Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.95

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.95.1

कोसौ नकुलरूपेण शिरसा काञ्चनेन वै ।
प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे ॥ १४.९५.१ ॥

那位以猫鼬之形、头顶金色、说出人言的,究竟是谁?既然问起,请告诉我。

14.95.2

एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम् ।
श्रूयतां नकुलो योसौ यथा वाक्तस्य मानुषी ॥ १४.९५.२ ॥

此事从前无人问我,我们也未曾说起。请听那只猫鼬如何有了人类的言语。

14.95.3

श्राद्धं संकल्पयामास जमदग्निः पुरा किल ।
होमधेनुस्तमागाच्च स्वयमेव दुदोह ताम् ॥ १४.९५.३ ॥

昔时,阇摩陀那想举行祭祖之礼。祭火之牛霍摩驮努来到他身边,自行挤出了奶。

14.95.4

तत्पयः स्थपयामास नवे भाण्डे दृढे शुचौ ।
क्रोधो नकुलरूपेण पिठरं पर्यकर्षयत् ॥ १४.९५.४ ॥

他把那乳汁放入一只新的、坚固而洁净的器皿中。此时,愤怒以猫鼬之形拖动了那只陶罐。

14.95.5

जिज्ञासुस्तमृषिश्रेष्टं किं कुर्याद्विप्रिये कृते ।
इति सञ्चिन्त्य दुर्मेधा धर्षयामास तत्पयः ॥ १४.९५.५ ॥

他想知道这位最优秀的仙人若受到冒犯会怎样,愚昧的那位如此盘算,便玷污了那乳汁。

14.95.6

तमाज्ञाय मुनिः क्रोधं नैवास्य स चुकोप ह ।
स तु क्रोधस्ततो राजन्ब्राह्मणीं मूर्तिमास्थितः ॥ १४.९५.६ ॥

这位仙人知道此事,却没有对他发怒;但是,大王啊,那愤怒此时化作了一位婆罗门女子之身。

14.95.7

जितोस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः ।
लोके मिथ्याप्रवादोयं यत्त्वयाऽस्मि विनिर्जितः ॥ १४.९५.७ ॥

他说:“婆利古之最优者啊,我已被征服。婆利古族确实极易发怒。世上流传的这句话是假的:说我已被你战胜。”

14.95.8

वशे स्थितोऽहं त्वय्यह्य क्षमावति महात्मनि ।
बिभेमि तपसः साधो प्रसादं कुरु मे प्रभो ॥ १४.९५.८ ॥

“我在你的掌握之中,忍耐的大德者啊。我畏惧你的苦行。善人啊,主啊,请对我施恩。”

14.95.9

साक्षाद्दृष्टोसि मे क्रध गच्छ त्वं विगतज्वरः ।
न त्वयापकृतं मेऽद्य न च मे मन्युरस्ति वै ॥ १४.९५.९ ॥

“我已亲眼见到你了,易怒者啊。去吧,摆脱你的热病吧。今日你并未对我有任何伤害,我心中也确实没有怨恨。”

14.95.10

यान्समुद्दिश्य संकल्पः पयसोस्य कृतो मया ।
पितरस्ते महाभागास्तेभ्यो बुद्ध्यस्व गम्यताम् ॥ १४.९५.१० ॥

“我为这水供而立愿所指向的那些祖先,正是你那大福的先祖。你去认识他们吧,现在可以走了。”

14.95.11

इत्युक्तो जातसंत्रासस्तत्रैवान्तरधीयत ।
पितॄणामभिषङ्गाच्च नकुलत्वमुपागतः ॥ १४.९५.११ ॥

他听了这话,心生恐惧,便就地消失了;因与祖先相接触,他变成了貂鼠的形态。

14.95.12

स तान्प्रसादयामास शापस्यान्तो भवेदिति ।
तैश्चाप्युक्तः क्षिपन्धर्मं सापस्यान्तमवाप्स्यति ॥ १४.९५.१२ ॥

他安抚那些祖先,希望诅咒能够终止。他们也对他说:“因为你诽谤法,你将遭遇后嗣断绝的结果。”

14.95.13

तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यं तथैव च ।
जुगुप्समानो धावन्स तं यज्ञं समुपासदत् ॥ १४.९५.१३ ॥

他们让他前往适合祭祀的地方,也前往法林,他厌恶地奔跑,来到了那场祭祀之处。

14.95.14

धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः ।
मुक्तः सापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः ॥ १४.९५.१४ ॥

随后,他责备法之子,以那一普拉斯塔的大麦粉,从诅咒中解脱;而那时的愤怒,实际上就是法神——坚战。

14.95.15

एवमेतत्तदा वृत्तं यज्ञे तस्य महात्मनः ।
पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा। ॥ १४.९५.१५ ॥

那时在那位大德的祭祀中便发生了这样的事;我们正看着的时候,那拉库拉便从那里消失了。