Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.35

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.35.1

ततस्ते पुरषश्रेष्ठाः समाजग्मुः परस्परम् ।
विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः ॥ १५.३५.१ ॥

于是那些人中之英,彼此聚集,怒气与嫉妒皆已消除,一切罪垢都已洗净。

15.35.2

विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम् ।
संहृष्टमनसः सर्वे देवलोक इवामराः ॥ १५.३५.२ ॥

遵循梵仁仙所定的至上吉祥之仪轨,众人心意欢喜,如同天界的诸不死者。

15.35.3

पुत्रः पित्रा च मात्रा च भार्याश्च पतिभिः सह ।
भ्रात्रा भ्राता सखा चैव सख्या राजन्समागताः ॥ १५.३५.३ ॥

子与父母,妻与夫,兄弟与兄弟,朋友与朋友,大王啊,齐聚一堂。

15.35.4

पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च ।
सम्प्रहर्षात्समाजग्मुर्द्रौपदेयांश्चक सर्वशः ॥ १५.३५.४ ॥

般度之子欣喜万分,与大弓箭手迦尔纳、苏跋陀罗之子,以及德劳波蒂之子,一一相会。

15.35.5

ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः ।
समेत्य पृथिवीपाल सौहृदे च स्थिताऽभवन् ॥ १५.३५.५ ॥

于是般度之子与迦尔纳相互欢悦,相会之后,大地之主啊,彼此情谊坚定不移。

15.35.6

परस्परं समागम्य योधास्ते भरतर्षभ ।
मुनेः प्रसादात्ते ह्येवं क्षत्रिया नष्टमन्यवः ॥ १५.३५.६ ॥

薄拉塔之牛啊,诸武士彼此相会,蒙仙人之恩,便如此成为怒气已灭的刹帝利。

15.35.7

असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः ।
एवं समागताः सर्वे गुरुभिर्बान्धवैः सह ॥ १५.३५.७ ॥

放下敌意,安于善意,众人便这样与长辈和亲属聚集在一起。

15.35.8

पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च पार्थिवाः ।
तां रात्रिमकिलामेवं विहृत्य प्रीतमानसाः ॥ १५.३५.८ ॥

与儿子们一起,人中虎豹般的俱卢族人和其他诸王,如此度过了整个夜晚,心中欢喜。

15.35.9

मेनिरे परितोषेण नृपाः स्वर्गसदो यथा ।
नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत् ॥ १५.३५.९ ॥

诸王因满足而觉得如同天界居者;这里既无忧愁,也无恐惧、惊惧、厌倦,亦无耻辱。

15.35.10

परस्परं समागम्य योधानां भरतर्षभ ।
समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः।
मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् ॥ १५.३५.१० ॥

婆罗多之雄啊,战士们相互会面之时,女子们与父亲、兄弟、丈夫和儿子相聚,获得了至高的喜悦,于是放下了忧伤。

15.35.11

देवलोकं गता ये च ये च ब्रह्मसदो गताः ।
ये चापि वारुणं लोकं ये च गोलोकमाश्रिताः ॥ १५.३५.११ ॥

那些往生天界者,那些成为梵天会众者,那些前往水神伐楼那世界者,以及那些归依牛界(戈洛迦)者——

15.35.12

तथा वैवस्वतं लोकं ये च यक्षानुपागताः ।
राक्षसांश्च पिशाचांश्च कुरूंश्चापि तथोत्तरान् ॥ १५.३५.१२ ॥

同样,往生毗婆斯婆多(阎摩)世界者,投向夜叉者,前往罗刹与毕舍遮者,以及前往俱卢与北俱卢者。

15.35.13

विचित्राश्च गतीरन्ये ये प्राप्ताः कर्मभिर्नराः ।
सर्वे ते तद्वयोरूपवेषास्तत्र समभ्ययुः ॥ १५.३५.१३ ॥

其他因业行而得到各种归宿的人,他们都以相同的年龄、形貌和服饰聚集于彼处。

15.35.14

एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः ।
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतं ॥ १५.३५.१४ ॥

如此度过一夜之后,那些英雄与女子彼此告别、相互拥抱,便依来时的路离去了。

15.35.15

ततो विसर्जयामास लोकांस्तान्मुनिपुङ्गवः ।
क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन् ॥ १५.३५.१५ ॥

于是那位最优秀的仙人送走了那些世界,在一瞬间它们便在众人注视之下消失了。

15.35.16

अवगाह्य महात्मानः पुण्यां भागीरथीं नदीम् ।
सरथाः सध्वजाश्चैव स्वानि वेश्मानि भेजिरे ॥ १५.३५.१६ ॥

这些大德在圣河婆吉罗提河中沐浴之后,乘着车、举着旗幡,各自回到了自己的住所。

15.35.17

देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा ।
केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन् ॥ १५.३५.१७ ॥

有人前往天界,有人前往梵天之会;有人得到水神伐楼那之界,有人得到财神俱毗罗之界。

15.35.18

ततो वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः ।
राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून् ॥ १५.३५.१८ ॥

随后,有些国王到达了毗婆娑多·阎摩之界;有些前往罗刹与毕舍遮之界,有些前往北俱卢。

15.35.19

विचित्रगतयः सर्वे यानवाप्यामरैः सह ।
आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः ॥ १५.३५.१९ ॥

所有那些获得不同归宿的大德者,与诸天神一同来到那里,连同他们的坐骑、步兵和随从。

15.35.20

गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः ।
धर्मसीलो महातेजाः कुरूणां हितकृतदा।
ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः। ॥ १५.३५.२० ॥

当他们全都离去后,站在水中的那位持正德、大光明、利益俱卢族的大仙,便对所有那些丈夫已被杀死的刹帝利妇女说道。

15.35.21

यायाः पतिकृताँल्लोकानिच्छनति परमस्त्रियः ।
ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः ॥ १५.३५.२१ ॥

凡渴望凭借丈夫所得之世界的至上女子,应当迅速、毫不懈怠地沐浴于恒河(Jāhnavī)之水中。

15.35.22

ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः ।
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम् ॥ १५.३५.२२ ॥

于是,这些贤淑的女子听了他的话,满怀信心,向公公恭敬告辞后,走进了恒河之水。

15.35.23

विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह ।
समाजग्मुस्तदा साध्व्यः सर्वा एवं विशाम्पते ॥ १५.३५.२३ ॥

这些贤德的女子脱离了人身,便与各自的丈夫重逢;如此,啊人民之主,她们全都聚集在一起。

15.35.24

एवं क्रमेणि सर्वास्ताः शीलवत्यः पतिव्रताः ।
प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम् ॥ १५.३५.२४ ॥

如此依次,那些持戒贤良、忠于丈夫的女子全都走入水中,脱离身体,前往丈夫所在的世界。

15.35.25

दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः ।
दिव्यमाल्यांबरधरा यथाऽऽसां पतयस्तथा ॥ १५.३५.२५ ॥

容貌神圣,身饰天界珍宝,披戴天界花环与衣裳,与其夫君一样。

15.35.26

ताः शीलगुणसम्पन्ना विमानस्था गतक्लुमाः ।
सर्वाः सर्वगुणोपेताः स्वस्थानं प्रतिपेदिरे ॥ १५.३५.२६ ॥

她们皆具备良善品行与美德,乘坐天车,无有疲惫,具足一切功德,各自回到了自己的住处。

15.35.27

यस्य यस्य तु यः कामस्तस्मिन्काले बभूव ह ।
तंतं विसृष्टवान्व्यासो वरदो धर्मवत्सलः ॥ १५.३५.२७ ॥

彼时每人心中所生之愿,爱护正法的赐恩者毗耶娑都一一赐予了他们。

15.35.28

तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः ।
जहृषुर्मुदिताश्चासन्नानादेशगता अपि ॥ १५.३५.२८ ॥

闻知众王归来,即便身在他乡各地的人们也都欢喜雀跃。

15.35.29

ते नष्टभयसङ्कल्पा नरा विगतकल्मषाः ।
बभूवुः पौरवाःसर्वे तद्दृष्ट्वाऽऽश्चर्यमुत्तमम् ॥ १५.३५.२९ ॥

恐惧与疑虑消散,罪垢尽除,所有般婆人见到那殊胜的奇迹,皆变得如此。

15.35.30

प्रियैः समागमं तेषां यः सम्यक् शृणुयान्नरः ।
प्रियाणि लभते नित्यमिह च प्रेत्य चैव सः।
इष्टबान्धवसंयोगमनायासमनामयम् ॥ १५.३५.३० ॥

若有人善加聆听他们与所爱之人重逢的故事,此生与身后,他常得所爱之物——与亲友团聚,无劳无病。

15.35.31

यश्चैतच्छ्रावयेद्विद्वान्विदुषो धर्मवित्तमः ।
स यशः प्राप्नुयाल्लोके परत्र च शुभां गतिम् ॥ १५.३५.३१ ॥

若有精通法义的智者,将此说与学者听闻,他在此世获得名声,在来世获得善趣。

15.35.32

स्वाध्याययुक्ता मनुजास्तपोयुक्ताश्च भारत ।
साध्वाचारा दमोपेता दाननिर्धूतकल्मषाः ॥ १५.३५.३२ ॥

婆罗多啊,专注于经典诵习与苦行、行为端正、具足克制、以布施洗净罪垢的人们。

15.35.33

ऋजवः शुचयः शान्ता हिंसानृतविवर्जिताः ।
आस्तिकाः श्रद्दधानाश्च धृतिमन्तश्च मानवाः।
श्रुत्वाऽऽश्चर्यमिदं पर्व ह्यवाप्स्यन्ति परां गतिम् ॥ १५.३५.३३ ॥

正直、清净、寂静、远离暴力与虚妄、信奉、有信心且坚定的人们,听闻这奇妙的篇章后,将获得无上之趣。

15.35.34

पुनस्ते दर्शनं प्राप्ताः पुनश्च परिकीर्तिताः ।
पुनःपुनः प्रयच्छन्ति शृण्वतामभयं सदा ॥ १५.३५.३४ ॥

他们再次显现,再次被传颂;对于聆听者,他们一次又一次地永远赐予无畏。