摩诃婆罗多 · 章 15.25
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.25.1
आज्ञापयामास ततः सेनां भरतसत्तमः ।
अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः ॥ १५.२५.१ ॥
于是婆罗多族中最杰出者向军队下令;军队由如世界护卫者般的勇士护卫,以阿周那为首。
15.25.2
योगोयोग इति प्रीत्या ततः शब्दो महानभूत् ।
क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति ॥ १५.२५.२ ॥
于是众人欢喜,发出巨大的喊声:「套车!套车!」那里的骑兵大喊:「让它套上!让它套上!」
15.25.3
केचिद्यानैर्नरा जग्मुः केचिदश्वैर्महाजवैः ।
काञ्चनैश्च रथैः केचिज्ज्वलितज्वलनोपमैः ॥ १५.२५.३ ॥
有人乘车前往,有人骑着疾速的骏马,还有人乘坐如熊熊烈火般的金色战车。
15.25.4
गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप ।
पदातयस्तथैवान्ये नखरप्रासयोधिनः ॥ १५.२५.४ ॥
还有人乘坐高大的象,有人乘骆驼,哦人主;另外一些则是步兵,以爪与长矛作战。
15.25.5
पौरजानपदाश्चैव यानैर्बहुविधैस्तथा ।
अन्वयुः कुरुराजानं धृतराष्ट्रं दिदक्षवः ॥ १५.२५.५ ॥
城市居民与乡村百姓也乘坐各式车辆,想要见到库鲁王持国,于是跟随在他身后。
15.25.6
स चापि राजवचनादाचार्यो गौतमः कृपः ।
सेनामादाय सेनानीः प्रययावाश्रमं प्रति ॥ १५.२५.६ ॥
依国王之命,师尊乔答摩·克里巴也率领军队,作为统帅,朝着修行处出发了。
15.25.7
ततो द्विजैः परिवृतः कुरुराजो युधिष्ठिरः ।
संस्तूयमानो बहुभिः सूतमागधबन्दिभिः ॥ १५.२५.७ ॥
于是,被婆罗门环绕、被众多御者、颂者与赞者赞颂的库鲁王坚战(Yudhiṣṭhira)启程而出。
15.25.8
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
रतानीकेन महता निर्जगाम कुरूद्वहः ॥ १५.२५.८ ॥
头顶撑着白伞,库鲁族之最率领庞大而令人愉悦的军队出发了。
15.25.9
गजैश्चाचलसंकाशैर्भीमकर्मा वृकोदरः ।
सज्जयन्त्रायुधोपेतैः प्रययौ पवनात्मजः ॥ १५.२५.९ ॥
率领如山岳般的象群,装备器械与兵器,行事可怖的狼腹(Vṛkodara),风神之子出发了。
15.25.10
माद्रीपुत्रावपि तथा हयारोहौ सुसंवृतौ ।
जग्मतुः शीघ्रगमनौ सन्नद्धकवचध्वजौ ॥ १५.२५.१० ॥
玛德莉之子二人亦骑马而行,严密护卫,行进迅捷,身披铠甲,旗帜飘扬。
15.25.11
अर्जुनश्च महातेजा रथेनादित्यवर्चसा ।
वशी श्वेतैर्हयैर्युक्तैर्दिव्येनान्वगमन्नृपम् ॥ १५.२५.११ ॥
大光明且自制的阿周那,乘坐光如太阳的神车,驾以白马,跟随国王而行。
15.25.12
द्रौपदीप्रमुखाश्चापि स्त्रीसङ्घाः शिबिकागताः ।
स्त्र्यध्यक्षगुप्ताः प्रययुर्विसृजन्तोऽमितं वसु ॥ १५.२५.१२ ॥
以德罗波蒂为首的众妇女也乘坐轿子,在女监的守护下出发,同时布施无量的财富。
15.25.13
समृद्धरथहस्त्यश्वं वेणुवीणानुनादितम् ।
शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ ॥ १५.२५.१३ ॥
般度之子的军队,车马象群繁盛,笛声琴音回响,那时光彩焕发,婆罗多中的雄牛啊。
15.25.14
नदीतीरेषु रम्येषु सरःसु च विशाम्पते ।
वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुङ्गवाः ॥ १५.२५.१४ ॥
在河岸的宜人之处和湖泊旁扎营,人民之主啊,那些库鲁中的雄杰随后依次前行。
15.25.15
युयुत्सुश्च महातेजा धौम्यश्चैवि पुरोहितः ।
युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः ॥ १५.२५.१५ ॥
光辉赫赫的游休苏与家祭司达乌摩,遵照坚战之命,承担起守卫城邑之责。
15.25.16
ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत् ।
क्रमोणोत्तीर्य यमुनां नदीं परमपाविनीम् ॥ १५.२५.१६ ॥
随后,国王坚战依次渡过至为洁净的亚穆纳河,进入俱卢之野。
15.25.17
स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः ।
शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह ॥ १५.२५.१७ ॥
他远远望见那位睿智的王仙沙塔尤波的修行所,也望见了持国王的修行所,俱卢的后裔啊。
15.25.18
ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा ।
विवेश सुमहानादैरापूर्य भरतर्षभ ॥ १५.२५.१८ ॥
于是众人欢喜,径直走入那片森林,以洪亮的呼声充满了它,婆罗多中的雄牛啊。