Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.94

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.94.1

धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत् ।
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् ॥ १४.९४.१ ॥

尊者啊,若一切皆可通过依法所得的舍弃而获得,那就把这一切都告诉我吧,因为您善于言辞。

14.94.2

तस्योञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत् ।
कथितं तु मम ब्रह्मंस्तथ्यमेतदसंशयम् ॥ १४.९४.२ ॥

婆罗门啊,有关那位拾穗为生者的行为,以及施予麦粉所得的大果报,已经告诉了我;这是真实的,毫无疑问。

14.94.3

कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् ।
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ ॥ १४.९४.३ ॥

再生者中的俊杰啊,在一切祭祀之中,至高的确定如何能够生起?您有资格将此完整地告诉我。

14.94.4

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम ॥ १४.९४.४ ॥

在此人们也讲述这段古老的历史——阿伽斯蒂耶的大祭祀中的往事,哦,降伏敌人者。

14.94.5

पुराऽगस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् ।
प्रविवेश महाराज सर्वभूतहिते रतः ॥ १४.९४.५ ॥

往昔,光辉的阿伽斯蒂耶进入了十二年的受戒,大王啊,他乐于利益一切众生。

14.94.6

तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः ।
मूलाहाराः फलाहाराश्चाश्मकुट्टा मरीचिपाः ॥ १४.९४.६ ॥

在那位大德的祭会上,有如火焰般的祭司,他们以根为食,以果为食,以石捣食,饮用阳光。

14.94.7

परिपृष्टिका वैघसिकाः प्रसङ्ख्यानास्तथैव च ।
यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः ॥ १४.९४.७ ॥

探究者、拾食残余者、思辨者,以及苦行者与乞食僧,都聚集在那里。

14.94.8

सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः ।
दमे स्थिताश्च सर्वे ते हिंसादंभविवर्जिताः ॥ १४.९४.८ ॥

他们都以明显的法为依归,已战胜愤怒、制服诸根,安住于克己之中,远离暴力与虚伪。

14.94.9

वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यबाधिताः ।
उपातिष्ठन्त तं यज्ञं यजन्तस्ते महर्षयः ॥ १४.९४.९ ॥

他们常安住于清净的行为,不为诸根所扰,那些大仙在行祭时侍奉着那场祭祀。

14.94.10

यथाशक्त्या भगवता तदन्नं समुपार्जितम् ।
तस्मिन्सत्रे तु यद्वृत्तं यद्योग्यं च तदाऽभवत् ॥ १४.९४.१० ॥

世尊依自己的能力积聚了那些食物;那次祭会中所发生的,当时都是恰当的。

14.94.11

तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः ।
एवंविधे त्वगस्त्यस्य वर्तमाने तथाऽध्वरे।
न ववर्ष सहस्राक्षस्तदा भरतसत्तम ॥ १४.९४.११ ॥

如此,许多仙人举行过大祭;但在这样的情形下,当阿伽斯蒂耶的祭祀正在进行时,婆罗多中最优秀的人啊,千眼者那时没有降雨。

14.94.12

ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः ।
कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् ॥ १४.९४.१२ ॥

于是,大王啊,在祭仪进行之中,这则关于大心阿伽斯蒂耶的故事在那些心已清净的仙人之间展开了。

14.94.13

अगस्त्यो यजमानोसौ ददात्यन्नं विमत्सरः ।
न च वर्षति पर्जन्यः कथमन्नं भविष्यति ॥ १४.९४.१३ ॥

阿伽斯提耶行祭,无嫉妒地施予食物,然而雨云不降雨。那么食物如何能够有呢?

14.94.14

सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम् ।
न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश ॥ १४.९४.१४ ॥

诸位婆罗门啊,这位仙人的大祭会持续十二年;天神在这十二年间不会降雨。

14.94.15

एतद्भवन्तः संचिन्त्य महर्षेरस्य धीमतः ।
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् ॥ १४.९४.१५ ॥

诸位应当仔细思量这位睿智的大仙阿伽斯提耶,他苦行极深,并对他施以恩惠。

14.94.16

इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान् ।
प्रोवाच वाक्यं स तदा प्रसाद्य शिरसा मुनीन् ॥ १४.९४.१६ ॥

众仙如此说完之后,威力强大的阿伽斯提耶低头向众仙致敬、使其欢喜,随即说了这番话。

14.94.17

यदि द्वादशवर्षाणि न वर्षिष्यति वासवः ।
चिन्तायज्ञं करिष्यामि विधिरेष सनातनः ॥ १४.९४.१७ ॥

若因陀罗十二年不降雨,我将行思想之祭;这是永恒的规则。

14.94.18

यदि द्वादशवर्षाणि न वर्षिष्यति वासवः ।
स्पर्शयज्ञं करिष्यामि विधिरेष सनातनः ॥ १४.९४.१८ ॥

若因陀罗十二年不降雨,我将行触摸之祭;这是永恒的规则。

14.94.19

यदि द्वादशवर्षाणि न वर्षिष्यति वासवः ।
व्यायामेनाहरिष्यामि यज्ञानेतान्यतव्रतः ॥ १४.९४.१९ ॥

若因陀罗十二年不降雨,我将以努力完成这些祭祀,坚守誓愿。

14.94.20

बीजयज्ञो मयाऽयं वै बहुवर्षसमाचितः ।
बीजैर्हितं करिष्यामि नात्र विघ्नो भविष्यति ॥ १४.९४.२० ॥

此种子祭,我多年积累,将以种子行善举,此中不会有任何障碍。

14.94.21

नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन ।
वर्षिष्यतीह वा देवो नवा वर्षं भविष्यति ॥ १४.९४.२१ ॥

我的此次祭会无论如何不可白费,此处神降雨与否,雨水降临与否。

14.94.22

अथवाऽभ्यर्थनामिन्द्रो न करिष्यति कामतः ।
स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः ॥ १४.९४.२२ ॥

或者因陀罗若不因请求而自愿行动,我自己将成为因陀罗,使众生得以存活。

14.94.23

यो यदाहारजातश्च स तथैव भविष्यति ।
विशेषं चैव कर्तास्मि पुनः पुनरतीव हि ॥ १४.९४.२३ ॥

所有的食物储备都会保持原样;我会一再特别多多地加以准备。

14.94.24

अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम् ।
त्रिषु लोकेषु यच्चास्ति तदिहागम्यतां स्वयम् ॥ १४.९४.२४ ॥

愿今日黄金降临此处,还有其他稀有财富,三界之中所有的一切,都自行来到此处。

14.94.25

दिव्याश्चाप्सरसां सङ्घा गन्धर्वाश्च सकिन्नराः ।
विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु मे मखम् ॥ १४.९४.२५ ॥

愿天界的阿普萨拉斯众、与紧那罗同在的乾达婆,以及毗首跋苏和其他诸神,也都来侍奉我的祭祀。

14.94.26

उत्तरेभ्यः कुरुभ्यश्च यत्किंचिद्वसु विद्यते ।
सर्वं तदिह यज्ञेषु स्वयमेवोपतिष्ठतु ॥ १४.९४.२६ ॥

凡北俱卢与俱卢人所拥有的财富,愿一切都自行来到此处的祭祀之中。

14.94.27

स्वर्गः स्वर्गसदश्चैवक धर्मश्च स्वयमेव तु ।
इत्युक्ते सर्वमेवैतदभवत्तपसा मुनेः।
तस्य दीप्ताग्निमहसस्त्वगस्त्यस्यातितेजसः ॥ १४.९४.२७ ॥

「愿天堂、类似天堂之乐,以及法,皆自行而至。」话音一落,这一切便因仙人的苦行之力而成,那便是阿伽斯蒂耶的苦行,他的光辉如燃烧的烈火,极其耀眼。

14.94.28

ततस्ते मुनयो हृष्टा ददृशुस्तपसो बलम् ।
विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् ॥ १४.९४.२८ ॥

于是众仙人欢喜,见苦行之力而惊异,一同说出了这些意义重大的话语。

14.94.29

प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोवनम् ।
तैरेव यज्ञैस्तुष्टाः स्य न्यायेनेच्छामहे वयम् ॥ १४.९४.२९ ॥

你的话语令我们欢喜,但我们并不愿要苦行林。我们正是因这些祭祀而满足;依正理,我们所求的正是祭祀。

14.94.30

यज्ञं दीक्षां तथा होमान्यच्चान्यन्मृगयामहे ।
तयोस्संधर्षितैर्यज्ञैर्नान्यतो मृगयामहे ॥ १४.९४.३० ॥

我们所求的是祭祀、受戒,同样也有火供,以及其他的一切;我们正是通过与这两者相结合而举行的祭祀去求取,而不从别处求取。

14.94.31

न्यायेनोपार्जिताहाराः स्वकर्माभिरता वयम् ।
वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे ॥ १४.९४.३१ ॥

我们以合法获得的食物为生,乐于履行各自的本分;以梵行之修,依正道请求诸吠陀。

14.94.32

न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् ।
धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् ॥ १४.९४.३२ ॥

依正道,之后离开家室,以法所许可的规范修习苦行。

14.94.33

भवतः सम्यगिष्टा तु बुद्धिर्हिसाविवर्जिता ।
एतामहिंसा यज्ञेषु ब्रूयास्त्वं सततं प्रभो ॥ १४.९४.३३ ॥

您的心意甚为可嘉,不涉暴力;主啊,在祭祀中您应当始终宣说此不害之道。

14.94.34

प्रीतास्ततो भविष्यामो वयं तु द्विजसत्तम ।
विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे ॥ १४.९४.३४ ॥

那时,诸位二生中的最上者啊,我们将心满意足;待祭祀圆满、蒙允告退后,便离开这场祭会。

14.94.35

तथा कथयतां तेषां देवराजः पुरंदरः ।
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् ॥ १४.९४.३५ ॥

他们如此交谈之际,天王因陀罗大放光明,见其苦行之力,便降下了甘霖。

14.94.36

आसमाप्तेश्च यज्ञस्य तस्यामितपराक्रमः ।
निकामवर्षी पर्जन्यो बभूव जनमेजय ॥ १४.९४.३६ ॥

直到祭祀圆满,诸王中的生主啊,那位威力无量者的雨云便随意降下甘霖。

14.94.37

प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः ।
स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् ॥ १४.९४.३७ ॥

众神之主因图自来,使brihaspati在前,安抚了阿伽斯提耶。哦,王仙!

14.94.38

ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन् ।
अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि ॥ १४.९४.३८ ॥

随后祭祀完成,阿伽斯提耶大为欢喜,依照规定礼敬那些大仙,然后送他们离去。