Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.17.1

ततः प्रासादहर्म्येषु वसुधायां च पार्थिव ।
नारीणां च नराणां च निःस्वनः सुमहानभूत् ॥ १५.१७.१ ॥

于是,大王啊,宫殿、华厦之中以及大地之上,男女的喧嚷声大作。

15.17.2

स राजा राजमार्गेण नृनारीसंकुलेन च ।
कथञ्चिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः ॥ १५.१७.२ ॥

那位智慧的国王双手合十,颤抖着,勉强穿过挤满男女的御道而出。

15.17.3

स वर्धमानद्वारेणि निर्ययौ गजसाह्वयात् ।
विसर्जयामास च तं जनौघं स मुहुर्मुहुः ॥ १५.१७.३ ॥

他从象城(Hāstinapura)经由增长门出城,并且一次又一次地遣散那群人。

15.17.4

वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः ।
संजयश्च महामात्रः सूतो गावल्गणिस्तथा ॥ १५.१७.४ ॥

毗都罗准备与国王一同前往森林,大臣桑遮耶和御者高婆尔伽尼也是如此。

15.17.5

ककृपं निवर्तयामास युयुत्सुं च महारथम् ।
धृताराष्ट्रो महीपालः परिदाप्य युधिष्ठिरे ॥ १५.१७.५ ॥

国王持国让克里巴和大车手友裕苏返回,并把国事托付给坚战。

15.17.6

निवृत्ते पौरवर्गे च राजा सान्तःपुरस्तदा ।
धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष ह ॥ १५.१७.६ ॥

百姓返回之后,国王与后宫之人在持国的允许下,便想要返回。

15.17.7

सोब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ ।
अहं राजानमन्विष्ये भवती विनिवर्तताम् ॥ १५.१७.७ ॥

婆罗多族的雄牛啊,他走近母亲贡蒂,说道:“我要去追随国王;请您回去吧。”

15.17.8

वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि ।
राजा यात्वेष धर्मात्मा तपसे कृतनिश्चयः ॥ १५.१७.८ ॥

王后啊,您应当在众儿媳的簇拥下返回城中。这位心怀正法的国王已决意修行苦行,让他去吧。

15.17.9

इत्युक्ता धर्मराजेनि बाष्पव्याकुललोचना ।
जगामैव तदा कुन्ती गान्धारीं परिगृह्य ह ॥ १५.१७.९ ॥

法王如此说罢,贡蒂泪眼迷蒙,携着甘陀利便离去了。

15.17.10

सहदेवे महाराज माऽप्रसादं कृथाः क्वचित् ।
एष मामनुरक्तो हि राजंस्त्वां चैव सर्वदा ॥ १५.१७.१० ॥

大王啊,切勿对偕天有任何不悦之色。他一向对我和您都忠诚依恋。

15.17.11

कर्णं स्मरेथाः सततं सङ्ग्रामेष्वपलायिनम् ।
अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा ॥ १५.१७.११ ॥

你要时常想起迦尔纳,他在战阵中从不逃避。那位英雄,我当时因愚昧的判断而将他舍弃了。

15.17.12

आयसं हृदयं नूनं मन्दाया मम पुत्रक ।
यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते ॥ १५.१७.१२ ॥

我的儿啊,我的心想必是铁铸的,因为我这不幸之人,见不到日神之子,它竟不碎裂成百片。

15.17.13

एवं गते तु किं शक्यं मया कर्तुमरिंदम ।
मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः ॥ १५.१७.१३ ॥

既已如此,我还能做什么呢,征服敌人者啊?我的过失被大肆宣扬:未能揭示太阳之子。

15.17.14

तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम् ।
सदैव भ्रातृभिः सार्धं सूर्यजस्यारिमर्दन ॥ १५.१७.१४ ॥

因此,大臂者啊,你应当始终与兄弟们一起,为太阳之子施予最上等的布施,征服敌人者啊。

15.17.15

द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन ।
भीमसेनोऽर्जुनश्चैव नकुलश्च कुरूद्वह ॥ १५.१७.१५ ॥

亲爱的,你应当始终与德罗波蒂同在,征服敌人者啊;也应当与怖军、阿周那和无种同在,俱卢中的最杰出者啊。

15.17.16

समाधेयास्त्वया राजंस्त्वय्यद्य कुलधूर्गता ।
श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम्।
गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी ॥ १५.१७.१६ ॥

王啊,今日家族的重担落在你身上,你必须承担。我将与甘陀利一同在林中侍奉公婆之足,作为苦行女,身上沾满尘垢而居住。

15.17.17

एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी ।
विषादमगमद्धीमान्न च किञ्चिदुवाच ह ॥ १५.१७.१७ ॥

被如此说后,那位正法之魂、克制自持的智者,与兄弟们一同陷入忧伤,一言不发。

15.17.18

मुहूर्तमिव तु ध्यात्वा धर्मराजो युधिष्ठिरः ।
उवाच मतारं दीनश्चिन्ताशोकपरायणः ॥ १५.१७.१८ ॥

沉思片刻之后,法王坚战悲伤不已,陷入忧虑与哀痛,对母亲说道。

15.17.19

किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि ।
न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि ॥ १५.१७.१९ ॥

你这是什么打算?你不该这样说。我不允许你这样做;你应当施恩于我。

15.17.20

व्यचोदयः पुराऽस्माकमुत्साहं शुभदर्शने ।
विदुलाया वचोभिस्त्वं नास्मान्संत्यक्तुमर्हसि ॥ १५.१७.२० ॥

吉祥容貌者啊!往昔你以毗度罗之言激励我们;如今你不应舍弃我们。

15.17.21

निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया ।
तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात् ॥ १५.१७.२१ ॥

我杀尽诸王,得到了这个王国,这是在人中之牛瓦苏提婆那里听取你的谋略之后。

15.17.22

क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया ।
क्षत्रधर्मे स्थितं त्यक्त्वा न प्रयातुमिहार्हसि ॥ १५.१७.२२ ॥

我所听闻的你那番心意,如今在哪里?安住于刹帝利之法,你不应舍弃它而离去。

15.17.23

अस्मानुत्सृज्य राज्यं च स्नुषाहीना यशस्विनि ।
कथं वत्स्यसि दुर्गेषु वनेष्वद्य प्रसीद मे ॥ १५.१७.२३ ॥

光荣的女子啊!你舍弃我们与王国,没有了儿媳,将如何在险峻的森林中居住?现在请对我施恩。

15.17.24

इति बाष्पकला वाचः कुन्ती पुत्रस्य शृण्वती ।
जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत् ॥ १५.१७.२४ ॥

贡蒂听到儿子这些哽咽含泪的话,便含泪离去;这时,毗摩对她说了这番话。

15.17.25

यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम् ।
प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः ॥ १५.१७.२५ ॥

孔蒂啊,当这由你的儿子们所征服的王国应当享用,王者之法应当获得时,你这个念头从何而来?

15.17.26

किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम् ।
कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि ॥ १५.१७.२६ ॥

你先前为何让我们造成大地的毁灭?你为了什么缘故,要抛弃我们而前往森林?

15.17.27

वनाच्चापि किमानीता भवत्या बालका वयम् ।
दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा ॥ १५.१७.२७ ॥

你为何把我们这些孩子从森林里带来,还有这两个被忧伤悲痛所笼罩的摩德利之子?

15.17.28

प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि ।
श्रियं यौधिष्ठिरीं मातर्भुङ्क्ष्व पार्थबलार्जिताम् ॥ १५.१७.२८ ॥

请慈悲,母亲,今日不要去森林。啊,光荣的母亲,请享用由般度之子的力量所获得的坚战的福德。

15.17.29

इति सा निश्चितैवाशु वनवासकृततक्षणा ।
लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः ॥ १५.१७.२९ ॥

她就这样迅速下定决心,准备前往森林居住。儿子们以种种方式哀求,她却不听从他们的话。

15.17.30

द्रौपदी चान्वयाच्छ्वश्रूं विषष्णवदना तदा ।
वनवासाय गच्छन्तीं रुदती भद्रया सह ॥ १५.१७.३० ॥

那时,德劳帕蒂面容愁苦,跟随前往森林居住的婆婆,与跋陀罗一同哭泣而行。

15.17.31

सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती ।
जगामैव महाप्राज्ञा वनाय कृतनिश्चया ॥ १५.१७.३१ ॥

这位大智慧的女子,心意已决,一次又一次回望所有哭泣的儿子,向森林走去。

15.17.32

अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तथा ।
ततः प्रमृज्य साऽश्रूणि पुत्रान्वचनमब्रवीत् ॥ १५.१७.३२ ॥

般度五子连同侍从和内宫妇女跟随在她身后。随后,她擦干眼泪,对儿子们说了这些话。