां तत्रि भुञ्जताम् ।
दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत।
विननादासकृच्चापि दिवसेदिवसे गते ॥ १४.८६.३७ ॥

当十万婆罗门进食完毕时,那里反复敲击如乌云雷鸣般的鼓声;日复一日,它不断地回响。

14.86.38

एवं स ववृते यज्ञो धर्मराजस्य धीमतः ।
अन्नस्य सुबहून्राजन्नुत्सर्गान्पर्वतोपमान्।
दधिकुल्याशअच ददृशुः सर्पिषश्च ह्रदाञ्जनाः ॥ १४.८६.३८ ॥

如此,这位智慧的法王的祭祀continued进行。大王啊,人们在那里看到如山般堆积的许多食物、凝乳之河和酥油之湖。

14.86.39

जंबूद्वीपो हि सकलो नानजनपदायुतः ।
राजन्नदृस्यतैकस्थो राज्ञस्तस्य महामखे ॥ १४.८६.३९ ॥

大王啊,整个赡部洲充满无数国家,在那位王的大祭祀中,它仿佛聚集在同一个地方。

14.86.40

तत्र जातिसहस्राणि पुरुषाणां ततस्ततः ।
गृहीत्वा धमाजग्मुर्बहूनि भरतर्षभ ॥ १४.८६.४० ॥

从四面八方,成千上万个部族的许多人带着贡品前来,婆罗多的雄牛啊。

14.86.41

स्रग्विणश्तापि ते सर्वे सुमुष्टमणिकुण्डलाः ।
पर्यवेषन्द्विजातींस्ताञ्शतशोऽथ सहस्रशः ॥ १४.८६.४१ ॥

他们都戴着花环,佩戴着打磨精美的宝石耳环,成百上千地为那些再生者奉上食物。

14.86.42

विविधान्यन्नपानानि पुरुषा येऽनुयायिनः ।
ते वै नृपोपभोज्यानि ब्राह्मणानां ददुश्च ह ॥ १४.८६.४२ ॥

随行的侍从们将各种饮食交给婆罗门,这些都是适合国王享用的。