Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.34.1

ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः ।
व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः ॥ १५.३४.१ ॥

随后夜幕降临,众人完成了黄昏的祭仪,凡在那里聚集的人都前往毗耶娑处。

15.34.2

धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा ।
शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत् ॥ १५.३४.२ ॥

彼时,法心的持国王与般度诸子同在,心意专一、身心清净,与那些仙人一同坐下。

15.34.3

गान्धार्या सह नार्यस्तु सहिताः समुपाविशन् ।
पौरजानपदश्चापि जनः सर्वो यथा वयः ॥ १५.३४.३ ॥

众妇女与甘陀利同坐,城乡所有的人也依年岁而坐。

15.34.4

ततो व्यासो महातेजाः पुण्यं भागीरथीजलम् ।
अवतीर्याजुहावाथ सँर्वाल्लोकान्महामुनिः ॥ १५.३४.४ ॥

于是大光明的毗耶娑入于神圣的婆吉罗提河之水,召唤了一切世界。

15.34.5

पाण्डवानां च ये योधाः कौरवाणां च सर्वशः ।
राजानश्च महाभागा नानादेशनिवासिनः।
प्रतीक्ष्य तस्थुस्ते सर्वे तेषामागमनं प्रति ॥ १५.३४.५ ॥

般度诸子与俱卢诸子的战士,以及居住在各国的诸位大福德之王,都站立等候他们的到来。

15.34.6

ततः सुतुमुलः शब्दो जलान्ते जनमेजय ।
प्रादुरासीद्यथायोगं कुरुपाण्डवसेनयोः ॥ १५.३४.६ ॥

于是,嗟乎,遮那弥阳遮,在水边,俱卢与般度两军之中,依礼响起了极为喧嚣的声音。

15.34.7

ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः ।
ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः ॥ १५.३४.७ ॥

于是,以毗湿摩和德罗纳为首的诸王,连同各自的军队,从那水中成千上万地站了起来。

15.34.8

विराटद्रुपदौ चैव सहपुत्रौ ससैनिकौ ।
द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः ॥ १५.३४.८ ॥

毗罗吒与德鲁帕达连同他们的儿子与士兵,德罗波蒂的诸子,萨乌跋陀罗,以及罗刹迦托特迦恰。

15.34.9

कर्णदुर्योधनौ चैव शकुनिश्च महारथः ।
दुःशासनादयश्चैव धार्तराष्ट्रा महाबलाः ॥ १५.३४.९ ॥

迦尔纳与难敌,大车战士沙古尼,难降等人,以及力量强大的持国诸子。

15.34.10

जारासन्धिर्भगदत्तो जलसन्धश्च वीर्यवान् ।
भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः ॥ १५.३४.१० ॥

迦罗散陀之子,婆伽达多,勇猛的阇罗散陀,尸利室罗婆斯,沙罗,沙利耶,以及与其幼弟一同的伐栗舍犀那。

15.34.11

लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्सहात्मजः ।
शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुज ॥ १५.३४.११ ॥

王子罗什摩那,与其子一同的持震,尸继丹之诸子,以及与其幼弟一同的持胜。

15.34.12

अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः ।
बाह्लिकः सोमदत्तश्च चेकितानश्च पार्थिवः ॥ १५.३४.१२ ॥

阿遮罗与伐栗迦,罗刹阿罗尤陀也,婆利迦,苏摩达多,以及国王遮吉旦那。

15.34.13

एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः ।
सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः ॥ १५.३४.१३ ॥

这些人以及其他许多因人数众多而未被提及的人,都以光辉的身体从水中升起。

15.34.14

यस्य् वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् ।
यद्वर्म यत्प्रहरणं तेन तेन स दृश्यते ॥ १५.३४.१४ ॥

每位英雄都以其原本的服饰、旗帜、坐骑、铠甲和兵器显现出来。

15.34.15

दिव्यांबरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः ।
निर्वैरा निरहङ्कारा विगतक्रोधमत्सराः ॥ १५.३४.१५ ॥

所有人都穿着天神的衣裳,耳环闪耀;他们没有仇恨,没有傲慢,已断除愤怒与嫉妒。

15.34.16

गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः ।
दिव्यमाल्यस्रजोपेतास्तथा दिव्याप्सरोवृताः ॥ १५.३४.१६ ॥

被乾闼婆歌唱,被赞者颂扬,佩戴天界花环,被天界阿普沙拉斯环绕。

15.34.17

धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप ।
मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात् ॥ १५.३४.१७ ॥

人主啊!那时,萨提耶瓦蒂之子仙人心生欢喜,以其苦行之力赐予持国божественное眼。

15.34.18

दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी ।
ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि मृघे हताः ॥ १५.३४.१८ ॥

荣耀的甘陀利凭借神圣的智慧与力量,见到了她所有的儿子,也见到了其他在战场上阵亡的人。

15.34.19

तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षमम् ।
विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः ॥ १५.३४.१९ ॥

众人惊异不已,睁大双眼注视着这奇妙、难以想象、令人毛骨悚然的景象。

15.34.20

तदुत्सवमहोदग्रं हृष्टनारीनराकुलम् ।
आश्चर्यभूतं ददृशे चित्रं पटगतं यथा ॥ १५.३४.२० ॥

那盛大隆重的节庆,充满欢乐的男女,看起来奇妙如同绢布上的画像。

15.34.21

धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा ।
मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः ॥ १५.३४.२१ ॥

婆罗多族中最优秀者啊!持国王以天眼看见他们全部,因那位仙人的恩赐而真正欢喜。