Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.32

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.32.1

भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम् ।
स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम ॥ १५.३२.१ ॥

尊贵的主啊,你是我的公公,是神中之神。你是超越诸神的至高之神;请听我真实的话语。

15.32.2

तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः ।
भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम् ॥ १५.३२.२ ॥

我父亲家中来了一位名叫杜尔婆娑的苦行婆罗门,性情暴躁,前来乞食;我让他完全满意。

15.32.3

शौचने त्वागसस्त्यागैः शुद्धेन मनसा तथा ।
कोपस्थानेष्वपि महत्स्वकुप्यन्न कदाचन ॥ १५.३२.३ ॥

凭借纯洁、舍弃过失,并以清净之心,即便遇到极易引发大怒的时候,我也从未动怒。

15.32.4

स प्रीतो वरदो मेऽभूत्कृतकृत्यो महामुनिः ।
अवश्यं ते ग्रहीतव्यमिति मां सोब्रवीद्वचः ॥ १५.३२.४ ॥

他很高兴,成为赐予我恩惠的人;这位大仙已达成所愿,对我说:“你必须接受。”

15.32.5

ततः शापभयाद्विप्रमवोचं पुनरेव तम् ।
एवमस्त्विति च प्राह पुनरेव स मे द्विजः ॥ १५.३२.५ ॥

于是,出于对诅咒的恐惧,我又对那位婆罗门说了话;那位再生者又对我说:“就这样吧。”

15.32.6

धर्मस्य जननी भद्रे भवित्री त्वं शुभानने ।
वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि ॥ १५.३२.६ ॥

啊,吉祥者,美颜者!你将成为法(达磨)之母;你所召唤的诸神将听从你的支配。

15.32.7

इत्युक्त्वाऽन्तर्हितो विप्रस्ततोऽहं विस्मिताऽभवम् ।
न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति ॥ १५.३२.७ ॥

仙人说完便隐没了。我感到惊异,但在一切境况中,我的记忆都未曾消失。

15.32.8

अथ हर्म्यतलस्थाऽहं रविमुद्यन्तमीक्षती ।
संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम् ॥ १५.३२.८ ॥

那时我站在宫殿的屋顶上,凝望升起的太阳。想起仙人的话语,我渴望着太阳。

15.32.9

स्थिताऽहं बालभावेन तत्र दोषमबुद्ध्यती ।
अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत् ॥ १५.३२.९ ॥

我那时还是少女心性,未察觉其中的过失。于是千道光芒的天神来到了我身边。

15.32.10

द्विधा कृत्वाऽऽत्मनो देहं भूमौ च गगनेऽपि च ।
तताप लोकानेकेन द्वितीयेनागमत्स माम् ॥ १५.३२.१० ॥

他将自身分为两半,一半照暖大地与天空的诸世界,另一半来到了我的身边。

15.32.11

स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह ।
गम्यतामिति तं चाहं प्रणम्य सिरसाऽवदम् ॥ १५.३२.११ ॥

他对我颤抖的样子说:“向我求一个恩赐吧。”我低头向他行礼,说:“请您离去。”

15.32.12

स मामुवाच तिग्मांशुर्वृथाऽऽह्वानं न मे क्षमम् ।
धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव ॥ १५.३२.१२ ॥

那位光辉的神对我说:“徒然的召唤与我不相称。我要焚烧你,还有那个赐予你恩赐的婆罗门。”

15.32.13

तमहं रक्षती विप्रं शापादनपकारिणम् ।
पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रवम् ॥ १५.३२.१३ ॥

为了使那位无过的婆罗门免受诅咒,我说:「神啊,愿我的儿子与你相同。」

15.32.14

ततो मां तेजसाऽऽविश्य मोहयित्वा च भानुमान् ।
उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम् ॥ १५.३२.१४ ॥

于是光辉的太阳以其光芒进入我身,使我迷惑,说道:「你将有一子。」随后便返回天界。

15.32.15

ततोऽहमन्तर्भवने पितुश्चित्तानुरक्षिणी ।
गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम् ॥ १५.३२.१५ ॥

于是,我顾及父亲的心意,把在内宫秘密出生的婴儿之子迦尔纳放入水中。

15.32.16

नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु ।
कन्याऽहमभवं विप्र यथा प्राह स मामृषिः ॥ १५.३२.१६ ॥

必定是那位神明的恩典,婆罗门啊,我再次成为了处女,正如那位仙人对我所说。

15.32.17

स मया सूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः ।
तन्मां दहति विप्रर्षे यथा सुविदितं तव ॥ १५.३२.१७ ॥

那个儿子,是我未出嫁时所生,我虽然认得他,却遗弃了他。婆罗门仙人啊,这灼烧着我,正如您所深知的。

15.32.18

यदि पापमपापं वा यदेतद्विवृतं मया ।
तं द्रष्टुमिच्छामि भगवन्व्यपनेतुं त्वमर्हसि ॥ १५.३२.१८ ॥

我所说出的这件事,是罪是无罪,尊者啊,我想要看清;您应当为我除去它。

15.32.19

यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ ।
तं चायं लभतां काममद्यैव मुनिसत्तम ॥ १५.३२.१९ ॥

无罪者啊,愿他今日便得到这位国王心中所藏、你所知晓的那份愿望,诸仙中最优秀者啊。

15.32.20

इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदांवरः ।
साधु सर्वमिदं भाव्यमेवमेतद्यथाऽऽत्थ माम् ॥ १५.३२.२० ॥

如此被问,精通吠陀者中最优秀的毘耶娑答道:“好,这一切都会如你对我所说的那样发生。”

15.32.21

अपराधश्च ते नास्ति कन्याभावं गता ह्यसि ।
देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै ॥ १५.३२.२१ ॥

你并无过失,你仍处于处女之身。掌握权能的神明确实会进入人的身体。

15.32.22

सन्ति देवनिकायाश्च संकल्पाज्जनयन्ति ये ।
वाचा दृष्ट्या तथा स्पर्शात्संघर्षेणेति पञ्चधा ॥ १५.३२.२२ ॥

有些神众能以意念、言语、目光,同样以接触和交合而生育——如此共有五种方式。

15.32.23

मनुष्यधर्मो दैवेन धर्मेण हि न दुष्यति ।
इति कुन्ति विजानीहि व्येतु ते मानसो ज्वरः ॥ १५.३२.२३ ॥

凡由神力所成的人间之事,不会因法而受玷污。要知道这一点,贡蒂啊,愿你心中的热恼消退。

15.32.24

सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि ।
सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम् ॥ १५.३२.२४ ॥

对于强者,一切都是有益的;对于强者,一切都是清净的;对于强者,一切都是法;对于强者,一切都是他们自己的。