Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.37

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.37.1

अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान् ।
ऋषेः प्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह ॥ १५.३७.१ ॥

国王虽未见到儿子,却因仙人的恩典得以见到他们,俱卢之最。

15.37.2

स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा ।
अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च। ॥ १५.३७.२ ॥

那位国王还获得了王法、梵奥义的秘密教导以及坚定的智慧确信,人中之最。

15.37.3

विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात् ।
धृतराष्ट्रः समासाद्य व्यासं चैव तपस्विनम् ॥ १५.३७.३ ॥

大智的维杜罗凭苦行之力达到成就;而持国王亲近了苦行者毗耶娑,

15.37.4

ममापि वरदो व्यासो दर्शयेत्पितरं यदि ।
तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव तत् ॥ १५.३७.४ ॥

若赐福的毗耶娑也能让我看见父亲,且是那样的容貌、衣着与年龄,我便会相信这一切。

15.37.5

प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः ।
प्रसादादृषिमुख्यस्य मम कामः समृद्ध्यताम् ॥ १५.३७.५ ॥

这对我将是可喜的,我立下决心,便可得成。愿借首席仙人的恩典,使我的愿望成就。

15.37.6

इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान् ।
प्रसादमकरोद्धीमानानयच्च परिक्षितम् ॥ १५.३७.६ ॥

国王说完这些话后,威严而睿智的毗耶娑便施恩,并将帕利克希特也带了来。

15.37.7

ततस्तद्रूपवयसमागतं नृपतिं दिवः ।
श्रीमन्तं पितरं राजा ददर्श स परीक्षितम् ॥ १५.३७.७ ॥

于是国王看见从天界而来、容貌青春的光辉父亲波利克希特。

15.37.8

शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् ।
अमात्या ये च निहता राज्ञस्तांश्च ददर्श ह ॥ १५.३७.८ ॥

他还看见了伟大的沙弥迦、他的儿子角仙,以及被杀的国王大臣们。

15.37.9

ततः सोवभृथे राजा मुदितो जनमेजयः ।
पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः ॥ १५.३७.९ ॥

随后,在阿婆陀大浴时,欢喜的国王阇那美阁耶为父亲沐浴,然后自己也沐浴了。

15.37.10

परीक्षिदपि तत्रैव बभूव स तिरोहितः ।
स्नात्वा स नृपतिर्विप्रमास्तीकमिदमब्रवीत्।
यायावरकुलोत्पन्नं जरत्कारुसुतं तदा ॥ १५.३७.१० ॥

波利克希特也就在那里消失了。沐浴之后,国王对婆罗门阿斯提迦说了这番话,他是耶耶瓦拉族中诞生的jaratkāru之子。

15.37.11

आस्तीक विविधाश्चर्यो यज्ञेऽयमिति मे मतिः ।
यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः ॥ १५.३७.११ ॥

阿斯提迦啊,我认为这场祭祀充满诸多奇迹,因为今天我那消除我忧愁的父亲来到了这里。

15.37.12

ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः ।
यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ ॥ १५.३७.१२ ॥

库鲁族中最优秀者啊,古老的圣仙二岐衍那——苦行的宝藏——在祭祀中所在之处,他的两个世界都已被赢得。

15.37.13

श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन ।
सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः ॥ १५.३७.१३ ॥

般度之子的喜悦啊,你已听闻这段奇异的故事:诸蛇化为灰烬,走上了它们父亲的道路。

15.37.14

कथंचित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव ।
ऋषयः पूजिताः सर्वे गतिर्दृष्टा महात्मनः ॥ १५.३७.१४ ॥

国王啊,因你的诚实,德叉迦得以某种方式获释;诸位仙人都受到尊敬,大德者的归宿也得以显现。

15.37.15

प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम् ।
विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात् ॥ १५.३७.१५ ॥

聆听此消除罪业之事,便获得极大功德;见到高尚之人,心中的结便得以解开。

15.37.16

ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये ।
यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रिया ॥ १५.३७.१६ ॥

凡护持正法、乐于善行之人,见到他们罪业便减少,应当向他们致敬。

15.37.17

एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः ।
पूजयामास तमृषिमनुमान्य पुनःपुनः ॥ १५.३७.१७ ॥

国王遂马耶闻此言于最优秀的再生者,一再向那位仙人请求允许,并恭敬地礼拜他。

15.37.18

पप्रच्छ तमृषि चापि वैशम्पायनमच्युतम् ।
कथावशेषं धर्मज्ञो वनवासस्य सत्तम ॥ १५.३७.१८ ॥

精通正法、善人中最优秀者,又向那位不退转的仙人毗首衍那询问了林居故事的余下部分。