摩诃婆罗多 · 章 15.15
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.15.1
विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः ।
प्रीतिमानभवद्राजन्राज्ञो जिष्णोश्च कर्मणा ॥ १५.१५.१ ॥
维杜罗如此说后,人民之主持国王欢喜了,大王,因为国王和胜利者的行为。
15.15.2
ततोऽभिरूपान्भीष्माय ब्राह्मणानृषिसत्तमान् ।
पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः ॥ १५.१५.२ ॥
然后,他从数以千计中审视了适合毗湿摩的婆罗门,即圣贤中最优秀者,为了儿子们和朋友们,选择了他们。
15.15.3
कारयित्वाऽन्नपानानि यानान्याच्छादनानि च ।
सुवर्णमणिरत्नानि दासीदासपरिच्छदान् ॥ १५.१५.३ ॥
他命人准备了饮食、车辆、衣物、黄金、宝石和珠宝,以及婢女、奴仆和随从,然后将它们赠予了众人。
15.15.4
कंबलानि च रत्नानि ग्रामान्क्षेत्रं तथा धनम् ।
सालङ्कारान्गजानश्वान्कन्याश्चैव वरस्त्रियः ॥ १५.१५.४ ॥
毛毯、宝石、村庄、田地、财富、装饰过的象和马、少女和优秀的女子,他也都给了。
15.15.5
आदिश्यादिश्य सर्वेभ्यो ददौ स नृपसत्तमः ।
द्रोणं संकीर्त्य भीष्मं च सोमदत्तं च बाह्लिकम् ॥ १५.१५.५ ॥
这位最优秀的国王反复指示,将财物分给所有人;并特别点名德罗纳、毗湿摩、索摩达塔和巴赫利迦,也给了他们。
15.15.6
दुर्योधनं च राजानं पुत्रांश्चैव पृथक्पृथक् ।
जयद्रथपुरोगांश्च सुहृदश्चापि सर्वशः ॥ १५.१५.६ ॥
他将财物全面地分给国王难敌、各个儿子,以及以胜车为首的朋友们。
15.15.7
स श्राद्धयज्ञो ववृते बहुगोधनदक्षिणः ।
अनेकधनरत्नौघो युधिष्ठिरमते तदा ॥ १५.१५.७ ॥
依照坚战的意愿,那次祭祀(śrāddha)便举行了,以众多牛和财富作为布施,珍宝与财物如潮涌出。
15.15.8
अनिशं यत्र पुरुषा गणका लेखकास्तदा ।
युधिष्ठिरस्य वचनादपृच्छन्त स्म तं नृपम् ॥ १५.१५.८ ॥
那里常有会计与书记之人,当时依坚战之言,向那位国王请示。
15.15.9
आज्ञापय किमेतेभ्यः प्रदेयं दीयतामिति ।
तदुपस्थितमेवात्र वचनान्ते ददुस्तदा ॥ १५.१५.९ ॥
说道:“请吩咐应当给这些人什么,就给吧。”话音刚落,他们便把当场现有之物都给了。
15.15.10
शते देये दशशतं सहस्रं चायुतं तथा ।
दीयते वचनाद्राज्ञः कुन्तीपुत्रस्य धीमतः ॥ १५.१५.१० ॥
应给一百,便给一千;应给一千,便给一万。此乃依智慧的贡蒂之子国王之言而施予。
15.15.11
एवं स वसुधाराभिर्वर्षमाणो नृपांबुदः ।
तप्रयामास विप्रांस्तान्वर्षन्भूमिमिवांबुदः ॥ १५.१५.११ ॥
如是,那位如云之王,降下财富的甘霖,使那些婆罗门得到满足,正如云在大地上降雨。
15.15.12
ततोऽन्तन्तरमेवात्र सर्ववर्णान्महामते ।
अन्नपानरसौघेण प्लावयामास पार्थिवः ॥ १५.१५.१२ ॥
此后,大智者啊,就在那里,国王以饮食的洪流,使一切种姓都得到充足。
15.15.13
सवस्त्रधनरत्नौघो मृदङ्गनिनदस्वनः ।
गवाश्वमकरावर्तो नानारत्नमहाकरः ॥ १५.१५.१३ ॥
衣物、财富与珠宝如潮水涌流,鼓声轰鸣,牛与马如漩涡,似鳄鱼一般,众多珍宝如巨浪。
15.15.14
ग्रामाग्रहारद्वीपाढ्यो मणिहेमजलार्णवः ।
जगत्संप्लावयामास धृतराष्ट्रोडुपोद्धतः ॥ १५.१५.१४ ॥
村庄、婆罗门居住地与岛屿丰饶,如宝石与金水之海,持国王如星辰之主般升起,淹没了整个世界。
15.15.15
एवं स पुत्रपौत्राणां पितॄणामात्मनस्तथा ।
गान्धार्याश्च महाराज प्रददावौर्द्वदेहिकम् ॥ १५.१५.१५ ॥
如此,他为诸子、诸孙、祖先、自己及甘陀利,献上了丧葬之施,大王啊。
15.15.16
परिश्रान्तो यदासीत्स ददद्दानान्यनेकशः ।
निवर्तयामास तदा दानयज्ञं नराधिपः ॥ १५.१५.१६ ॥
当他多次施舍而疲惫时,那位人主便结束了布施之祭。
15.15.17
एवं स राजा कौरव्यश्चक्रे दानमहाक्रतुम् ।
नटनर्तकलास्याढ्यं बह्वन्नरसदक्षिणम् ॥ १५.१५.१७ ॥
如此,那位俱卢王举行了布施的大祭,有演员、舞者与歌舞,饮食丰盛,祭礼周全。
15.15.18
दशाहमेवं दानानि दत्त्वा राजांऽबिकासुतः ।
बभूव पुत्रपौत्राणामनृणो भरतर्षभ ॥ १५.१५.१८ ॥
如此布施十日之后,安比迦之子王便对诸子诸孙无所亏欠了,婆罗多之牛啊。